००२४ सरल संस्कृत अनुवाद अभ्यास पाठ ४७१ से ५००

0
322

ओ३म्

471. संस्कृत वाक्याभ्यासः

छब ….छब … छब … छब ….

सः शिशुः जलेन सह क्रीडति।
= वह बच्चा पानी के साथ खेलता है।

माता द्रोणीं पूरयित्वा अपरे कार्ये मग्ना जाता। 
= माँ बाल्टी भरकर दूसरे किसी काम में मगन हो गई।

द्रोण्यां जलं पूरयित्वा सा पाकशालां गतवती। 
= बाल्टी में पानी भर कर वह रसोई में चली गई।

शिशुः द्वाभ्यां हस्ताभ्यां जलताड़नं करोति। 
= बालक दोनों हाथों से पानी में तालियाँ देता है।

माता पाकशालातः श्रुतवती।
= माँ ने रसोई से सुन लिया।

माता झटिति स्नानगृहम् आगत्य शिशुम् उन्नीतवती।
= माँ ने जल्दी से स्नानगृह आकर बालक को उठा लिया।

सा अवदत् – सूनो ! जलं शीतलम् अस्ति।
= वह बोली – पुत्र ! पानी ठंडा है।

शिशुः मुखेन केवलम् ” अ..बू … , अ…बू..वदति। 
= बालक मुख से केवल ” अ..बू … , अ…बू.. बोलता है।

माता अपि वदति – ” आम् वत्स ! अम्बु: , 
= माँ भी बोलती है – ” हाँ बेटा ! अम्बु ,

” अहम् अम्बा , एतद् अम्बुः ।” 
= मैं माँ , ये पानी ।

अधुना किञ्चिद् ऊष्णं जलं मेलयामि।
= अभी थोड़ा गरम पानी मिलाती हूँ।

तदा क्रीड ।
= तब खेलो।

शिशवे जलक्रीड़ा बहु रोचते।
= बालक को जल से खेलना पसंद है।

ओ३म्

472. संस्कृत वाक्याभ्यासः

सः / सा प्रतिरविवासरे सत्सङ्गं गच्छति। 
= वह हर रविवार को सत्संग जाता है / जाती है।

सत्सङ्गे सः / सा प्रवचनं श्रृणोति।
= सत्संग में वह प्रवचन सुनता / सुनती है।

बहवः जनाः सत्सङ्गं गच्छन्ति।
= बहुत से लोग सत्संग में जाते हैं।

सर्वे मिलित्वा वेदपाठं कुर्वन्ति।
= सब मिलकर वेदपाठ करते हैं।

सर्वे जनाः भजनानि अपि गायन्ति।
= सभी लोग भजन भी गाते हैं।

समापने ते सर्वे ध्यानं कुर्वन्ति। 
= समापन में वे सभी ध्यान भी करते हैं।

सत्सङ्गस्य प्रभावः सर्वेषां जीवने दृश्यते।
= सत्संग का प्रभाव सबके जीवन में दिखता है।

ये सत्सङ्गं गच्छन्ति ते सर्वे धैर्यवन्तः अभवन्। 
= जो सत्संग जाते हैं वे सभी धैर्यवान बन गए हैं ।

ते कष्टात् भयं न अनुभवन्ति।
= वे कष्ट से भय अनुभव नहीं करते हैं।

ते अन्धविश्वासम् अपि न कुर्वन्ति।
= वे अन्धविश्वास भी नहीं करते हैं।

सतसङ्गिनः दुराचारं न कुर्वन्ति।
= सत्संगी लोग दुराचार नहीं करते हैं।

ओ३म्

473. संस्कृत वाक्याभ्यासः

प्रातः सा भ्रमणार्थं गतवती।
= सुबह वह घूमने गई थी।

सा पत्या सह भ्रमणार्थं गतवती।
= वह पति के साथ घूमने गई थी।

सा पत्या सह उद्याने भ्रमणं कृतवती। (भ्रमितवती) 
= वह पति के साथ बगीचे में घूमी।

अर्धहोरा पर्यन्तं सा भ्रमितवती। 
= आधा घंटे तक वह घूमी 
( तौ द्वौ भ्रमितवन्तौ = वे दोनों घूमे )

पञ्चनिमेष पर्यन्तं द्वौ विश्रामं कृतवन्तौ। 
= पाँच मिनट तक दोनों ने विश्राम किया।

अनन्तरं द्वौ गृहं प्रति प्रस्थानं कृतवन्तौ।
= बाद में दोनों ने घर की ओर प्रस्थान किया।

मार्गे शाकविक्रेता मिलितवान्। 
= रास्ते में सब्जी बेचने वाला मिला।

सा शाकानि क्रीतवती।
= उसने सब्जियाँ खरीदीं।

सा मेथिकाम् अपि क्रीतवती।
= उसने मेथी भी खरीदी।

अधुना सा मेथिकायाः पूपिकां पचति।
= अभी वह मेथी का पराठा बना रही है।

द्वौ खादिष्यतः । 
= दोनों खाएँगे ।

बालकाः अपि खादिष्यन्ति।
= बच्चे भी खाएँगे।

ओ३म्

474. संस्कृत वाक्याभ्यासः

दक्षिणभारते अन्दमाननिकोबार द्वीपसमूहः अस्ति। 
= दक्षिण भारत में अंडमान निकोबार द्वीप समूह है।

द्वीपसमूहे प्रायः त्रिशतं द्वीपानि सन्ति।
= द्वीपसमूह में प्रायः तीन सौ द्वीप हैं।

तेषु एकम् अस्ति सेंटिनल द्वीपम् ।
= उनमें से एक है सेंटिनल द्वीप ।

सेंटिनल द्वीपे आदिवासिनः निवसन्ति। 
= सेंटिनल द्वीप में आदिवासी रहते हैं।

सेंटिनल द्वीपे प्रायः द्विशतम् आदिवासिनः वसन्ति।
= सेंटिनल द्वीप में लगभग दो सौ आदिवासी रहते हैं।

यदा कोsपि द्वीपं प्रवेष्टुं प्रयत्नं करोति तदा ते बाणैः प्रहारं कुर्वन्ति। 
= जब कोई भी द्वीप में घुसने का प्रयास करता है तब बाण से प्रहार करते हैं।

ते अग्निबाणम् अपि चालयितुं जानन्ति।
= वे अग्निबाण भी चलाना जानते हैं।

अधुना एकः ईसाई प्रचारकः द्वीपं प्रवेष्टुं प्रयत्नं कृतवान्। 
= अभी एक ईसाई प्रचारक ने द्वीप में घुसने का प्रयास किया।

ते आदिवासिनः तं प्रचारकं मारितवन्तः ।
= उन आदिवासियों ने उस प्रचारक को मार दिया।

आदिवासिनः आत्मरक्षणं स्वयमेव कुर्वन्ति।
= आदिवासी लोग आत्मरक्षा स्वयं ही करते हैं।

ओ३म्

475. संस्कृत वाक्याभ्यासः

गतदिने भुजनगरे युद्धकविमानानि उड्डयन्ते स्म।
= कल भुज शहर में युद्धक विमान उड़ रहे थे।

वायुसैनिकाः युद्धाभ्यासं कुर्वन्ति स्म।
= वायुसैनिक युद्धाभ्यास कर रहे थे।

कदाचित मिग विमानानि आसन्। 
= शायद मिग विमान थे।

विमानानि बहु वेगेन उड्डयन्ते स्म। 
= विमान बहुत वेग से उड़ रहे थे।

अद्य प्रातः पुनः उड्डयन्ते। 
= आज सुबह पुनः उड़ रहे हैं।

यदा विमानानि उड्डयन्ते तदा बालकाः मोदन्ते।
= जब विमान उड़ते हैं तब बच्चे खुश होते हैं।

परस्परं वदन्ति , पृच्छन्ति च … 
= एक दूसरे से कहते हैं और पूछते हैं …..

पश्य ….. ओ …. तद् गच्छति ।
= देखो … ओ … वो जा रहा है ।

दृष्टवान् वा ? 
= देखा क्या ?

दृश्यते वा ? 
= दिख रहा है ?

अहं तु दृष्टवान् / दृष्टवती ।
= मैंने तो देख लिया।

ओ … पश्य … आकाशे … लघु: लघु: दृश्यते। 
= ओ … देखो …. आकाश में छोटा छोटा दिख रहा है।

ओ३म्

476. संस्कृत वाक्याभ्यासः

*धन्यवादः 

**किमर्थम् ? = क्यों / किसलिये ?

* भवान् मम कार्यं कृतवान् अतः।
= आपने मेरा काम कर दिया इसलिये।

* भवती मम पुत्रं सम्यक् पाठितवती अतएव। 
= आपने मेरे बेटे को अच्छे से पढ़ाया इसलिये।

यतोहि भवान् मां मार्गं अदर्शयत्। 
= क्योंकि आपने मुझे रास्ता दिखाया।

यतोहि भवती मम वार्ताम् अमन्यत ।
= क्योंकि आपने मेरी बात मान ली ।

भवान् समये एव माम् उत्थापितवान् अतः ।
= आपने समय पर मुझे उठा दिया अतः।

भवती मम कार्यं मां स्मारितवती अतः ।
= आपने मुझे मेरा काम याद करा दिया इसलिये।

भवती संस्कृतसम्मेलनम् आगतवती अतः ।
= आप संस्कृतसम्मेलन में आईं इसलिये।

भवान् मम प्रतीक्षां कृतवान् अतः । 
= आपने मेरी प्रतीक्षा की इसलिये ।

भवतः / भवत्याः राष्ट्रसेवार्थं धन्यवादः ।
= आपकी राष्ट्रसेवा के लिये धन्यवाद।

यद् यद् श्रेष्ठं कार्यं क्रियते तदर्थं धन्यवादः । 
= जो जो श्रेष्ठ काम किये जाते हैं उसके लिये धन्यवाद।

ओ३म्

477. संस्कृत वाक्याभ्यासः

मालविका श्वः राँचीं गमिष्यति। 
= मालविका कल राँची जाएगी।

सा कोटातः राँचीं गमिष्यति।
= वह कोटा से राँची जाएगी

तत्र सा मातुलस्य गृहे वत्स्यति
= वह वहाँ मामा के घर रहेगी।

( वसति = रहता है / रहती है 
वत्स्यति = रहेगा / रहेगी )

मातुलस्य गृहे सा लिट्टी-चोखा खादिष्यति।
= मामाजी के घर वह लिट्टी-चोखा खाएगी।

मतुलः मालविकां भ्रमणार्थं नेष्यति।
= मामाजी मालविका को घुमाने ले जाएँगे।

राँचीनगरे सा जलप्रपातान् द्रक्ष्यति।
= राँची में वो झरने देखेगी।

सा टैगोर पर्वतं गमिष्यति।
= वह टैगोर पर्वत जाएगी।

रविवासरे सा राँची विश्वविद्यालये नर्तिष्यति। 
= रविवार को वह राँची विश्वविद्यालय में नाचेगी।

सा कत्थक-नृत्यं करिष्यति। 
= वह कत्थक नृत्य करेगी।

मालविका तत्र पुरस्कारं प्राप्स्यति। 
= मालविका वहाँ पुरस्कार पाएगी।

ओ३म्

478. संस्कृत वाक्याभ्यासः

सः प्रश्नं पृष्टवान् 
= उसने प्रश्न पूछा

आदेशः कथं दीयते ? 
= आदेश कैसे दिया जाता है ?

त्वं गच्छ 
त्वं वद 
त्वं पठ 
त्वं लिख 
त्वं खाद 
त्वं पिब 
त्वं हस 
त्वं नय 
त्वम् आगच्छ 
त्वं पश्य 
त्वं श्रृणु

यदा आदेशः त्वद् अर्थं दीयते तदा – गच्छ , वद ,लिख , पठ तथा वक्तव्यम् ।

यदा भवान् / भवती अर्थम् आदेशः देयः भवति तदा

भवान् / भवती गच्छतु ।

भवान् / भवती लिखतु

भवान् / भवती पठतु

भवान् / भवती खादतु

भवान् / भवती पिबतु

भवान् / भवती पश्यतु

भवान् / भवती श्रृणोतु

भवान् / भवती नयतु

भवान् / भवती करोतु

भवान् / भवती आगच्छतु

भवान् / भवती चलतु

भवान् / भवती स्मरतु

तथा भविष्यति।

ओ३म्

479. संस्कृत वाक्याभ्यासः

सा अद्य बहु प्रसन्ना अस्ति।
= वह आज बहुत खुश है।

सा अद्य बहु उत्साहे अपि अस्ति।
= वह आज बहुत उत्साह में भी है।

किमर्थम् ? 
= किसलिये ?

तस्याः भ्राता आगच्छति।
= उसका भाई आ रहा है ।

तस्याः भ्राता अद्य आगमिष्यति।
= उसका भाई आज आएगा ।

तस्याः भ्राता मणिपाले पठति।
= उसका भाई मणिपाल में पढ़ता है।

तस्याः भ्राता तत्र खगोलशास्त्रं पठति। 
= उसका भाई वहाँ खगोलशास्त्र पढ़ता है।

सा शीघ्रमेव सिद्धा जाता ।
= वह जल्दी ही तैयार हो गई।

पित्रा सह रेलस्थानकं गतवती।
= पिता के साथ रेलवेस्टेशन गई।

भ्रातुः कृते तस्याः माता स्वादिष्टम् अल्पाहारं निर्मितवती।
= भैया के लिये माँ ने स्वादिष्ट अल्पाहार भी बनाया है।

रेलस्थानकतः गृहं गत्वा सा भ्रात्रा सह अल्पाहारं करिष्यति।
= रेलवेस्टेशन से घर जाकर वह भाई के साथ अल्पाहार करेगी।

तस्याः भ्राता एकसप्ताह-पर्यन्तं गृहे स्थास्यति।
= उसका भाई एक सप्ताह तक घर में रुकेगा।

ओ३म्

480. संस्कृत वाक्याभ्यासः

दिनद्वयं किमपि न लिखितवान् अहम् ।
= दो दिन मैंने कुछ भी नहीं लिखा।

सतर्कता अधिकारी मम कार्यालयम् आगतवान् आसीत्। 
= विजिलेंस ऑफिसर मेरे कार्यालय में आए थे।

सः सर्वान् बहुविधान् प्रश्नान् पृष्टवान्। 
= उसने सबको बहुत प्रकार के प्रश्न पूछे।

भवान् / भवती किं कार्यं करोति ?
= आप क्या काम करते / करती हैं ?

एतद् कार्यं किमर्थं करोति ?
= यह कार्य क्यों करते हैं ?

तद् कार्यं किमर्थं न करोति ?
= वह कार्य क्यों नहीं करते हैं ?

भवान् / भवती कियत् कार्यं करोति ? 
= आप कितना काम करते / करती हैं ?

सर्वेषां पञ्जिकाः कुत्र स्थापयति ? 
= सबकी फाइल कहाँ रखते हो ?

एकस्मिन् दिने कति कार्याणि करोति ? 
= एक दिन में कितने काम करते हो ?

अवशिष्टं कार्यं कदा समापयति ? 
= बचा हुआ काम कब पूरा करते हो ?

ग्राहकेन सह कथं व्यवहरति ? 
= ग्राहक के साथ कैसे व्यवहार करते हो ?

ओह … प्रश्नाः !!!

ओ३म्

481. संस्कृत वाक्याभ्यासः

रविवासरे गाँधीधाम्नि संस्कृतसम्मेलनं भविष्यति।
= रविवार को गाँधीधाम में संस्कृत सम्मेलन होगा।

प्रातः नववादने संस्कृत-शोभायात्रां निष्कासयिष्यामः।
= प्रातः नौ बजे संस्कृत शोभायात्रा निकालेंगे।

गाँधीधामनगरस्य स्वामीनारायणस्य गुरुकुलतः शोभयात्रा आरप्स्यते।
= गाँधीधाम के स्वामीनारायण गुरुकुल से शोभयात्रा शुरू होगी।

सिन्धुबागमार्गतः सम्मेलनस्थलं गामिष्यति।
= सिंधुबाग मार्ग से सम्मेलन स्थल जाएगी।

शोभायात्रायां शिक्षकाः , शिक्षिकाः , छात्राः , कार्यकर्तारः च भविष्यन्ति।
= शोभायात्रा में शिक्षक , शिक्षिकाएँ , छात्र और कार्यकर्ता होंगे।

अनन्तरं सम्मेलनस्य उद्घाटनसत्रं भविष्यति। 
= बाद में सम्मेलन का उद्घाटन सत्र होगा।

कच्छ जनपदस्य सांसदः श्री विनोद चावड़ा महोदयः कार्यक्रमस्य उद्घटनं करिष्यति।
= कच्छ जिले के सांसद श्री विनोद चावड़ा जी कार्यक्रम का उद्घाटन करेंगे।

छात्राः विविधानि संस्कृत गीतानि गास्यन्ति।
= छात्र विविध संस्कृत गीत गाएँगे।

छात्राः विविधानि नृत्यानि अपि करिष्यन्ति
= छात्र विविध नृत्य करेंगे।

संस्कृत-प्रदर्शनी अपि भविष्यति। 
= संस्कृत प्रदर्शनी भी होगी।

सायंकाले सम्मेलनस्य समापनं भविष्यति।
= शाम को सम्मेलन का समापन होगा।

सर्वे जनाः कृपया अवश्यमेव आगच्छन्तु।
= सभी लोग अवश्य ही आएँ।

ओ३म्

482. संस्कृत वाक्याभ्यासः

अमितः प्रश्नं पृच्छति।
= अमित प्रश्न पूछता है।

किं किं कार्यम् अभवत् ? 
= क्या क्या काम हो गया ?

दुष्यन्तः उत्तरं ददाति।
= दुष्यन्त उत्तर देता है।

भरतभ्राता सर्वां व्यवस्थां पश्यति।
= भरतभाई सारी व्यवस्था देख रहे हैं।

दीपेनः फलकानि निर्मितवान्।
= दीपेन ने पोस्टर बना दिये।

शिवा भगिनी वस्तूनि क्रीतवती। 
= शिवा बहन ने वस्तुएँ खरीद ली हैं

गीताभगिनी छात्रान् अभ्यासं कारयति। 
= गीता बहन छात्रों को अभ्यास करा रही है।

अखिलेशः दानं स्वीकर्तुं गच्छति। 
= अखिलेश दान लेने जा रहा है।

अहं ( दुष्यन्तः ) सर्वान् आमन्त्रणं दातुं गच्छामि। 
= मैं (दुष्यन्त ) सबको आमंत्रण देने जा रहा हूँ।

रक्षिताभगिनी भोजनव्यवस्थां पश्यति।
= रक्षिता बहन भोजन व्यवस्था देख रही है।

अन्ये कार्यकर्तारः अपि स्वं स्वं कार्यं कुर्वन्ति।
= अन्य कार्यकर्ता भी अपना अपना काम कर रहे हैं।

कृपया सर्वे संस्कृतसम्मेलनम् अवश्यमेव आगच्छन्तु।
= कृपया सभी संस्कृतसम्मेलन में अवश्य ही आएँ।

दिनांक: :-१६/१२/१८ रविवासरः

स्थानम् :- सहयोग सरस्वती विद्यामंदिर,गुरुकुल मार्ग:,गांधीधाम-कच्छ

समय: :-प्रातः नवतः सायं सार्ध सप्तवादन पर्यन्तम्

ओ३म्

483. संस्कृत वाक्याभ्यासः

अखिलेशः- दक्षाभगिनी कुत्र अस्ति ? 
= दक्षा बहन कहाँ है ?

तस्याः पार्श्वे वर्णाः सन्ति।
= उसके पास रंग हैं।

अत्र रङ्गवल्ली करणीया अस्ति।
= यहाँ रंगोली करनी है।

दुष्यन्तः – पश्यतु दक्षा भगिनी ततः आगच्छति ।
= देखिये , दक्षा बहन वहाँ से आ रही है।

– तया सह आहुतिभगिनी अपि अस्ति। 
= उसके साथ आहुति बहन भी है।

अमितः – तर्हि चलन्तु , वर्णवल्ली भविष्यति एव। 
= तो चलिये , रंगोली तो हो ही जाएगी।

– वयं अन्यानि कार्याणि कुर्मः । 
= हम दूसरे काम करते हैं।

भरतः – मञ्चस्य व्यवस्थाम् एकवारं पश्यन्तु। 
= मंच की व्यवस्था एक बार देख लीजिये।

संस्कृतसम्मेलनस्य फलकं कुत्र लम्बनीयम् अस्ति ?
= संस्कृतसम्मेलन का पोस्टर कहाँ लगाना है ?

संचालकः कुत्र स्थास्यति? 
= संचालक कहाँ खड़ा रहेगा ?

धर्मेन्द्र: – एतद् कार्यम् अहं करोमि। 
= यह काम मैं करता हूँ।

विरलः , शिवमः , भाविकः च मया सह सन्ति।
= विरल , शिवम और भाविक मेरे साथ हैं।

ओ भ्रातरः , भगिन्यः ! अवश्यमेव संस्कृतसम्मेलनम् आगच्छन्तु।

*दिनांक: :-१६/१२/१८ रविवासरः*

*स्थानम् :- सहयोग सरस्वती* *विद्यामंदिर,गुरुकुल मार्ग:,गांधीधाम-कच्छ*

*समय: :-प्रातः नवतः सायं सार्ध सप्तवादन पर्यन्तम्*

ओ३म्

484. संस्कृत वाक्याभ्यासः

गतदिने गाँधीधाम्नि संस्कृतसम्मेलनम् अभवत्।

प्रातः आरभ्य अनेके कार्यकर्तारः आगतवन्तः।

अनेके शिक्षकाः , शिक्षिकाः , छात्राः च आगतवन्तः।

प्रातः नववादने शोभायात्रा आरब्धा ।

आवासीयपरिसरे ये जनाः आसन् ते अपि संस्कृतजयघोषं कृतवन्तः ।

जनाः सर्वेषाम् उपरि पुष्पवर्षां कृतवन्तः।

अनन्तरं सर्वे यज्ञं कृतवन्तः।

सम्मेलनस्य उद्घाटनसत्रे विद्वान्सः जनान् उद्बोधितवन्तः ।

अनन्तरं संस्कृतभाषायां सांस्कृतिककार्यक्रमाः अभवन्।

संस्कृतप्रदर्शनीं द्रष्टुम् जनाः आगतवन्तः।

सायंकाले सम्मेलनस्य समापनम् अभवत्।

ओ३म्

485. संस्कृत वाक्याभ्यासः

कीर्ति: – सुमेधा …… हे सुमेधे !!

सुमेधायाः माता – श् …श् .. श् …

– सुमेधा गीतापाठं करोति।

– आगच्छ … त्वमपि उपविश ।

कीर्ति: – अहं संस्कृतं न जानामि।

– कथं पठिष्यामि ?

सुमेधायाः माता – सरलम् अस्ति।

– यथा हिन्दीकाव्यं पठति तथैव पठ ।

– गच्छ , तत्र सुमेधया सह उपविश ।

– तस्याः पार्श्वे गीतायाः अपरा प्रति अस्ति।

– सुमेधा उच्चै: पठति, अर्थसहितं पठति।

– त्वमपि पठ ।

अद्य गीता जयन्ति अस्ति।

गीता जयन्ते: सर्वेभ्यः मङ्गलकामनाः ।

ओ३म्

486. संस्कृत वाक्याभ्यासः

रक्षिता भगिनी स्वां विद्यालयं नीतवती।

विद्यालयस्य नाम ब्रह्मसमाज विद्यालयः अस्ति।

बालकाः तत्र वैदिकशिक्षां प्राप्नुवन्ति।

बालकाः प्रतिदिनं यज्ञं कुर्वन्ति।

बालकाः महापुरुषाणां जीवनचरित्रं पठन्ति।

अद्य बालकाः गीतापाठं कृतवन्तः ।

प्रधानाचार्यः गीताविषये व्याख्यानं दत्तवान्।

सर्वे श्रेष्ठानि कर्माणि कुर्वन्तु।

ईश्वरः अस्माकं कर्मानुसारं न्यायं करोति ।

आजीवनं सत्कर्म एव करणीयम् ।

ओ३म्

487. संस्कृत वाक्याभ्यासः

शिक्षिका – सतीश ! त्वं किमर्थं विलम्बेन आगतवान् ? 
= सतीश , तुम क्यों देरी से आए ?

सतीशः – मार्गे श्वानः धावन्ति स्म । 
= रास्ते में कुत्ते दौड़ रहे थे।

शिक्षिका – श्वभिः सह तव कः सम्बन्धः ? 
= कुत्तों के साथ तुम्हारा क्या सम्बन्ध ?

सतीशः – ते एकं कुक्कुरशावकं मारयितुं धावन्ति स्म।
= वे एक कुत्ते के पिल्ले को मारने के लिये दौड़ रहे थे।

शिक्षिका – तर्हि त्वं किं कृतवान् ? 
= तो तुमने क्या किया ?

सतीशः – अहं तं शावकं रक्षितवान्। 
= मैंने उस पिल्ले को बचाया।

– पाषाणं क्षिप्तवा शुनां दूरम् अपसारितवान्। 
= पत्थर फेंककर कुत्तों को दूर भगाया।

शिक्षिका – अस्तु , प्रतिदिनं तथा मा करोतु। समये एव विद्यालयम् आगच्छ। 
= ठीक है, रोज ऐसा नहीं करना । समय पर विद्यालय आओ।

ओ३म्

488. संस्कृत वाक्याभ्यासः

आरात्रिः सा कासते स्म ।
= सारी रात वह खाँस रही थी।

तस्याः पञ्चदशवर्षीया पुत्री वारं वारम् उत्थाय तां पश्यति स्म। 
= उसकी पन्द्रह वर्ष की बेटी बार बार उठ कर उसे देख रही थी।

अधुनैव पुत्री ऊष्णं जलं मात्रे दत्तवती। 
= अभी अभी बेटी ने माँ को गरम पानी दिया।

पुत्रः एक होरा अनन्तरम् आगमिष्यति।
= बीटा एक घण्टे बाद आएगा।

पुत्रः मार्गे अस्ति।
= बेटा रास्ते में है।

पुत्रः जामनगरतः आगच्छति।
= बेटा जामनगर से आ रहा है।

पुत्रः आयुर्वेदस्य अध्ययनं करोति। 
= पुत्र आयुर्वेद की पढ़ाई कर रहा है।

मार्गे सः दूरवाणीम् अपि कृतवान्। 
= रास्ते में उसने फोन भी की किया ।

भगिनीम् उक्तवान् – मात्रे कासामृतं देहि।
= बहन को कहा – माँ को कासामृत दे दो।

अधुना पुनः दूरवाणीं कृतवान्। 
= अभी फिर से फोन किया।

” भगिनि ! अहं द्विहोरायाः अनन्तरं प्राप्स्यामि। 
= बहना , मैं दो घंटे बाद पहुँचूँगा।

तावद् मात्रे मधुना सह आर्द्रकस्य रसं सम्मेल्य देहि। 
= तब तक माँ को शहद के साथ अदरक का रस दे दो।

पितरं वद “एलोपैथिक औषधं मा ददातु।” 
= पिताजी से कहना ” एलोपैथिक दवा न दें”

ओ३म्

489. संस्कृत वाक्याभ्यासः

अहं पुस्तकम् इच्छामि ।

त्वं फलम् इच्छसि।

सः जलम् इच्छति ।

सा पुष्पम् इच्छति।

एषः लेखनीम् इच्छति।

एषा विश्रामम् इच्छति।

अहं पठितुम् इच्छामि।

त्वं खादतुम् इच्छसि।

सा वक्तुम् इच्छति।

एषा चलचित्रं द्रष्टुम् इच्छति।

सः दुग्धम् पातुम् इच्छति।

एषः गीतं श्रोतुम् इच्छति।

अहं किम् इच्छामि ?

त्वं किम् इच्छसि ?

भवान् किम् इच्छति ?

भवती किम् इच्छति ?

सा / एषा किम् इच्छति ?

सः / एषः किम् इच्छति ?

अहं किं कर्तुम् इच्छामि ?

त्वं किं कर्तुम् इच्छसि ?

भवान् किं कर्तुम् इच्छति ?

भवती किं कर्तुम् इच्छति ?

सा / एषा किं कर्तुम् इच्छति ?

सः / एषः किं कर्तुम् इच्छति ?

ओ३म्

490. संस्कृत वाक्याभ्यासः

राष्ट्रहितार्थं ये कार्यं कृतवन्तः तान् प्रायः वयं न जानीमः। 
= राष्ट्रहित के लिये जिन्होंने काम किया उन्हें प्रायः हम नहीं जानते हैं।

धर्मरक्षार्थं ये कार्यं कृतवन्तः तान् अपि प्रायः वयं न जानीमः। 
= धर्म की रक्षा के लिये जिन्होंने काम किया उन्हें भी प्रायः हम नहीं जानते हैं।

स्वामी श्रद्धानन्दः राष्ट्रहितार्थं कार्यम् अकरोत्। 
= स्वामी श्रद्धानन्द ने राष्ट्रहित के लिये काम किया।

स्वामी श्रद्धानन्दः धर्मणः अपि रक्षां कृतवान्। 
= स्वामी श्रद्धानन्द ने धर्म की भी रक्षा की।

ये विधर्मिणः अभवन् तान् सः पुनः सनातन-वैदिक धर्मणि आनीतवान्। 
= जो विधर्मी हो गए थे उन्हें पुनः सनातन वैदिक धर्म में ले आए।

सः शुद्धि-आन्दोलनं चालितवान्। 
= उन्होंने शुद्धि आन्दोलन चलाया।

हरिद्वारे सः काँगड़ी गुरुकुलस्य स्थापनां कृतवान्। 
= हरिद्वार में उन्होंने गुरुकुल काँगड़ी की स्थापना की।

गुरुकुलीय-शिक्षायाः सः प्रचारकः आसीत्। 
= गुरुकुलीय शिक्षा के वे प्रचारक थे।

स्वाधीनतासंग्रामे अपि सः बहुविधं कार्यम् अकरोत्। 
= स्वाधीनतासंग्राम में उन्होंने बहुत से काम किये।

आँग्लजनाः अपि तस्मात् बिभ्यति स्म ।
= अँग्रेज लोग भी उनसे डरते थे।

अद्य स्वामी श्रद्धानन्दस्य बलिदानदिनम् अस्ति।

राष्ट्रोद्धारकं , धर्मरक्षकं वयं वन्दामहे।

ओ३म्

491. संस्कृत वाक्याभ्यासः

सा अवदत् = वह बोली ।

सप्तवादने मम गृहम् आगच्छतु ।
= सात बजे मेरे घर आईये।

यज्ञस्य कृते सर्वाणि वस्तूनि भवान् एव आनयतु। 
= यज्ञ के लिये सभी वस्तुएँ आप ही लाएँ।

सपादसप्तवादने यज्ञम् आरभताम् ।
= सवा सात बजे यज्ञ शुरू करिये।

सार्धअष्टवादने यज्ञं समापयतु। 
= साढ़े आठ बजे यज्ञ समाप्त करिये।

अनन्तरं मम बालकान् किञ्चित् बोधयतु। 
= बाद में मेरे बच्चों को कुछ समझाईये ।

तैः सह वार्तालापं करोतु। 
= उनके साथ बात करिये।

दुग्धं पिबतु। 
= दूध पीजिये।

नव वादने भवान् कार्यमुक्तः भविष्यति।
= नौ बजे आप कार्यमुक्त हो जाएँगे।

नववादने भवान् गच्छतु। 
= नौ बजे आप जाईये ।

अहं भवतः अधिकं समयं न स्वीकरिष्यामि।
= मैं आपका अधिक समय नहीं लूँगी।

ओ३म्

492. संस्कृत वाक्याभ्यासः

गांधीनगरस्य पार्श्वे कोलवाड ग्रामः अस्ति।
= गांधीनगर के पास कोलवाड गाँव है।

कोलवाडग्रामे आयुर्वेदविद्यालयः अस्ति। 
= कोलवाड ग्राम में आयुर्वेद विद्यालय है।

आयुर्वेदविद्यालयस्य परिसरः बहु विशालः अस्ति। 
= आयुर्वेद विद्यालय का परिसर बहुत बड़ा है।

परिसरे अनेकानां औषधीनां वृक्षाः सन्ति। 
= परिसर में अनेक औषधियों के वृक्ष हैं।

एतस्मिन् परिसरे अधुना गुजरातराज्यस्य संस्कृतसम्मेलनं चलति। 
= इस परिसर में अभी गुजरात राज्य का संस्कृतसम्मेलन चल रहा है।

समग्र-गुजराततः एकसहस्र संस्कृतकार्यकर्तारः समागताः सन्ति। 
= समग्र गुजरात से एक हजार संस्कृत कार्यकर्ता आए हैं।

आदिनं संस्कृतविषये एव चिन्तनं चलति। 
= पूरा दिन संस्कृत के बारे में चिन्तन चल रहा है।

गुजरातराज्यस्य मुख्यमन्त्री श्री विजयः रूपाणी सम्मेलनस्य उद्घाटनं कृतवान्। 
= गुजरात राज्य के मुख्यमंत्री श्री विजय रूपाणी ने सम्मेलन का उद्घाटन किया।

विशाला संस्कृतप्रदर्शनी अपि अत्र स्थापिता अस्ति। 
= विशाल संस्कृत प्रदर्शनी भी यहाँ रखी गई है।

गतरात्रौ संस्कृतभाषायां सांस्कृतिककार्यक्रमः अपि अभवत्। 
= कल रात संस्कृत भाषा में सांस्कृतिक कार्यक्रम भी हुआ।

सर्वे उत्साहपूर्वकं श्रृण्वन्ति , पश्यन्ति च।
= सभी उत्साह के साथ सुन रहे हैं और देख रहे हैं।

ओ३म्

493. संस्कृत वाक्याभ्यासः

तस्याः पुत्री वनस्थल्यां पठति। 
= उसकी बेटी वनस्थली में पढ़ती है।

वनस्थली कुत्र अस्ति ?
= वनस्थली कहाँ है ?

वनस्थली राजस्थाने जयपुरस्य समीपे अस्ति। 
= वनस्थली राजस्थान में जयपुर के पास है।

वनस्थली विद्यापीठम् अस्ति। 
= वनस्थली विद्यापीठम् है ।

समविश्वविद्यालयः अस्ति। 
= डीम्ड यूनिवर्सिटी है।

अत्र केवलं बालिकाः एव पठन्ति। 
= यहाँ केवल बच्चियाँ ही पढ़ती हैं।

विद्यापीठस्य परिसरे छात्राणां निवासव्यवस्था बहु उत्तमा अस्ति। 
= विद्यापीठ के परिसर में छात्राओं की निवासव्यवस्था बहुत ही उत्तम है।

वनस्थलीविद्यापीठे अश्वारोहणम् अपि शिक्ष्यते ।
= वनस्थली विद्यापीठ में घुड़सवारी भी सिखाई जाती है।

समग्र-भारतस्य युवत्यः अत्र आगत्य अध्ययनं कुर्वन्ति।
= सारे भारत से युवतियाँ यहाँ आकर अध्ययन करती हैं।

मम भ्रात्रीया “कुहू” अपि तत्रैव पठति।
= मेरी भतीजी कुहू भी वहीं पढ़ती है।

ओ३म्

494. संस्कृत वाक्याभ्यासः

अहम् आलस्यं त्यजामि । 
= मैं आलस छोड़ रहा हूँ / रही हूँ ।

अहम् आलस्यं त्यक्ष्यामि। 
= मैं आलस छोड़ूँगा / छोडूँगी ।

अहम् आलस्यं त्यक्तवान् / त्यक्तवती ।
= मैंने आलस्य छोड़ दिया।

भवान् / भवती आलस्यं त्यजतु। 
= आप आलस छोड़ दीजिये।

सः / सा आलस्यं त्यजति। 
= वह आलस छोड़ता है / छोड़ती है।

सः / सा आलस्यं त्यक्ष्यति। 
= वह आलस छोड़ेगा / छोड़ेगी।

सः / सा आलस्यं त्यक्तवान् / त्यक्तवती । 
= उसने आलस छोड़ दिया ।

भवान् / भवती कदा आलस्यं त्यक्ष्यति ? 
= आप कब आलस छोड़ेंगे / छोड़ेंगी ?

जयदीपः आलस्यं त्यक्त्वान्। 
= जयदीप ने आलस छोड़ दिया।

शोभना आलस्यं त्यक्तवती। 
= शोभना ने आलस छोड़ दिया।

अहं आलस्यं त्यक्त्वान्। 
= मैंने आलस छोड़ दिया।

अहं आलस्यं त्यक्तवती। 
= अहं आलस छोड़ दिया।

ओ३म्

495. संस्कृत वाक्याभ्यासः

रात्रौ सः उपधानस्य पार्श्वे एव क्रीड़नकं स्थापितवान्। 
= रात में तकिया के पास ही उसने खिलौना रखा।

उपधानस्य पार्श्वे एव क्रीड़नकं स्थापयित्वा शयनं कृतवान्। 
= तकिया के पास ही खिलौना रखकर सो गया।

किं क्रीड़नकम् आसीत् ? 
= कौनसा खिलौना था ?

पुत्तलिका आसीत्।
= गुड़िया थी।

रात्रौ सः बालकः तां पुत्तलिकां गीतं श्रावितवान्। 
= रात में उस बच्चे ने गुड़िया को गीत सुनाया

” शयनं कुरु , शयनं कुरु “

दुग्धं पीत्वा शयनं कुरु

प्रभुस्मरणं कृत्वा शयनं कुरु।

मम पुत्तलिका शयनं कुरु।

गीतं गीत्वा गीत्वा ( गायन् ) सः अपि शयनं करोति। 
= गाना गाते गाते वह भी सो जाता है।

ओ३म्

496. संस्कृत वाक्याभ्यासः

ह्यः एकस्य मित्रस्य गृहं गतवान् अहम् ।
= कल मैं एक मित्र के घर गया था।

तस्मै बीमापात्राणि देयानि आसन्। 
= उसे बीमा के कागजात देने थे।

सः द्वारम् उद्घाटितवान्।
= उसने दरवाजा खोला।

सः अवदत् – शीघ्रम् अन्तः आगच्छतु।
= वह बोला – जल्दी से अंदर आओ।

बहु शीतलं वायुः प्रवहति।
= बहुत ठंडी हवा बह रही है।

मम हस्तः अपि शीतलः अभवत्। 
= मेरा हाथ भी ठंडा हो गया है।

(मम हस्तौ अपि शीतलौ अभवताम् 
= मेरे दोनों हाथ भी ठंडे हो गए हैं । )

सः भार्याम् आहूतवान् ।
= उसने पत्नी को बुलाया ।

ओ … एतस्मै हरिद्रायाः दुग्धं देहि। 
= ओ … इसको हल्दी वाला दूध दो।

ऊष्णम् …. हं …

सा हरिद्रायाः दुग्धम् आनीतवती। 
= वह हल्दी वाला दूध लाई।

अहं हरिद्रादुग्धं पीत्वा कार्यालयं गतवान्। 
= मैं हल्दीवाला दूध पीकर कार्यालय गया।

ओ३म्

497. संस्कृत वाक्याभ्यासः

अद्य मम भ्रातृजायायाः जन्मदिनम् अस्ति।
= आज मेरी भाभीजी का जन्मदिन है।

सा मम ज्येष्ठतमा भ्रातृजाया अस्ति।
= वह मेरी सबसे बड़ी भाभीजी हैं।

अद्य प्रातः गृहे यज्ञः अभवत्। 
= आज सुबह यज्ञ हुआ।

सर्वे तस्याः स्वस्थस्य सुखमयस्य जीवनस्य च कामनाः कृतवन्तः ।
= सभी ने उनके स्वस्थ और सुखमय जीवन की कामना की।

मम भ्रत्रीयः अपि मुम्बईतः आगतवान् अस्ति। 
= मेरा भतीजा भी मुम्बई से आया है ।

मम भ्रातृजाया मुद्गस्य सैंयावं पक्तवती। 
= मेरी भाभीजी ने मूँग का हलुआ बनाया।

सर्वे प्रसादरूपेण खादितवन्तः।
= सभी ने प्रसाद रूप में खाया।

सायंकाले अहं रक्तफलानां सूपं निर्मास्यामि। 
= शाम को मैं टमाटर का सूप बनाऊँगा।

मम हस्तेन निर्मितं सूपं भ्रातृजायायै बहु रोचते। 
= मेरे हाथ से बना सूप भाभीजी को पसंद है।

आर्द्रकम् , अजगन्धं , श्याममरीचिकां , मधुरां च स्थापयिष्यामि।
= अदरक , पुदीना , कालीमिर्च , सौंफ डालूँगा।

स्वदेशी रक्तफलानि आनीतवान्। 
= स्वदेशी टमाटर लाया हूँ।

ओ३म्

498. संस्कृत वाक्याभ्यासः

*किं किं करणीयम् ?*

– प्रातः शीघ्रं जागरणीयम् ।

– योगासनं करणीयम् ।

– यज्ञः करणीयः ।

– ईशवन्दना करणीया ।

– गोदानं करणीयम् ।

– श्रेष्ठं पुस्तकं पठनीयम् ।

– काव्यं लेखनीयम् ।

– भजनं श्रवणीयम् ।

– दुग्धं पानीयम् ।

– दानं दानीयम् ।

– विद्यालयः गमनीयः ।

*किं किं न करणीयम् ?*

– आलास्यं न करणीयम् ।

– असत्यं न वदनीयम् ।

– यानं वेगेन न चलनीयम् ।

– धेनुः न ताड़नीया।

– रात्रौ विलम्बेन गृहं न आगमनीयम् ।

*लिखन्तु भवन्तः / भवत्यः अपि*

ओ३म्

499. संस्कृत वाक्याभ्यासः

सूर्योदयः अभवत् । 
= सूर्योदय हो गया ।

अधुना अहं किं किं पश्यामि ?? 
= अभी मैं क्या क्या देख रहा हूँ ?

महिला मन्दिरं गच्छति। 
= महिला मन्दिर जा रही है।

महिलाः मन्दिरं गच्छन्ति। 
= महिलाएँ मंदिर जा रही हैं।

बालकाः विद्यालयं गच्छन्ति। 
= बच्चे विद्यालय जा रहे हैं।

एकः सज्जनः धेनवे तृणं ददाति। 
= एक सज्जन गाय को घास दे रहा है।

धेनुः तृणं खादति।
= गाय घास खा रही है।

एका महिला वस्त्राणि प्रक्षालयति। 
= एक महिला वस्त्र धो रही है।

जनाः उद्याने भ्रमन्ति। 
= लोग बगीचे में घूम रहे हैं।

मम ज्येष्ठ भ्राता यजुर्वेदं पठति। 
= मेरे बड़े भाई यजुर्वेद पढ़ रहे हैं।

मम अनुजः ऊष्णं जलं पिबति। 
= मेरा छोटा भाई गरम पानी पी रहा है।

सः यज्ञं करोति। ( ते यज्ञं कुर्वन्ति ) 
= वह यज्ञ कर रहा है। ( वे यज्ञ कर रहे हैं )

जनाः योगासनं कुर्वन्ति। 
= लोग योगासन कर रहे हैं।

*भवन्तः / भवत्यः अपि लिखन्तु।*

ओ३म्

500. संस्कृत वाक्याभ्यासः

अद्य शैत्यम् अस्ति ।
= आज ठण्ड है।

ह्यः शैत्यम् आसीत्। 
= कल ठंड थी।

श्वः शैत्यं भविष्यति। 
= कल ठण्ड होगी।

अद्य शैत्यं नास्ति ।
= आज ठण्ड नहीं है।

ह्यः शैत्यम् न आसीत्। 
= कल ठंड नहीं थी।

श्वः शैत्यं न भविष्यति। 
= कल ठण्ड नहीं होगी।

अद्य मम मित्रस्य गृहे वेदकथा अस्ति।
= आज मेरे मित्र के घर वेदकथा है।

ह्यः मम मित्रस्य गृहे वेदकथा आसीत्। 
= कल मेरे मित्र के घर वेदकथा थी।

श्वः मम मित्रस्य गृहे वेदकथा भविष्यति। 
= कल मेरे मित्र के घर वेदकथा होगी।

अद्य मम मित्रस्य गृहे रामकथा नास्ति।
= आज मेरे मित्र के घर रामकथा नहीं है।

ह्यः मम मित्रस्य गृहे रामकथा न आसीत्। 
= कल मेरे मित्र के घर रामकथा नहीं थी।

श्वः मम मित्रस्य गृहे रामकथा न भविष्यति। 
= कल मेरे मित्र के घर रामकथा नहीं होगी।

*अस्ति , आसीत्, भविष्यति*

*नास्ति , न आसीत् , न भविष्यति*

*भवन्तः/भवत्यः अपि लिखन्तु*

LEAVE A REPLY

Please enter your comment!
Please enter your name here