तदस्य पण्यम् (ठक्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/51)
लवणाट्ठञ् (तदस्य पण्यम्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/52)
किशरादिभ्यः ष्ठन् (तदस्य पण्यम्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/53)
शलालुनोऽन्यतरस्याम् (ष्ठन्, तदस्य पण्यम्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/54)
शिल्पम् (तदस्य, ठक्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/55)
मड्डुकझर्झरादणन्यतरस्याम् (शिल्पम्, तदस्य, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/56)
प्रहरणम् (तदस्य, ठक्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/57)
परश्वधाट्ठ च (प्रहरणम्, तदस्य, ठक्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/58)
शक्तिष्ट्योरीकक् (प्रहरणम्, तदस्य, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/59)
अस्तिनास्तिदिष्टं मतिः (तदस्य, ठक्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/60)