प्रजने सर्तेः (अप्, अकर्त्तरि च कारके संज्ञायाम्, भावे, धातोः, प्रत्ययः, परश्च) (3/3/71)
ह्नः संप्रसारणं च न्यभ्युपविषु (अप्, अकर्त्तरि च कारके संज्ञायाम्, भावे, धातोः, प्रत्ययः, परश्च) (3/3/72)
आङि युद्धे (ह्नः संप्रसारणं, अप्, अकर्त्तरि च कारके संज्ञायाम्, भावे, धातोः, प्रत्ययः, परश्च) (3/3/73)
निपानमाहावः (ह्नः संप्रसारणं, अप्, अकर्त्तरि च कारके संज्ञायाम्, भावे, धातोः, प्रत्ययः, परश्च) (3/3/74)
भावेऽनुपसर्गस्य (ह्नः संप्रसारणं, अप्, धातोः, प्रत्ययः, परश्च (3/3/75)
हनश्च वधः (भावेऽनुपसर्गस्य, अप्, धातोः, प्रत्ययः, परश्च (3/3/76)
मूर्तौ घनः (हनः, अप्, अकर्त्तरि च कारके संज्ञायाम्, भावे, धातोः, प्रत्ययः, परश्च (3/3/77)
अन्तर्घनो देशे (घनः, हनः, अप्, अकर्त्तरि च कारके संज्ञायाम्, भावे, धातोः, प्रत्ययः, परश्च) (3/3/78)
अगारैकदेशे प्रघणः प्रघाणश्च (घनः, हनः, अप्, अकर्त्तरि च कारके संज्ञायाम्, भावे, धातोः, प्रत्ययः, परश्च) (3/3/79)
उद्घनोऽत्याधानम् (घनः, हनः, अप्, अकर्त्तरि च कारके संज्ञायाम्, भावे, धातोः, प्रत्ययः, परश्च) (3/3/80)