चर्मोदरयोः पूरेः (कर्मणि, णमुल्, धातोः, प्रत्ययः, परश्च) (3/4/31)
वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम् (पूरेः, कर्मणि, णमुल्, धातोः, प्रत्ययः, परश्च) (3/4/32)
चेले क्नोपेः (वर्षप्रमाणे, कर्मणि, णमुल्, धातोः, प्रत्ययः, परश्च) (3/4/33)
निमूलसमूलयोः कषः (कर्मणि, णमुल्, धातोः, प्रत्ययः, परश्च) (3/4/34)
शुष्कचूर्णरूक्षेषु पिषः (कर्मणि, णमुल्, धातोः, प्रत्ययः, परश्च) (3/4/35)
समूलाकृतजीवेषु हन्कृ ग्रहः (कर्मणि, णमुल्, धातोः, प्रत्ययः, परश्च) (3/4/36)
करणे हनः (णमुल्, धातोः, प्रत्ययः, परश्च) (3/4/37)
स्नेहने पिषः (करणे, णमुल्, धातोः, प्रत्ययः, परश्च) (3/4/38)
हस्ते वर्तिग्रहोः (करणे, णमुल्, धातोः, प्रत्ययः, परश्च) (3/4/39)
स्वे पुषः (करणे, णमुल्, धातोः, प्रत्ययः, परश्च) (3/4/40)