प्रमाणे च (सप्तम्याम्, तृतीयायाम्, णमुल्, धातोः, प्रत्ययः, परश्च) (3/4/51)
अपादाने परीप्सायाम् (णमुल्, धातोः, प्रत्ययः, परश्च) (3/4/52)
द्वितीयायां च (परीप्सायाम्, णमुल्, धातोः, प्रत्ययः, परश्च) (3/4/53)
स्वाङ्गेऽध्रुवे (द्वितीयायाम्, णमुल्, धातोः, प्रत्ययः, परश्च) (3/4/54)
परिक्लिश्यमाने च (स्वाङ्गे, द्वितीयायाम्, णमुल्, धातोः, प्रत्ययः, परश्च) (3/4/55)
विशिपतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः (द्वितीयायाम्, णमुल्, धातोः, प्रत्ययः, परश्च) (3/4/56)
अस्यतितृषोः क्रियान्तरे कालेषु (द्वितीयायाम्, णमुल्, धातोः, प्रत्ययः, परश्च) (3/4/57)
नाम्न्यादिशिग्रहोः (द्वितीयायाम्, णमुल्, धातोः, प्रत्ययः, परश्च) (3/4/58)
अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ (धातोः, प्रत्ययः, परश्च) (3/4/59)
तिर्यच्यपवर्गे (कृञः क्त्वाणमुलौ, धातोः, प्रत्ययः, परश्च) (3/4/60)