ओ३म्
२६१ संस्कृत वाक्याभ्यासः
सः बहु चिन्तामग्नः अस्ति।
= वह बहुत चिन्ता में है।
सः बहु स्थानतः ऋणं स्वीकृतवान्।
= उसने बहुत जगहों से ऋण लिया है।
सः चिन्तयति।
= वह विचारता है।
कदा ऋणमुक्तः भविष्यामि।
= कब ऋण से मुक्त होऊँगा ।
सुरेशाय पञ्चाशत्सहस्र रुप्यकाणि देयानि सन्ति।
= सुरेश को पचास हजार देने हैं
विक्रमसिंहाय नवतिसहस्र रुप्यकाणि देयानि सन्ति।
= विक्रमसिंह को नब्बे हजार देने हैं ।
वित्तकोषतः अपि एकलक्षं स्वीकृतवान्।
= बैंक से एक लाख लिया है।
प्रतिमासं ऋणभागं ददामि।
= हरमहिने हप्ता भरता हूँ।
सत्यं वदानि , ऋणं कदापि न स्वीकरणीयम् ।
= सच कहूँ , ऋण कभी नहीं लेना चाहिये।
धनम् आगच्छति तदा बहु सुखमयं भासते।
= धन आता है तब बहुत सुखमय लगता है
यदा प्रत्यर्पणीयं भवति तदा कष्टम् अनुभूयते।
= जब लौटाना होता है तब कष्ट अनुभव होता है।
ओ३म्
२६२ संस्कृत वाक्याभ्यासः
सा मयि कियत् स्निह्यति स्म।
= वह मुझे कितना प्यार करती थी।
सा मम विषये सर्वं जानाति स्म।
= वह मेरे बारे में सब कुछ जानती थी
अहं कदा उत्तिष्ठामि?
= मैं कब उठता हूँ
अहं कदा कार्यालयं गच्छामि?
= मैं कब कार्यालय जाता हूँ।
मम मित्राणि कानि सन्ति ?
= मेरे मित्र कौन हैं
अहं किं पठामि ?
= मैं क्या पढ़ता हूँ
अहं कदा भोजनम् इच्छामि ?
= मैं कब भोजन चाहता हूँ
सा मम रुचिं जानाति स्म
= वह मेरी रुचि जानती थी
सा मम माता अस्ति
= वह मेरी माँ है
अद्य मम मातुः पुण्यतिथिः अस्ति।
= आज मेरी अम्माजी की पुण्यतिथि है
मम मातृचरणयोः सादरं प्रणमामि अहम्
= मैं माँ के चरणों में सादर नमन करता हूँ।
ओ३म्
२६३ संस्कृत वाक्याभ्यासः
अहं हरिद्वारं गच्छामि।
= मैं हरिद्वार जा रहा हूँ।
कः कः चलितुम् इच्छति ?
= कौन कौन चलना चाहता है ?
का का चलितुम् इच्छति ?
= कौन कौन चलना चाहती हैं ?
कः कः चलिष्यति ?
= कौन कौन चलेगा ?
का का चलिष्यति ?
= कौन कौन चलेंगी ?
प्रीतिः – अहं चलिष्यामि ।
= मैं चलूँगी ।
प्रद्युम्नः – अहं चलिष्यामि
= मैं चलूँगा।
प्रियंका चलिष्यति।
= प्रियंका चलेगी ।
भार्गवः चलिष्यति।
= भार्गव चलेगा।
जगदीशः अपि चलिष्यति।
= जगदीश भी चलेगा।
सुमित्रा अपि चलिष्यति।
= सुमित्रा भी चलेगी ।
नन्दिनी न चलिष्यति।
= नन्दिनी नहीं चलेगी।
नन्दिनी मीनाक्षीपुरं गमिष्यति।
= नन्दिनी मीनाक्षीपुर जाएगी।
अस्तु , ये चलिष्यन्ति तेषाम् आरक्षणं कारयामि।
= ठीक है , जो चलेंगे उनका आरक्षण करवाता हूँ।
ओ३म्
२६४ संस्कृत वाक्याभ्यासः
चलन्तु , अद्य कृषिक्षेत्रं चलामः ।
= चलिये , आज खेत चलते हैं
सः कृषकः
वह किसान है
तेन सह द्वौ बलीवर्दौ स्तः।
= उसके साथ दो बैल हैं
द्वौ श्रमिकौ अपि स्तः ।
= दो श्रमिक भी हैं
एकस्य पार्श्वे खननसाधनम् अस्ति।
= एक के पास खोदने का साधन है।
एकस्य पार्श्वे कुद्दालः अस्ति।
= एक के पास कुदाल है।
खननसाधनेन सः जलपथं निर्माति।
= खोदने के साधन से वह क्यारी बनाता है।
कुद्दालेन सः अपतृणं दूरीकरोति ।
= कुदाल से वह खरपतवार दूर करता है।
कृषकः बलीवर्दाभ्यां सह बीजवपनं करोति।
= किसान बैलों के साथ बीज बोता है।
कृषकः आतपे अपि कार्यं करोति।
= किसान धूप में भी काम करता है
कृषकः वर्षाकाले अपि कार्यं करोति।
= किसान बरसात में भी काम करता है।
कृषकः शीतकाले अपि कार्यं करोति।
= किसान जाड़े में भी काम करता है।
वयं यदा अन्नं खादामः तदा कृषकं न स्मरामः।
= जब हम अन्न खाते हैं तब किसान को याद नहीं करते हैं।
भोजनसमये ईश्वरं स्मरन्तु।
= भोजन के समय ईश्वर को याद करें।
कृषकम् अपि स्मरन्तु।
= किसान को भी याद करिये।
ओ३म्
१६५ संस्कृत वाक्याभ्यासः
सः /सा जृम्भते ।
= वह जँभाई लेता / लेती है ।
सः /सा वारं वारं जृम्भते ।
= वह बार बार जँभाई लेता / लेती है ।
सः रात्रौ शयनं न कृतवान् ।
= वह रात सोया ही नहीं ।
सा रात्रौ शयनं न कृतवती।
= वह रात सोई ही नहीं ।
किमर्थम् ??
= किसलिये ??
अद्य तस्य / तस्याः परिक्षा अस्ति।
= आज उसकी परीक्षा है।
आरात्रि: सः / सा पुस्तकं पठितवान् / पठितवती।
= सारी रात उसने पुस्तक पढ़ी।
प्रातः त्रिवादने सः / सा शयनं कृतवान् / कृतवती।
= सुबह तीन बजे वह सोया / सोई।
पञ्चवादने उत्थितवान् / उत्थितवती।
= पाँच बजे उठ गया / उठ गई।
अधुना सः / सा पुनः पठति।
= अभी वह फिर से पढ़ रहा / रही है।
अष्टवादने स्नानं करिष्यति।
= आठ बजे स्नान करेगा / करेगी।
अनन्तरं विश्वविद्यालयं गमिष्यति।
= बाद में विश्वविद्यालय जाएगा / जाएगी।
सः / सा माम् उक्तवान् / उक्तवती।
= वह मुझसे बोला / बोली
” चिन्ता मास्तु … परीक्षाखण्डे निद्रां न करिष्यामि।”
= चिन्ता मत करिये … परीक्षाखंड में नींद नहीं करूँगा / करूँगी।
सम्यक् उत्तराणि लेखिष्यामि।
= अच्छे से उत्तर लिखूँगा / लिखूँगी।
ओ३म्
१६६ संस्कृत वाक्याभ्यासः
तस्य वामनेत्रं स्फुरति।
= उसकी बाईं आँख फड़क रही है।
सः पृच्छति , अद्य किं भविष्यति ?
= वह पूछता है , आज क्या होगा ?
ह्यः तस्य दक्षिणनेत्रं स्फुरति स्म।
= कल उसकी दाईं आँख फड़क रही थी।
सायंकाले भार्यया सह कलहः अभवत्।
= शाम को पत्नी के साथ झगड़ा हो गया।
तर्हि अद्य पुनः किमपि असम्यक् भविष्यति !?
= तो आज फिर से कुछ गलत हो जाएगा !?
न , न भविष्यति।
= न नहीं होगा ।
रक्तसंचार-कारणात् नेत्रं स्फुरति।
= रक्तसंचार के कारण आँख फड़कती है
नेत्रं यदा स्फुरति तदा किमपि असम्यक् भविष्यति इति मिथ्या धारणा।
= आँख जब फड़कती है तब कुछ गलत होगा यह गलत धारणा है
नेत्रं स्फुरति चेत् चिन्ता मास्तु।
= आँख फड़कती है तो चिंता न करें
अन्धविश्वासेन अलम्
= अंधविश्वास न करें ।
ओ३म्
१६७ संस्कृत वाक्याभ्यासः
प्रियंकायाः पतिः जलं पिबति।
= प्रियंका के पति पानी पी रहे हैं
सः शीतकात् जलं निष्कास्य जलं पिबति।
= वह फ्रिज से पानी निकाल कर पीता है
प्रियंका रुष्टा भवति।
= प्रियंका गुस्से हो जाती है
प्रियंका अवदत्
= प्रियंका बोली
” अहम् अद्य घटम् आनेष्यामि ”
= मैं आज घड़ा लाऊँगी
प्रियंका घटम् आनेतुम् विपणिं गच्छति।
= प्रियंका घड़ा लेने बाजार जाती है
सा घटस्य परीक्षणं करोति।
= वह घड़े का परीक्षण करती है।
प्रियंका वदति – ” एषः घटः तु स्यन्दते”
= प्रियंका बोली – ” ये घड़ा तो रिस रहा है ”
अपरं ददातु।
= दूसरा दीजिये।
सा पुनः परीक्षणं करोति।
= वह फिर से जाँचती है।
अपरः घटः न स्यन्दते।
= दूसरा घड़ा नहीं रिस रहा है।
सा घटं क्रीणाति।
= वह घड़ा खरीदती है।
ओ३म्
१६८ संस्कृत वाक्याभ्यासः
वृन्दे ! …. हे वृन्दे ….. !
वृन्दे ! तव प्रकोष्ठे व्यजनं चलति वा ?
= वृन्दा ! तुम्हारे कमरे में पंखा चल रहा है क्या ?
वृन्दा – आम् अम्ब !
= हाँ माँ !
माता – तर्हि निर्वापय ,
= तो बन्द कर दो ,
वृन्दा – किम् अभवत् ?
= क्या हुआ ?
माता – पूर्वं व्यजनं निर्वापय
= पहले पंखा बन्द करो
माता – नीरज ! ….. नीरज ….
तव प्रकोष्ठे व्यजनं चलति वा ?
= तुम्हारे कमरे में पंखा चल रहा है क्या ?
नीरजः – न अम्ब !
माता – बहु शोभनम् ।
= बहुत अच्छा
– त्वं तु विद्युतं संरक्षसि
= तुम तो बिजली बचाते हो।
नीरजः – किम् अभवत् अम्ब ?
= क्या हुआ माँ ?
माता – पश्य , सः कपोतः
= देखो , वो कबूतर
– प्रकोष्ठे डयते
= कमरे में उड़ रहा है।
– व्यजनं चलति चेत् कपोतस्य पक्षौ भग्नौ भविष्यतः।
= पंखा चलता है तो कबूतर के पंख टूट जाएँगे।
वृन्दा – अहं तं बहिः निष्कासयामि।
= मैं उसे बाहर निकालती हूँ।
ओ३म्
१६९ संस्कृत वाक्याभ्यासः
भार्या – अद्य किमर्थं न लिखति ?
= आज क्यों नहीं लिख रहे हो ?
अहम् – ” किं लिखानि ” इति चिन्तयामि।
= ” क्या लिखूँ ” ये सोच रहा हूँ।
भार्या – चिन्तयतु , यद् रोचते तद् लिखतु।
= सोचिये , जो अच्छा लगे वो लिख दीजिये।
अहम् – किं करवाणि ? अद्य विचाराः न जायन्ते।
= क्या करूँ ? आज विचार ही उत्पन्न नहीं हो रहे हैं ।
भार्या – तर्हि गृहकार्ये मम साहाय्यं करोतु।
= तो फिर घर के काम में मुझे सहयोग करिये।
अहम् – ओ … चिन्तनम् आगतम् …. आगतम् ।
= ओ …. विचार आ गया … आ गया
– लिखामि अहम् ।
= मैं लिखता हूँ ।
– शीघ्रमेव लिखामि।
= जल्दी से लिखता हूँ।
एषा मम भार्या अस्ति
= ये मेरी पत्नी है ।
एषा मत् (मत्तः) बहुविधानि कार्याणि कारयति।
= ये मुझसे बहुत प्रकार के काम करवाती है।
– एतद् वाक्यं पठित्वा सा रुष्टा जाता ।
= ये वाक्य पढ़ कर वो रूठ गई है।
– अधुना अपि रुष्टा अस्ति।
= अभी भी रूठी हुई है।
ओ३म्
१७० संस्कृत वाक्याभ्यासः
सः गृहे नास्ति।
= वह घर में नहीं है।
तस्य गृहे कोsपि नास्ति।
= उसके घर कोई नहीं है।
प्रातःकाले एव सर्वेजनाः कारयानेन गतवन्तः।
= सुबह ही सभी जन कार से चले गए।
विभायाः गृहे यज्ञः अस्ति।
= विभा के घर में हवन है।
सः अपि यज्ञं करिष्यति।
= वह भी यज्ञ करेगा।
भार्यया सह यज्ञं करिष्यति।
= पत्नी के साथ यज्ञ करेगा
यज्ञस्य अनन्तरं तस्य पुत्री भजनं गास्यति।
= यज्ञ के बाद उसकी बेटी भजन गाएगी।
तस्य पुत्री बहु मधुरं गायति।
= उसकी बेटी बहुत मधुर गाती है।
तदनन्तरं शास्त्रीमहोदयः वेदव्याख्यानं करिष्यति।
= उसके बाद शास्त्री जी वेद व्याख्यान करेंगे।
सर्वे व्याख्यानं श्रोष्यन्ति।
= सभी व्याख्यान सुनेंगे।
दशवादने सर्वे गृहं प्रत्यागमिष्यन्ति।
= दस बजे सभी घर वापस आएँगे।
ओ३म्
१७१. संस्कृत वाक्याभ्यासः
सः बहु हासयति।
= वह बहुत हँसाता है
यदा मिलति तदा परिहासं करोति।
= जब मिलता है तब मजाक करता है।
अकारणमपि हासयति।
= कारण बिना भी हँसाता है
तस्य सम्वादशैली हास्यसम्पन्ना अस्ति।
= उसकी बात करने की शैली हँसी से भरी है।
यथा – जैसे
अहं शीघ्रमेव गृहं गच्छामि
= मैं जल्दी जाता हूँ
तदा सः वदति …
= तब वह बोलता है …
किमर्थं भार्यायाः बिभेति ?
= क्यों पत्नी से डरते हो ?
किमपि न खादामि तदा सः वदति …
= कुछ भी नहीं खाता हूँ तब बोलता है …
किं भार्या निषेधितवती वा ?
= क्या पत्नी ने मना किया है ?
अधिकं खादामि तदा वदति …
= अधिक खाता हूँ तब बोलता है …
अहं भार्यां दूरवाणीं करोमि
= मैं तुम्हारी पत्नी को फोन करता हूँ
सः सर्वै: सह तथैव वदति।
= वह सबके साथ ऐसे ही बोलता है
सर्वे तस्य स्वभावं जानन्ति।
= सब उसका स्वभाव जानते हैं
सर्वे बहु हसन्ति।
= सब बहुत हँसते हैं
ओ३म्
१७२. संस्कृत वाक्याभ्यासः
त्वमेव जानासि मम व्याधिम्
= तुम ही मेरी व्याधि जानते हो।
कियत् संघर्षं करोमि अहम्
= मैं कितना संघर्ष करता हूँ
मम त्वयि विश्वासः अस्ति।
= मेरा तुम पर विश्वास है
मम व्याधिः समाप्ता भविष्यति एव।
= मेरी व्याधि समाप्त होगी ही ।
कष्टं तु अस्ति एव
= कष्ट तो है ही ।
असह्यं कष्टम् अस्ति
= असह्य कष्ट है
तथापि निर्वहामि अहम्
= फिर भी झेल रहा हूँ।
त्वमेव मम त्राता असि।
= तुम ही मेरे तारनहार हो।
तव कारणाद् एव न रोदिमि।
= तुम्हारे कारण ही नहीं रोता हूँ।
त्वं सर्वदा मया सह असि।
= तुम हमेशा मेरे साथ हो ।
तव ध्यानं कृत्वा आनन्दं प्राप्नोमि।
= तुम्हारा ध्यान करके आनंद पाता हूँ।
उपरि लिखितानि वाक्यानि एकः उपासकः प्रार्थनायां वदति।
= ऊपर लिखे वाक्य एक उपासक प्रार्थना में बोलता है।
ओ३म्
१७३. संस्कृत वाक्याभ्यासः
सः / सा प्रेरयति ।
= वह प्रेरित करता / करती है।
सः / सा किं कर्तुं प्रेरयति ?
= वह क्या करने के लिये प्रेरित कर रहा / रही है ?
सः / सा वृक्षारोपणं कर्तुं प्रेरयति।
= वह वृक्षारोपण करने के लिये प्रेरित कर रहा / रही है।
आगामिनि वर्षाऋतौ वृक्षारोपणं कुर्वन्तु ।
= आगामि वर्षा ऋतु में वृक्षारोपण करिये।
भारत-विकास-परिषदा निःशुल्कमेव वृक्षवितरणं करिष्यते।
= भारत विकास परिषद द्वारा निःशुल्क वृक्ष वितरण किया जाएगा।
यः कोsपि वृक्षम् इच्छति ( वृक्षान् इच्छति)
= जो कोई भी पेड़ चाहता है ( बहुत से पेड़ चाहता है )
सः पूर्वमेव सूचयेत्।
= वह पहले ही सूचित करे ।
गृहस्य पार्श्वे वृक्षम् अवश्यमेव रोपयन्तु।
= घर के पास वृक्ष अवश्य लगाएँ।
प्राची – अहम् एकं वृक्षम् इच्छामि।
= मैं एक वृक्ष चाहती हूँ ।
धीरजः – अहं द्वौ वृक्षौ इच्छामि।
= मैं दो वृक्ष चाहता हूँ।
शान्तला – अहं चतुरः वृक्षान् इच्छामि।
= मैं चार वृक्ष चाहती हूँ।
ओ३म्
१७५. संस्कृत वाक्याभ्यासः
सः नाविकः अस्ति।
= वह नाविक है।
सः नौकां चालयति।
= वह नौका चलाता है।
सः नद्यां नौकां चालयति।
= वह नदी में नौका चलाता है।
सः केनिपातेन नौकां चालयति।
= वह चप्पू ( पतवार ) से नौका चलाता है
नद्यां यदा जलं भवति तदा सः नौकां चालयति।
= नदी में जब पानी होता है तब वह नौका चलाता है।
नाव्यायां नद्यां सः नौकां चालयति।
= नाव चलाने लायक नदी में वह नाव चलाता है।
सुप्रतरायां नद्यां सः नौकां चालयति।
= अच्छे से पार हो सके ऐसी नदी में वह नौका चलाता है।
जलपूर्णा नदी सुप्रतरा भवति
= जल से भरी नदी पार लगाने वाली होती है।
नौकायां जनाः यात्रां कुर्वन्ति।
= नौका में लोग यात्रा करते हैं
नौयात्रिणः नौयात्रायाः आनन्दं लभन्ते।
= यात्री नौका यात्रा का आनंद पाते हैं।
ओ३म्
१७६. संस्कृत वाक्याभ्यासः
कृषकः – मम ग्रामस्य तड़ागे जलं नास्ति।
= मेरे गाँव के तालाब में पानी नहीं है
– मम ग्रामस्य पशवः अन्यत्र गत्वा जलं पिबन्ति ।
= मेरे गाँव के पशु और कहीं जाकर पानी पीते हैं
– ग्रामस्य जनाः अपि नलकूपात् जलं निष्कासयन्ति।
= गाँव के लोग भी ट्यूबवेल से पानी निकालते हैं
– वर्षायाः प्रतीक्षां कुर्मः ।
= वर्षा की प्रतीक्षा कर रहे हैं
कदाचित् आगामिनि मासे वर्षा भवेत्।
= शायद अगले महीने वर्षा हो जाए।
– वर्षा बहु आवश्यकी अस्ति।
= बरसात बहुत आवश्यक है।
अधुना भूमिः बहु ऊष्णा अस्ति।
= अभी भूमि बहुत गरम है।
प्रथमवर्षायां भूम्याः ऊष्णता समाप्ता भविष्यति।
= पहली वर्षा में भूमि की ऊष्णता समाप्त होगी।
– तदनन्तरं बीजानि वप्स्यामि।
= उसके बाद बीज बोउँगा ।
– तदनन्तरं सर्वत्र हरीतिमा भविष्यति।
= उसके बाद सब जगह हरियाली हो जाएगी।
ओ३म्
१७७. संस्कृत वाक्याभ्यासः
सायंकाले आपणिकः सेवकं वदति।
= शाम को दुकानदार अपने सेवक से कहता है
स्थापय … धनं मम स्यूते स्थापय …
= रखो …. धन मेरे थैले में रख दो …
नाणकानि पृथक् स्थापय …
= सिक्के अलग रखो ….
रूप्यकाणि पृथक् स्थापय …
= रुपये अलग रखो …
सेवकः अवदत्
= सेवक बोला
सेवकः – धनाकर्षणयन्त्रेण अपि धनम् आगतम् ।
= स्वाइप से भी धन आया
– तद् कुत्र स्थापयामि ।
= वो कहाँ रखूँ ।
आपणिकः – ओ मूर्ख ! तद् धनं तु साक्षात् वित्तकोषं गच्छति।
= ओ मूर्ख ! वो धन तो सीधे बैंक में जाता है ।
– मम लेखायां सञ्चितं भवति ।
= मेरे खाते में जमा हो जाता है
सेवकः – ओ … एवं वा ??
= ओ … ऐसा क्या ??
– अधुना अवगतम् ।
= अब समझा
ओ३म्
१७८. संस्कृत वाक्याभ्यासः
सा सर्वान् दूरवाणीं करोति।
= वह सबको फोन करती है
राजेश ! किमर्थं न आगतवान् ?
= राजेश ! क्यों नहीं आए ?
दीप्ति ! किमर्थं न आगतवती ?
= दीप्ति ! क्यों नहीं आईं ?
जानाति खलु ? अद्य रविवासरः …
= जानते हो न ? / जानती हो न ? आज रविवार है ….
अद्य समाजभवने यज्ञः अस्ति।
= आज समाज के भवन में यज्ञ है ।
अन्यत्र तु समये प्राप्नोति।
= अन्य जगहों पर तो समय से पहुँचते हो ।
शीघ्रमेव आगच्छन्तु सर्वे।
= सब जल्दी आ जाएँ
राजेशः – आम् आगच्छामि।
= हाँ आता हूँ।
दीप्ति: – अहमपि आगच्छामि।
= मैं भी आती हूँ ।
बेला – अहं मार्गे अस्मि , प्राप्नोमि।
= मैं रास्ते में हूँ , पहुँचती हूँ।
केयूरः – मात्रा सह आगच्छामि।
= माँ के साथ आता हूँ।
ओ३म्
१८०. संस्कृत वाक्याभ्यासः
शिलालेखं पठामि।
पुरातनं नगरं धोरावीरां पश्यामि।
पुरातन नगरी धोरावीर देख रहा हूँ
तदानीम् अपि जनाः सुशिक्षिताः आसन्।
तब भी लोग सुशिक्षित थे
तदानीम् अपि जनाः सुसभ्याः आसन्।
तब भी लोग सुसभ्य थे
तदानीम् अपि सर्वत्र सुव्यवस्था आसीत्
तब भी सर्वत्र सुव्यवस्था थी
सुशासनम् आसीत्।
सुशासन था
सर्वेषां पार्श्वे धनम् अपि आसीत्।
सभी के पास धन भी था
सर्वे मिलित्वा निवसन्ति स्म।
सभी मिलजुल कर रहते थे
सर्वे स्वावलम्बिनः आसन्।
सभी स्वावलंबी थे
विदेशतः वस्तूनि न आनयन्ति स्म।
विदेश से वस्तुएं लाते नहीं थे
स्वदेशीनां वस्तूनाम् उपयोगं कुर्वन्ति स्म।
स्वदेशी वस्तुओं का ही उपयोग करते थे
तेषां भाषा अपि संस्कृतभाषा आसीत् ।
उनकी भाषा भी संस्कृत थी
कृपया सर्वे चिन्तयन्तु ।
कृपया सभी सोचें
ओ३म्
१८१. संस्कृत वाक्याभ्यासः
बालिका मात्रा सह अस्ति।
= बच्ची माँ के साथ है।
सा माता शाकआपणे अस्ति।
= वह माँ सब्जी मण्डी में है।
बालिका अपि शाकआपणे अस्ति।
= बच्ची भी सब्जी मण्डी में है।
बालिका सद्यः एव मुखं गोपायति।
= बच्ची अचानक अपना मुँह छुपाती है।
बालिका मातुः शाटिकायां मुखं गोपयति।
= बच्ची माँ की साड़ी में मुँह छुपाती है।
माता पृच्छति – ” किम् अभवत् ?”
= माँ पूछती है – ” क्या हुआ ?”
बालिका किमपि न वदति।
= बच्ची कुछ नहीं बोलती है।
माता पुनः पृच्छति – ” किम् अभवत् ?”
= माँ फिर से पूछती है – ” क्या हुआ ?”
बालिका वदति – मम शिक्षिका …
= बच्ची बोलती है – मेरी शिक्षिका ….
माता – कुत्र अस्ति तव शिक्षिका ?
= कहाँ है तुम्हारी शिक्षिका ?
बालिका अँगुल्या दर्शयति।
= बच्ची उँगली से दिखाती है।
माता – तर्हि किमर्थं लज्जसे ।
= तो शर्मा क्यों रही हो ।
– आगच्छ , मिलावः
= आओ मिलते हैं।
– सा अपि शाकं क्रीणाति।
= वह भी सब्जी खरीद रही है।
ओ३म्
१८२. संस्कृत वाक्याभ्यासः
अहं तं न जानामि। ( पुंलिङ्ग )
= मैं उसे नहीं जानता हूँ
अहं तां न जानामि। ( स्त्रीलिङ्ग)
= मैं उसे नहीं जानता हूँ
सः कः ? / सा का ?
= वह कौन है ?
भवान् जानाति वा ? ( पुंलिङ्ग )
= आप जानते हैं क्या ?
भवती जानाति वा ? ( स्त्रीलिङ्ग)
= आप जानती हैं क्या ?
न , अहं न जानामि।
= नहीं , मैं नहीं जानता / जानती हूँ।
आम् , अहं जानामि ।
= हाँ , मैं जानता हूँ / जानती हूँ।
सः संस्कृत-शिक्षकः ।
सा संस्कृत-शिक्षिका
सः साधु: अस्ति।
सा साध्वी अस्ति।
सः पशुपालकः / सा पशुपालिका
सः गायकः / सा गायिका
सः कृष्णस्य पिता अस्ति।
सा कृष्णस्य माता अस्ति।
ओ३म्
१८३ . संस्कृत वाक्याभ्यासः
तं दृष्ट्वा कुक्कुराः सचेताः भवन्ति।
= उसको देखकर कुत्ते सचेत हो जाते हैं।
सर्वे कुक्कुराः तं प्रति चलन्ति।
= सभी कुत्ते उसकी ओर चलते हैं।
चलन्ति न धावन्ति।
= चलते हैं , दौड़ते नहीं हैं ।
सः समीपम् आगच्छति।
= वह पास आता है ।
सर्वे कुक्कुराः तं परितः उपविशन्ति।
= सभी कुत्ते उसके चारों ओर बैठ जाते हैं।
सः सर्वेभ्यः कुक्कुरेभ्यः रोटिकां ददाति।
= वह सभी कुत्तों को रोटी देता है।
कोsपि कुक्कुरः न बुक्कति।
= कोई भी कुत्ता भौंकता नहीं है।
यः कुक्कुरः बुक्कति तस्मै रोटिका न ददाति।
= जो कुत्ता भौंकता है उसे वह रोटी नहीं देता है।
सः सज्जनः प्रतिप्रातः भ्रमणार्थम् अत्र आगच्छति।
= वो सज्जन हर सुबह यहाँ घूमने आता है।
तेन सह रोटिकाः आनयति।
= उसके साथ रोटियाँ लाता है।
कुक्कुराः तं दृष्ट्वा पुच्छं दोलायन्ते।
= कुत्ते उसको देखकर पूँछ हिलाते हैं।
ओ३म्
१८४. संस्कृत वाक्याभ्यासः
सः सुदर्शनः अस्ति।
सुदर्शनस्य भागिनेयः तस्य गृहम् आगतवान् अस्ति।
भागिनेयः मोडासातः आगतवान् ।
भागिनेयः तृतीयकक्षायां पठति।
ग्रीष्मावकाशे भागिनेयः मातुलस्य गृहम् आगतवान्।
सः माम् अमिलत् ( मिलितवान् )
अहं तस्य नाम पृष्टवान् ।
” तव नाम किम् ? ”
सः बालकः उक्तवान्
” सर्वे मां लाला वदन्ति । ”
” विद्यालये मम नाम लोकेशः अस्ति।”
तदानीमेव सुदर्शनः तम् आह्वयति
लाला ….. लाले त्वं कुत्र असि ?
तदा सः बालकः पुनः वदति
“पश्यतु … मम मतुलः अपि मां लाला नाम्ना आह्वयति। ”
ओ३म्
१८५. संस्कृत वाक्याभ्यासः
सः लोकयानस्य नामफलकं पश्यति।
= वह बस के नाम प्लेट को देखता है।
सः लोकयानस्य नामफलकं पठति।
= वह बस की नाम प्लेट पढ़ता है
एषा का भाषा ?
= ये कौनसी भाषा है ?
कस्यां भाषायां लिखितम् अस्ति ?
= किस भाषा में लिखा है ?
ओह …. तेलगुभाषायां लिखितम् अस्ति।
= ओह …. तेलगु भाषा में लिखा है।
यानं कुत्र गच्छति ?
= वाहन कहाँ जा रहा है ?
सः वारं वारं पृच्छति।
= वह बार बार पूछता है।
कोsपि उत्तरं न ददाति।
= कोई भी उत्तर नहीं देता है।
तदानीमेव यानचालकः आगच्छति।
= उसी समय वाहनचालक आता है
उच्चै: वदति।
= जोर से बोलता है।
” विजयवाड़ा ….. विजयवाड़ा …..”
सः जनः उक्तवान् – ” आम् अहं विजयवाड़ां गन्तुम् इच्छामि।
= वह व्यक्ति बोला – ” हाँ मैं विजयवाड़ा जाना चाहता हूँ।
सः जनः याने उपविशति।
= वह व्यक्ति वाहन में बैठता है।
ओ३म्
१८६. संस्कृत वाक्याभ्यासः
सः गीतं श्रृणोति।
सः सर्वदा गीतानि श्रृणोति।
सः सर्वदा आँग्ल गीतानि श्रृणोति।
सः बहु उच्चै: गीतानि श्रृणोति।
भोजनसमये अपि गीतानि श्रृणोति।
जनाः आगत्य निवेदयन्ति।
तथापि सः न मन्यते।
जनाः तस्य गृहस्य पार्श्वे कोलाहलं कुर्वन्ति।
तदा सः ध्वनिं मन्दां करोति।
ओ३म्
१८७. संस्कृत वाक्याभ्यासः
अद्य एका विमतिः अभवत् ।
= आज एक गैरसमझ ( मिसअंडरस्टैंडिंग) हो गई।
सः हसति स्म
= वह हँस रहा था।
अहं चिन्तितवान् मयि हसति।
= मैंने सोचा मुझपर हँस रहा है।
सः आहूतवान्।
= उसने बुलाया ।
अहं चिन्तितवान् माम् आह्वयति।
= मैंने सोचा मुझे बुला रहा है।
सः पृष्टवान् – ” कथम् अस्ति ?”
= उसने पूछा – कैसे हो ?
अहम् उक्तवान् – कुशली अस्मि।
= मैंने कहा – कुशल हूँ।
वस्तुतः सः वितारेण वार्तालापं करोति स्म।
= वास्तव में वह ब्लुटूथ से बात कर रहा था।
अहं तस्य वितारं न दृष्टवान्।
= मैंने उसका ब्लुटूथ नहीं देखा था
अतएव मम विमतिः अभवत् ।
= इसलिये मुझे नासमझी हो गई।
यदाकदा विमतिः भवति
= कभी कभी नासमझ हो जाती है ।
ओ३म्
१८८. संस्कृत वाक्याभ्यासः
ओह … सार्ध अष्टवादनं जातम्।
= ओह … साढ़े आठ बज गए
अधुना अपि स्नानं न कृतम्
= अभी तक स्नान नहीं किया
प्रौञ्छवस्त्रं कुत्र अस्ति ?
= तौलिया कहाँ है ?
फेनकं कुत्र अस्ति ?
= साबुन कहाँ है ?
द्रोणी अपि रिक्ता अस्ति।
= बाल्टी भी खाली है।
जलं न पूरितम् ।
= पानी नहीं भरा है।
न … न … अद्य स्नानगृहे न गास्यामि।
= नहीं .. आज स्नानघर में नहीं गाऊँगा।
हो..हो … शीघ्रं शीघ्रं जलम् आगच्छ
= हो हो जल्दी जल्दी पानी आओ
मां स्नानं कारय
= मुझे स्नान करा दो
ओ जलदेवता ! ओ जलदेवता !
अभवत् .. स्नानम् … अभवत् ।
= हो गया स्नान हो गया ।
केशतैलं कुत्र ?
= केशतेल कहाँ है ?
कङ्कतं कुत्र अस्ति ?
= कंघा कहाँ है ?
आम् … अहं सिद्ध: ।
= हाँ … मैं तैयार हो गया।
ओ३म्
१८९. संस्कृत वाक्याभ्यासः
सः मां निवेदयति।
= वह मुझसे निवेदन करता है।
अत्र हस्ताक्षरं करोतु।
= यहाँ हस्ताक्षर करिये।
अहं हस्ताक्षरं करोमि।
= मैं हस्ताक्षर करता हूँ ।
सः मम हस्ताक्षरं पश्यति।
= वह मेरे हस्ताक्षर देखता है।
कस्यां भाषायाम् ( लिप्याम् ) अस्ति ?
= किस भाषा में ( लिपि में ) है ?
अहम् – देवनागरी-लिप्याम् अस्ति।
= देवनागरी लिपि में है।
सः – देवनागर्यां हस्ताक्षरं करोति।
= देवनागरी में हस्ताक्षर करते हैं
अहम् – आं , हस्ताक्षरं तु मम निधिः ।
= हाँ , हस्ताक्षर तो मेरी निधि है ।
– स्वभाषायामेव हस्ताक्षरं करणीयम् ।
= अपनी भाषा में ही हस्ताक्षर करने चाहिये।
कदापि अन्यस्यां भाषायां हस्ताक्षरं मा करोतु।
= कभी भी अन्य भाषा में हस्ताक्षर न करिये।
– स्वभाषायै आदरं ददातु।
= अपनी भाषा को आदर दीजिये।
ओ३म्
१९०. संस्कृत वाक्याभ्यासः
सः स्वामी अक्षयानन्दः अस्ति।
= वह स्वामी अक्षयानन्द हैं।
सः उत्तरकाश्यां निवसति।
= वो उत्तरकाशी में रहते हैं ।
गङ्गानद्याः तटे तेषाम् आश्रमः अस्ति।
= गङ्गा नदी के तट पर उनका आश्रम है।
सन्यासात् पूर्वं तस्य नाम चन्द्रभूषण शास्त्री आसीत्।
= सन्यास से पहले उनका नाम चंद्रभूषण शास्त्री था।
सः सर्वदा सर्वत्र संस्कृतभाषायाम् एव वदति।
= वह हमेशा सब जगह संस्कृत में ही बात करते हैं।
सः सर्वै: सह संस्कृतभाषायाम् एव वदति।
= वह सबके साथ संस्कृत में ही बात करते हैं।
विंशतिः वर्षेभ्यः पूर्वं सः मम गृहम् आगतवान् ।
= बीस वर्ष पहले वे मेरे घर आए थे।
संस्कृते सम्भाषणं कर्तुं मां प्रेरितवान् आसीत्।
= संस्कृत में बातचीत करने के लिये मुझे प्रेरित किया था।
तेन सह अनेकवारं वार्तालापः भवति।
= उनके साथ अनेक बार बात होती है।
ह्यः एव दूरवाण्या वार्तालापः जातः।
= कल ही फोन से बात हुई।
सः मह्यम् आशीर्वादम् अयच्छत्।
= उन्होंने मुझे आशीर्वाद दिया।