ओ३म्
२३१ संस्कृत वाक्याभ्यासः
अद्य रविवासरः अस्ति खलु !
= आज रविवार है न !
तर्हि भोजन समये संस्कृते एव वदामः
= तो भोजन के समय संस्कृत में ही बोलें
आगच्छन्तु सर्वे भोजनं कुर्मः
= सभी आ जाएँ भोजन करते हैं
पुत्र ! पूर्वं हस्तं प्रक्षालय
पुत्रि ! पूर्वं हस्तं प्रक्षालय
= बेटा ! पहले हाथ धो लो
सर्वे अधः मण्डलाकारे उपविशन्तु ।
= सभी नीचे गोलाकार में बैठ जाएँ
स्वां स्थालिकां स्वीकुर्वन्तु।
= अपनी थाली ले लें
चषके जलं पूरयन्तु
= गिलास में पानी भर लें
सर्वाणि व्यंजनानि मध्ये स्थापयन्तु।
= सभी व्यंजन बीच में रख लें
सैंयावं स्वीकुरु पुत्र / पुत्रि !
= हलुआ लो बेटा
जालिकायाः शाकम् ।
= तुरई की सब्जी
मुद्गस्य दालम् ( सूपम्)
= मूँग की दाल
ओदनम् अपि अस्ति।
= चावल भी है
कति रोटिकाः ददानि ?
= कितनी रोटी दूँ ?
भोजनात् पूर्वं भोजनमन्त्रं वदामः ।
= भोजन से पहले भोजन मन्त्र बोलते हैं
अधुना खादन्तु ।
= अब खाएँ ।
शुभ रविवासरः ।
ओ३म्
२३२ संस्कृत वाक्याभ्यासः
सः मरीचिकां लाजति ।
= वह मिर्ची तलता है ।
लाजिता मरीचिका तस्मै रोचते।
= तली हुई मिर्च उसे पसंद है।
माता किं किं लाजति ?
= माँ क्या क्या तलती है ?
माता पूरिकां लाजति।
= माँ पूड़ी तलती है।
( पूरिकाः लाजति = पूड़ियाँ तलती है )
माता आलुलवं लाजति।
= माँ आलू की चिप्स तलती है
माता पर्पटं लाजति।
= माँ पापड़ तलती है
भगिनी पिष्टकं लाजति।
= बहन पकौड़ा तलती है ।
( पिष्टकानि लाजति = पकौड़े तलती है )
भगिनी भूचणकं लाजति।
= बहन मूँगफली तलती है ।
सा पलांडु लाजति।
= वह प्याज तलती है
सा अपूपं लाजति।
= वह मालपुआ तलती है ।
ओ३म्
२३४ संस्कृत वाक्याभ्यासः
सा भृज्जति ।
= वह भूनती है ।
सा पर्पटं भृज्जति।
=वह पापड़ भूनती ( सेंकती ) है।
सा रोटिकाः भृज्जति।
= वह रोटियाँ सेंकती है।
भाजने सा वृन्ताकं भृज्जति।
= तवे पर वह बैंगन सेंकती है।
कटाहे सः चणकं भृज्जति।
= कढ़ाई में वह चना भूनता है।
यदाकदा अहमपि रोटिकाः भृज्जामि।
= कभी कभी मैं भी रोटियाँ सेंकता हूँ।
भर्जितं पर्पटं बहु रोचते।
= भूना ( सेंका ) हुआ पापड़ बहुत अच्छा लगता है।
मम माता मन्दाग्नौ मकोयं भृज्जति।
= मेरी माँ धीमी आँच पर भुट्टा भूनती हैं
तर्हि प्रतीक्षां मा करोतु।
= तो फिर प्रतीक्षा न करें
भवान् /भवती अपि किमपि भृज्जतु ।
= आप भी कुछ भूनिये ।
ओ३म्
२३५ संस्कृत वाक्याभ्यासः
छात्रः १ – तव अल्पाहारः कुत्र अस्ति ?
= तुम्हारा नाश्ता कहाँ है ?
छात्रः २ अद्य न आनीतवान् ।
= आज नहीं लाया ।
छात्रः १ – तर्हि मया सह कुरु ।
= तो मेरे साथ करो ।
छात्रः २ – मम माता आनेष्यति ।
= मेरी माँ लाएगी।
छात्रः १ – कदा आनेष्यति ?
= कब लाएगी ।
छात्रः २ – अधुनैव ।
= अभी ही ।
छात्रः १ – त्वं न खादिष्यसि चेत् अहमपि न खादिष्यामि।
= तुम नहीं खाओगे तो मैं भी नहीं खाऊँगा।
छात्रः २ – त्वं खाद ,
= तुम खाओ ।
छात्रः १ – त्वं रोदिषि मित्र !
= तुम रो रहे हो मित्र !
छात्रः २ – सत्यं वदामि , मम माता रुग्णा अस्ति
= सच कहूँ , मेरी माँ बीमार है ।
छात्रः १ – तव मातरं किम् अभवत् ?
= तुम्हारी माँ को क्या हो गया ?
छात्रः १ – वद , किम् अभवत् तव मातरम् ।
= बोलो , क्या हो गया तुम्हारी माँ को ?
छात्रः २ – मम मातरं सामान्यः एव रोगः आसीत्।
= मेरी माँ को सामान्य ही रोग था।
छात्रः १ – तर्हि का चिन्ता ?
= तो फिर चिंता कैसी ?
छात्रः २ – चिकित्सालयतः माता पादाभ्याम् आगतवती।
= अस्पताल से माँ पैदल आई ।
छात्रः १ – तर्हि किम् अभवत् ?
= तो क्या हो गया ?
छात्रः २ – मार्गे बहु आतपः आसीत् ।
= रास्ते में बहुत धूप थी।
– मम माता आतपं सोढुं न शक्तवती।
= मेरी माँ धूप सहन न कर सकी
– अतः ज्वरः अवर्धत।
= इसलिये ज्वर बढ़ गया।
छात्रः १ – अधुना कथम् अस्ति?
= अब कैसी हैं ?
छात्रः २ – अधुना विश्रामं करोति।
= अभी विश्राम कर रही हैं ।
छात्रः १ – तर्हि अल्पाहारं कुरु ।
= तो नाश्ता करो।
छात्रः २ – यावत् माता न खादति तावद् अहमपि न खादिष्यामि।
= जब तक माँ नहीं खाती तब तक मैं नहीं खाऊँगा ।
अहो , मातृस्नेहः ।
ओ३म्
२३6 संस्कृत वाक्याभ्यासः
पिता – मुख्यद्वारे कोsपि अस्ति।
= मुख्य दरवाजे पर कोई है।
पुत्री – अहं पश्यामि।
= मैं देखती हूँ।
पिता – पादरक्षां धारय ।
= चप्पल पहन लो ।
– उत्तरीयम् अपि धारय।
= दुपट्टा भी पहनो ।
पुत्री – तात ! द्वारं बहु दूरे नास्ति।
= पिताजी ! द्वार बहुत दूर नहीं है।
पिता – वत्से ! भूमिः बहु तपति।
= बिटिया ! भूमि बहुत तप रही है।
तव पादौ ऊष्णौ भविष्यतः।
– तुम्हारे पैर गरम हो जाएंगे।
( किञ्चित् काल अनन्तरम्
= थोड़ी देर बाद )
पुत्री – तात ! द्वारे एका महिला अस्ति।
= पिताजी ! द्वार पर एक महिला है
– सा जलं याचते।
= वह पानी माँग रही है।
पिता – तां छायायाम् उपावेशय ।
= उसको छाया में बिठाओ।
– अहं जलम् आनयामि।
= मैं पानी लाता हूँ।
त्वमपि आतपे बहु न तिष्ठे:
= तुम भी धूप में अधिक मत खड़ी रहो।
– अन्यथा सूर्यचपेटः लगति।
= नहीं तो लू लग जाती है।
– आतपज्वरः भवति।
= लू का बुखार हो जाता है।
सः पिता तां महिलां जलं पाययति।
= वह पिता उस महिला को जल पिलाता है।
ओ३म्
२३७ संस्कृत वाक्याभ्यासः
जगदीशः – नमो नमः अखिलेश !
अखिलेशः – नमो नमः ।
जगदीशः – कथम् अस्ति ?
= कैसे हैं ?
अखिलेशः – अहं कुशली।
= मैं कुशल हूँ।
– भवान् कथम् अस्ति ?
= आप कैसे हैं ?
जगदीशः – अहमपि कुशली ।
= मैं भी कुशल हूँ।
– मम मित्रम् अस्वस्थः अस्ति।
= मेरा मित्र अस्वस्थ है ।
अखिलेशः – किम् अभवत् तव मित्रम् ?
= क्या हो गया तुम्हारे मित्र को ?
जगदीशः – सः अनिद्रा रोगेण पीडितः अस्ति।
= वह अनिद्रा रोग से पीड़ित है
अखिलेशः – ओह , अधुना जनाः स्वास्थ्यं न रक्षन्ति।
= ओह , अब लोग स्वास्थ्य की रक्षा नहीं करते हैं
जगदीशः – आं , सः चिन्ताम् अधिकां करोति।
= हाँ वह चिन्ता बहुत करता है।
अखिलेशः – चिन्ता तु मानसिक रोगः एव।
= चिन्ता तो मानसिक रोग ही है
जगदीशः – अद्य विश्वस्वास्थ्य दिनम् अस्ति।
= आज विश्व स्वास्थ्य दिन है।
अखिलेशः – सर्वे मनसा शरीरेण च सर्वदा स्वस्थाः भवेयुः ।
= सभी मन से और तन से स्वस्थ रहें।
ओ३म्
२३८ संस्कृत वाक्याभ्यासः
पिता – अद्य शान्तिम् एव इच्छामि।
= आज शान्ति ही चाहता हूँ।
– मा बाधन्ताम्
= परेशान नहीं करेंगे।
पुत्री – नैव तात ! अद्य तु रविवासरः ।
= नहीं पिताजी ! आज तो रविवार है।
पुत्रः – रविवासरे एव भवान् गृहे तिष्ठति।
= रविवार को ही आप घर पर रहते हैं
पुत्री – अहम् एकं काव्यं कंठस्थं कृतवती
= मैंने एक कविता याद की है
– तद् श्रावयामि।
= वो सुनाती हूँ।
पुत्रः – अहम् एकं चित्रं रचितवान्।
= मैंने एक चित्र बनाया है।
– तद् दर्शयामि।
= वो दिखाता हूँ।
पुत्री – पुत्री गायति
अवनितलं पुनरवतीर्णा स्यात्
संस्कृत गङ्गाधारा
धीर भगीरथ वंशोsस्माकं
वयं तु कृतनिर्धारा
पिता – बहु सुन्दरं गीतवती … शोभनम् ।
पुत्रः – मम चित्रं पश्यतु
पिता – तव चित्रं तु सुन्दरम् अस्ति
ग्रामस्य चित्रम्
चित्रे तड़ागः अस्ति।
चित्रे पर्वतमाला अस्ति।
चित्रे नदी अस्ति
कुटीरः अस्ति
जनाः सन्ति।
बालकाः सन्ति।
पुत्रः -पुत्री ( उभौ वदतः )
बेटा बेटी दोनों बोलते हैं
अम्बा अपि आगतवती।
= माँ भी आ गई।
अद्य आनन्दं करिष्यामः ।
= आज आनंद करेंगे।
हो ….हो….हो…हो….
ओ३म्
२३९ संस्कृत वाक्याभ्यासः
पौत्रः दोलायां दोलायते।
= पोता झूले में झूलता है।
पितामहः पौत्रं पश्यति।
= दादाजी पोते को देखते हैं।
पौत्रः वेगेन दोलायते ।
= पोता तेज झूलता है।
पितामहः भीतः भवति।
= दादाजी डर जाते हैं
पितामहः – वत्स ! दोलां मन्दं कुरु।
= बेटा ! झूला धीमा करो।
पौत्रः न मन्यते ।
= पोता नहीं मानता है।
पितामहः पुनः आदिशति।
= दादाजी फिर से आदेश देते हैं।
पौत्रः न मन्यते ।
= पोता नहीं मानता है।
पितामहः – त्वं न मन्यसे चेत् अहं गृहं गच्छामि।
= तुम नहीं मानते हो तो मैं घर जाता हूँ।
पौत्रः शीघ्रमेव दोलां मन्दं करोति।
= पोता जल्दी से झूला धीमा करता है।
अवतीर्य पितामहं निवेदयति।
= उतरकर दादाजी को निवेदन करता है
न पितामह ! अधुना वेगेन न चालयिष्यामि।
= नहीं दादाजी ! अब तेज नहीं चलाऊँगा।
भवान् गृहं मा गच्छतु।
= आप घर मत जाईये।
एक होरा अनन्तरं गृहं चलिष्यावः।
= एक घंटे के बाद घर चलेंगे।
ओ३म्
२४0 संस्कृत वाक्याभ्यासः
युवकः – तव नखाः दीर्घाः अभवन्।
= तुम्हारे नाखून बड़े हो गए हैं।
युवती – तव अपि नखाः दीर्घाः अभवन्।
= तुम्हारे भी नाखून बड़े हो गए हैं।
युवकः – अहम् अधुना कृन्तामि।
= मैं अभी काटता हूँ।
– त्वमपि कृन्ततु ।
= तुम भी काट लो ।
युवती – न … न … नैव ।
– अहं तु इतोsपि दीर्घान् नखान् इच्छामि।
= मैं और लम्बे नाखून चाहती हूँ।
युवकः – तेन कः लाभः भविष्यति ?
= उससे क्या लाभ होगा ?
भारतस्य उन्नतिः भविष्यति वा ?
= भारत की उन्नति होगी क्या ?
आतंकवादिनः भयभीताः भविष्यन्ति वा ?
= आतंकवादी डर जाएँगे क्या ?
युवती – न तथा किमपि नास्ति।
= नहीं ऐसा कुछ नहीं है।
– मम सख्यः दीर्घान् नखान् स्थापयन्ति।
= मेरी सहेलियाँ लंबे नाखून रखती हैं।
युवकः – अधुनैव कृन्ततु ।
= अभी ही काट लो ।
– न शोभन्ते ।
= नहीं अच्छे लगते हैं
ओ३म्
२४१ संस्कृत वाक्याभ्यासः
ह्यः मार्गे हयः आसीत्।
= कल रास्ते में घोड़ा था।
हयं दृष्ट्वा सर्वे यानं मन्दं कृतवन्तः ।
= घोड़े को देखकर सबने वाहन धीमा कर दिया।
मार्गे यदाकदा शशः अपि आगच्छति।
= रास्ते में कभी कभी खरगोश भी आ जाता है।
शशः बहु वेगेन धावति।
= खरगोश बहुत तेज दौड़ता है।
एकः जनः उष्ट्रं नयति स्म।
= एक जन ऊँट ले जा रहा था।
बालकाः उष्ट्रं द्रष्टुं स्थितवन्तः।
= बच्चे ऊँट को देखने खड़े हो गए।
नगरे यदा गजः आगच्छति तदा सम्मर्दः भवति।
= शहर में जब हाथी आता है तो भीड़ हो जाती है।
आं गर्दभं द्रष्टुम् अनेके जनाः तिष्ठन्ति।
= हाँ , गधा देखने के लिये अनेक लोग खड़े हो जाते हैं।
यदा धेनुः मिलति तदा सर्वे किमपि खादयन्ति।
= जब गाय मिलती है तब सभी कुछ खिलाते हैं ।
मार्जारी तु गृहे भवति एव।
= बिल्ली तो घर में होती ही है।
आं सिंहं द्रष्टुं वनं गच्छन्तु।
= हाँ शेर देखने के लिये जंगल जाईये ।
ओ३म्
२४२ संस्कृत वाक्याभ्यासः
अद्य सः अनशनं करिष्यति।
= आज वह अनशन करेगा।
अन+अशनम् = भोजन न करना
सः सत्यमेव किमपि न खादिष्यति।
= वह सचमुच में कुछ नहीं खाएगा।
आदिनं आहारं विना एव यापयिष्यति।
= पूरा दिन आहार बिना के बिताएगा।
उपवासकाले अपि सः कार्यं तु करिष्यति एव।
= उपवास के समय भी वह काम तो करेगा ही।
केचन जनाः उपवासं तु कुर्वन्ति
= कुछ लोग उपवास तो करते हैं
मध्ये मध्ये चणकपूरिकां खादन्ति।
= बीच बीच में छोले भटूरे खाते हैं
रसं पिबन्ति।
= जूस पीते हैं ।
तेषामेव उपवासस्य प्रचारः भवति।
= उनके ही उपवास का प्रचार होता है।
श्रद्धया उपवासः करणीयः।
= श्रद्धा से उपवास करना चाहिये।
अनशनस्य किमपि ध्येयं भवेत्।
= अनशन का कोई ध्येय होना चाहिये।
व्यर्थमेव जनान् आकर्ष्टुम् उपवासः न करणीयः ।
= बेकार में लोगों को आकर्षित करने के लिये उपवास नहीं करना चाहिये
ओ३म्
२४३ संस्कृत वाक्याभ्यासः
सः पुस्तकविक्रेता अस्ति।
= वह पुस्तक विक्रेता है।
सः पुस्तकानि विक्रीणाति।
= वह पुस्तकें बेंचता है
तस्य आपणे नूतनानि पुस्तकानि अपि सन्ति।
= उसकी दूकान में नई पुस्तकें भी हैं
पुरातनानि पुस्तकानि अपि सन्ति।
= पुरानी पुस्तकें भी हैं
अपि च सः पुरातनानि पुस्तकानि प्रतिगृह्णाति
= वह पुरानी पुस्तकें वापस भी लेता है
पुरातनानां पुस्तकानां सः मूल्यं प्रत्यर्पयति।
= पुरानी पुस्तकों का वह मूल्य लौटाता है।
यदा कोsपि ग्राहकः न आगच्छति….
= जब कोई ग्राहक नहीं आता ….
…. तदा सः पुस्तकं पठति।
= ….. तब वह पुस्तक पढ़ता है
सः छात्रेभ्यः परामर्शम् अपि ददाति।
= वह छात्रों को सलाह भी देता है।
छात्राः तस्य परामर्शानुसारमेव पुस्तकं (पुस्तकानि ) क्रीणन्ति।
= छात्र उसकी सलाह के अनुसार पुस्तक (पुस्तकें) खरीदते हैं।
ओ३म्
२४४ संस्कृत वाक्याभ्यासः
सः भूमिं क्रीतवान् ।
= उसने भूमि खरीदी।
अधुना सः भाटकं दत्वा निवसति।
= अभी वह किराया देकर रहता है।
भाटकगृहे सः प्रसन्नः नास्ति।
= किराये के घर पर वह खुश नहीं है।
अतएव तेन भूमिः क्रीता।
= इसलिये उसने भूमि खरीदी।
भूमौ सः गृहं निर्मास्यति
= भूमि पर वह घर बनाएगा।
बृहद् गृहं न निर्मास्यति।
= बड़ा घर नहीं बनाएगा।
सः ऐश्वर्यमयं गृहं न निर्मास्यति।
= वह वैभवशाली घर नहीं बनाएगा।
अपितु सः सुविधापूर्णं गृहं निर्मास्यति।
= जबकि वह सुविधापूर्ण घर बनाएगा।
तस्य मातापितरौ अपि तेन सह निवसतः
= उसके माता पिता भी उसके साथ रहते हैं।
पिता अधुना निवृत्तः अस्ति।
= पिता अभी निवृत्त हैं
सः परिसरस्य बालकान् पाठयति।
= वह परिसर के बच्चों को पढ़ाते हैं
माता गृहकार्यं करोति।
= माँ घर का काम करती हैं
तस्य भार्या शिक्षिका अस्ति।
= उसकी पत्नी शिक्षिका है।
सः चिकित्सासेवकः अस्ति।
= वह कम्पाउन्डर है ।
तस्मै मम शुभकामनाः ।
= उसे मेरी शुभकामनाएँ ।
ओ३म्
२४५ संस्कृत वाक्याभ्यासः
अद्य बिशु पर्व अस्ति।
= आज बिशु पर्व है।
केरलप्रदेशे पर्वणः नाम बिशु अस्ति।
= केरल में पर्व का नाम बिशु है।
आसामप्रदेशे बिहु उच्च्यते ।
= आसाम में बिहु कहते हैं।
ते जनाः पारम्परिकं परिधानं धारयन्ति।
= वे लोग पारम्परिक परिधान पहनते हैं।
लोकनृत्यं कुर्वन्ति।
= लोकनृत्य करते हैं।
असमजनाः मृदङ्गं वादयन्ति।
= असम के लोग मृदङ्ग बजाते हैं।
केरलजनाः पटहं वादयन्ति।
= केरल के लोग ढोल बजाते हैं।
तत्र तु वादित्रगणः पटहान् वादयति।
= वहाँ तो बजानेवाले ढोल बजाते हैं।
एकः गणः तुर्यं ( तुर्यानि) वादयति।
= एक समूह शहनाई बजाता है।
ह्यः वैशाखी पर्व आसीत् ।
= कल वैशाखी पर्व था।
पंजाबप्रदेशे वैशाखी पर्व आचर्यते।
= पंजाब में वैशाखी पर्व मनाते हैं।
सर्वेभ्यः बैसाखी , बिहु , बिशु च पर्वणः शुभकामनाः।
= सबको बैसाखी , बिहु , बिहु , बिशु पर्व की शुभकामनाएँ ।
ओ३म्
२४6 संस्कृत वाक्याभ्यासः
रात्रौ महापणं गतवान् अहम्।
= रात बिग बाजार गया था।
महापणं बहु विशालम् आसीत्।
= बिग बाजार बहुत बड़ा था।
सर्वविधानि वस्तूनि तत्र आसन्।
= सब प्रकार की वस्तुएँ वहाँ थीं।
विक्रयणार्थं वस्तूनि लम्बन्ते स्म।
= बेचने के लिये वस्तुएँ लटक रही थीं।
अनेके जनाः वस्तूनि पश्यन्ति स्म।
= अनेक लोग वस्तुएँ देख रहे थे।
अनेके जनाः वस्तूनि क्रीणन्ति स्म।
= अनेक लोग वस्तुएँ खरीद रहे थे।
महापणे विद्युत्चालितानि सोपानानि आसन्।
= बिग बाजार में विद्युत चालित सीढियाँ थीं।
अहं तेन सोपानेन द्वितीयं अट्टं गतवान्।
= मैं उस सीढ़ी से दूसरी मंजिल गया।
तेनैव तृतीयं अट्टम् आरोहितवान्।
= उसी से तीसरे तल भी गया ।
तृतीये अट्टे खाद्यव्यंजनानि मिलन्ति स्म।
= तीसरी मंजिल में खाद्य व्यंजन मिल रहे थे।
सत्यं वदानि , अहं किमपि न क्रीतवान्।
= सच कहूँ , मैंने कुछ भी नहीं खरीदा।
हा …. हा … हा …. हा …
ओ३म्
२४७ संस्कृत वाक्याभ्यासः
- धनम् ???
= पैसा ???
**ददामि ।
= देता हूँ / देती हूँ
** ओह , मम पार्श्वे धनं नास्ति।
= ओह , मेरे पास पैसा नहीं है।
** गृहात् आनयामि।
= घर से लाता हूँ।
- गृहं किमर्थं गच्छति।
= घर क्यों जा रहे हो । - मम पार्श्वे धनाकर्षणयन्त्रम् अस्ति।
= मेरे पास स्वाइप यंत्र है। - तेन एव ददातु।
= उसी से दे दीजिये।
** बहु उत्तमम् ।
= बहुत अच्छा ।
** मम पार्श्वे धनदम् अस्ति।
= मेरे पास ATM कार्ड है।
** अहं तेनैव ददामि।
= मैं उसी से देता हूँ / देती हूँ।
ओ३म्
२४८ संस्कृत वाक्याभ्यासः
मम राष्ट्रस्य ज्ञानम् अक्षय्यं भवेत्।
= मेरे राष्ट्र का ज्ञान अक्षय रहे।
मम राष्ट्रस्य गौरवम् अक्षय्यं भवेत्।
= मेरे राष्ट्र का गौरव अक्षय रहे।
मम राष्ट्रस्य शौर्यम् अक्षय्यं भवेत्।
= मेरे राष्ट्र का शौर्य अक्षय रहे।
सर्वेषां स्वास्थ्यम् अक्षय्यं भवेत्।
= सबका स्वास्थ्य अक्षय रहे।
सर्वेषां धनम् अक्षय्यं भवेत्।
= सबका धन अक्षय रहे।
अस्माकं पर्यावरणम् अक्षय्यं भवेत्।
= हमारा पर्यावरण अक्षय रहे।
यश-कीर्तिः अक्षया भवेत्।
= यश-कीर्ति अक्षय रहे।
मम ध्यानं अक्षय्यं भवेत् ।
= मेरा ध्यान अक्षय रहे।
अस्माकं स्नेहः अक्षय्यः भवेत्।
= हमारा स्नेह अक्षय रहे।
अक्षय तृतीयापर्वणः कोटिशः मङ्गलकामनाः।
ओ३म्
२४९ संस्कृत वाक्याभ्यासः
यानं न चलति ।
= वाहन नहीं चल रहा है।
चलोपकरणं न आरभते।
= इंजिन नहीं चल रहा है।
पश्यामि किं जातम्।
= देखता हूँ क्या हो गया ।
ईंधनाशये ईंधनम् अस्ति।
= टंकी में ईंधन तो है।
कुञ्चिकाम् अपि स्थापितवान्।
= चाभी भी लगा दी है।
प्रवाहकं कर्षयामि।
= चोक खींचता हूँ।
आम् अभवत्।
= हाँ हो गया।
अधुना यानं चलितम् ।
= अब वाहन चल गया।
कदाचित चलोपकरणं शीतलं जातम्
= शायद ईंजन ठंडा हो गया होगा।
अस्तु , चलामि मम गन्तव्यं प्रति।
= ठीक है , चलता हूँ अपने गंतव्य की ओर
ओ३म्
२५0 संस्कृत वाक्याभ्यासः
ग्राहकः – सिक्थवर्तिका अस्ति वा ?
= मोमबत्ती है क्या ?
आपणिकः – अधुना समाप्ता जाता ।
= अब समाप्त हो गई।
– प्रातः आरभ्य अनेके जनाः आगतवन्तः।
= सुबह से अनेक लोग आए।
– सर्वे सिक्थवर्तिकाम् एव क्रीतवन्तः ।
= सबने मोमबत्ती ही खरीदी।
ग्राहकः – अद्य सायं सर्वे विरोधयात्रां निष्कासयिष्यन्ति।
= आज शाम सभी विरोधयात्रा निकालेंगे।
आपणिकः – किमर्थम् ?
= क्यों ?
ग्राहकः – महिलाभिः सह कृतस्य दुष्कर्मणः विरोधं कर्तुम्।
= महिलाओं के साथ हुए दुष्कर्म का विरोध करने के लिये।
आपणिकः – सिक्थवर्तिकया दुष्कर्ता बिभेति वा ?
= मोमबत्ती से कुकर्मी डरता है क्या ?
– दुष्कर्म निवारणीयम् अस्ति चेत् सर्वे शस्त्राणि क्रीणन्तु।
= दुष्कर्म को रोकना है तो सभी शस्त्र खरीदें।
दुष्कर्तारः भेष्यन्ति।
= बुरा काम करने वाले डरेंगे।
ओ३म्
२५१ संस्कृत वाक्याभ्यासः
सा माता बालकं खादयति।
= वह माँ बच्चे को खिलाती है।
किं खादयति ?
= क्या खिलाती है ?
सेरेलेक खादयति वा ?
= सेरेलेक खिलाती है क्या ?
सा मुद्गस्य दालं खादयति।
= वह मूँग की दाल खिलाती है।
हस्तेन संमृद्य खादयति।
= हाथ से मसल के खिलाती है।
बालकः भोजनं चर्वति।
= बालक भोजन चबाता है।
यदा बालकस्य मुखे अन्नं समाप्तं भवति ….
= जब बच्चे के मुख में अन्न समाप्त होता है
तदा सः आ … आ .. वदति ।
= तब वह आ … आ … बोलता है।
माता पुनः खादयति।
= माँ फिर से खिलाती है।
माता शाकम् अपि खादयति।
= माँ सब्जी भी खिलाती है।
माता ओदनम् अपि खादयति।
= माँ चावल भी खिलाती है।
ओ३म्
२५२ संस्कृत वाक्याभ्यासः
माता – उत्तिष्ठ बालक
– उत्तिष्ठ बालिके
पुत्रः – ऊँ… ऊँ … अधुना न
पुत्री – किञ्चिद् काल अनन्तरम् ।
माता – नैव , द्वौ उत्तिष्ठतम् ।
पुत्रः – अद्य शीघ्रमेव सूर्योदयः अभवत्।
माता – सूर्यः तु समये एव उदितः।
– त्वं रात्रौ विलम्बेन शयनं कृतवान्।
– एकवादन पर्यन्तं दूरदर्शनं दृष्टवान्।
पुत्रः – उत्तिष्ठामि अम्ब !
पुत्री – अहम् उत्थितवती ।
सुप्रभातम् ।
ओ३म्
२५३ संस्कृत वाक्याभ्यासः
सः प्रतिदिनं पुस्तकं पठति।
= वह हररोज पुस्तक पढ़ता है।
सः वेदान् पठितवान्।
= उसने वेद पढ़ लिये।
सः उपनिषदः पठितवान्।
= उसने उपनिषद् पढ़ लिये।
सः दर्शनानि पठितवान्।
= उसने दर्शन पढ़ लिये।
तस्य गृहे अनेकानि पुस्तकानि सन्ति।
= उसके घर में अनेक पुस्तकें हैं।
सः नूतनानि पुस्तकानि क्रीणाति एव।
= वह नई पुस्तकें खरीदता ही है।
पुस्तकानि तस्मै बहु रोचन्ते।
= पुस्तकें उसे बहुत पसन्द हैं
सम्प्रति सः आयुर्विज्ञानं पठति।
= आजकल वह आयुर्विज्ञान पढ़ रहा है।
पुस्तकानि पठित्वा सः ऊर्जां प्राप्नोति।
= पुस्तकें पढ़कर वह ऊर्जा पाता है।
पुस्तकानि पठित्वा सः ज्ञानं प्राप्नोति।
= पुस्तकें पढ़कर वह ज्ञान पाता है।
अद्य विश्वपुस्तकदिनम् अस्ति।
= आज विश्वपुस्तकदिन है।
सर्वे श्रेष्ठानि पुस्तकानि पठन्तु।
= सब श्रेष्ठ पुस्तकें पढ़ें।
ओ३म्
२५४ संस्कृत वाक्याभ्यासः
शिष्यः – आगच्छन्तु , मम गुरोः आश्रमम् ।
= आईये ,मेरे गुरुजी के आश्रम में
– अत्र पञ्चदश दिनानां ध्यानशिबिरम् अस्ति।
= यहाँ पन्द्रह दिन का ध्यान शिबिर है
– सर्वे प्रातः चतुर्वादने उत्थास्यन्ति।
= सब चार बजे उठेंगे।
सर्वान् जागरणाय शङ्खनादः करिष्यते।
= सबको जगाने के लिये शङ्खनाद किया जाएगा।
जागरण अनन्तरं सर्वे नित्यकर्म करिष्यन्ति।
= जागने के बाद सभी नित्यकर्म करेंगे।
पञ्चवादनतः ध्यानसत्रम् आरप्स्यते।
= पांच बजे से ध्यानसत्र शुरू होगा।
सप्तवादन पर्यन्तं ध्यानसत्रं चलिष्यति।
= सात बजे तक ध्यानसत्र चलेगा।
– तदनन्तरं सर्वे योगासनानि करिष्यन्ति।
= उसके बाद सभी योगासन करेंगे।
– अष्टवादने यज्ञ: भविष्यति।
= आठ बजे यज्ञ होगा।
सार्ध नववादने अल्पाहारः भविष्यति
= साढ़े नौ बजे अल्पाहार होगा।
सार्ध दशवादनतः द्वादशवादन पर्यन्तं योगदर्शनं पठिष्यामः। ( पाठयिष्यामः)
= साढ़े दस से बारह बजे तक योगदर्शन पढ़ेंगे। (पढ़ाएँगे)
– द्वादशवादनतः चतुर्वादन पर्यन्तं मौनकालः भविष्यति।
= बारह बजे से चार बजे तक मौन काल होगा।
तन्मध्ये सर्वे भोजनं करिष्यन्ति।
= उस बीच सभी भोजन करेंगे।
– स्वाध्यायं करिष्यन्ति।
= स्वाध्याय करेंगे।
ओ३म्
२५५ संस्कृत वाक्याभ्यासः
सः ओंनादं करोति।
= वह ओंनाद करता है।
एकनिमेष पर्यन्तम् ओंनादं करोति।
= एक मिनट तक ओंनाद करता है।
तस्य पुत्रः द्विनिमेष पर्यन्तम् ओंनादं करोति।
= उसका बेटा दो मिनट तक ओंनाद करता है।
सः दशवारम् आवर्तयति।
= वह दस बार दोहराता है ।
तस्य पुत्रः अपि दशवारम् आवर्तयति।
= उसका बेटा भी दस बार दोहराता है।
दशवारम् ओंनादं कृत्वा द्वौ ध्यानं कुरुतः।
= दसबार ओंनाद करके दोनों ध्यान करते हैं।
ध्यानसमये तौ कम् अपि न पश्यतः ।
= ध्यान के समय दोनों किसी को नहीं देखते हैं ।
ध्यानसमये तौ किम् अपि न पश्यतः ।
= ध्यान के समय दोनों कुछ नहीं देखते हैं ।
केवलम् ईश्वरस्य एव ध्यानं कुरुतः।
= दोनों केवल ईश्वर का ध्यान करते हैं
ध्यानेन सुखं वर्धते।
= ध्यान से सुख बढ़ता है।
ओ३म्
२५6 संस्कृत वाक्याभ्यासः
मम मित्रं सन्देशं प्रेषितवान्
= मेरे मित्र ने संदेश भेजा
प्रिय मित्र अखिलेश !
अहम् आसनसोलं गतवान् आसम्।
= मैं आसनसोल गया था।
आसनसोले मम भगिनी निवसति।
= आसनसोल में मेरी बहन रहती है
मम आवुत्तः रंगूने निवसति।
= मेरे जीजाजी रंगून में रहते हैं
मम भागिनेयः कृषिविज्ञानं पठति।
= मेरा भांजा कृषिविज्ञान पढ़ता है।
आवुत्तः रंगूनतः आसनसोलम् आगतवान्।
= जीजाजी रंगून से आसनसोल आए थे।
अतः तं मेलितुं गतवान्।
= इसलिये उन्हें मिलने गया था।
मम पुत्री अपि मया सह आसनसोलं गतवती।
= मेरी बेटी भी मेरे साथ आसनसोल गई थी।
अधुना मम पुत्री संस्कृतं पठितुम् आगमिष्यति।
= अब मेरी बेटी संस्कृत पढ़ने आएगी।
मम पुत्र्यै संस्कृतं रोचते।
= मेरी बेटी को संस्कृत अच्छी लगती है
ओ३म्
२५७ संस्कृत वाक्याभ्यासः
भीमजीभाई …. ओ भीमजीभाई
ओह … सः न श्रृणोति ।
= ओह … वह नहीं सुनता है ।
कथं श्रोष्यति ।
= कैसे सुनेगा ।
सः मार्गस्य तस्मिन् पारे अस्ति।
= वह रास्ते के उस पार है।
मार्गे बहूनि यानानि सन्ति।
= रास्ते में बहुत से वाहन हैं ।
यानानां ध्वनिः भवति।
= वाहनों की ध्वनि होती है।
अहं तम् आह्वयामि
= मैं उसको बुलाता हूँ।
उच्चै: आह्वयामि।
= जोर से बुलाता हूँ।
ध्वनिः ध्वनी ध्वनयः
= एक ध्वनि दो ध्वनियाँ बहुत सी ध्वनियाँ
साम्प्रतं तु सर्वत्र ध्वनिप्रदूषणम् अवर्धत।
= अब तो सब जगह ध्वनि प्रदूषण बढ़ गया है।
शान्तिः नास्ति।
= शान्ति नहीं है।
अस्तु , अहमेव पारं गच्छामि।
= ठीक है, मैं ही पार जाता हूँ।
भीमजी भ्रातरं मेलितुम् इच्छामि।
= भीमजीभाई को मिलना चाहता हूँ।
पारं गत्वा मिलामि।
= पार जाकर मिलता हूँ।
ओ३म्
२५८ संस्कृत वाक्याभ्यासः
नापितस्य आपणे एका महिला बालकम् आनीतवती।
= नाई की दूकान में एक महिला बच्चे को लाई।
भ्रातः ! अहं मम पुत्रम् अत्र उपावेश्य गच्छामि।
= भैया ! मैं मेरे बेटे को यहाँ बिठाकर जा रही हूँ।
एतस्य केशान् कर्तयतु।
= इसके बाल काट देना।
एक होरा अनन्तरं नेष्यामि।
= एक घंटे के बाद ले जाउँगी।
नापितः अवदत्।
= नापित बोला।
भगिनि ! एषः बहु चञ्चलतां करोति।
= बहनजी ! ये बहुत चंचलता करता है।
विगतवारं केशकर्तने बहु कष्टम् अभवत्।
= पिछली बार बाल काटने में बहुत कष्ट हुआ।
शिरं स्थिरं न स्थापयति।
= सिर सीधा नहीं रखता है।
माता बालकाय निर्देशं दत्तवती।
= माँ ने बालक को निर्देश दिया।
श्रृणु , सरलतया केशकर्तनं कारय ।
= सुनो , सीधी तरह से बाल कटवाना।
तव विषये आक्षेपं श्रोतुं न इच्छामि।
= तुम्हारे बारे में शिकायत नहीं सुनना चाहती हूँ।
अहम् आपणं गच्छामि।
= मैं बाजार जा रही हूँ।
एक होरा अनन्तरम् आगमिष्यामि।
= एक घण्टे बाद आऊँगी।
ओ३म्
२५९ संस्कृत वाक्याभ्यासः
एकस्य विवाहसमारोहः चलति।
= एक का विवाह समारोह चल रहा है
वरयात्रा निर्गच्छति ।
= बारात निकल रही है।
वादित्राः वाद्यानि वादयन्ति।
= बैंड वाले वाद्य बजा रहे हैं ।
केवलम् एकः एव युवकः नृत्यति।
= केवल एक ही युवक नाच रहा है।
वरस्य पिता अवदत्।
= वर का पिता बोला
किमर्थं सर्वे न नृत्यन्ति ?
= सभी क्यों नहीं नाच रहे हैं ?
मातुल! आगच्छतु ।
= मामाजी आईये।
मातुलानि ! आगच्छतु।
= मामीजी आईये।
मातृस्वसा ! आगच्छतु।
= मौसीजी आईये।
भ्रातः ! आगच्छतु।
= भैया ! आईये
भ्रातृजाया ! आगच्छतु।
= भाभीजी आईये।
आहा , अधुना तु सर्वे नृत्यन्ति।
आहा , अब तो सब नाच रहे हैं।
ओ३म्
२60 संस्कृत वाक्याभ्यासः
मम माता विविधप्रकाराणां संधानं निर्माति स्म।
= मेरी माँ विविध प्रकार के अचार बनाती थीं
अपक्वाम्रस्य अम्लीयं संधानम्
= कच्चे आम का खट्टा अचार
अपक्वाम्रस्य मधुरं संधानम्
= कच्चे आम का मीठा अचार।
अपक्वाम्रस्य संमृदम् ( छिन्नकम् )अपि निर्माति स्म।
= कच्चे आम का छुन्ना भी बनाती थीं
केचन जनाः श्लेष्मातकस्य संधानं निर्मान्ति।
= कुछ लोग लसोड़े का अचार बनाते हैं
मम भगिनी शाकानां संधानं निर्माति।
= मेरी जीजी सब्जियों का अचार बनाती हैं।
लशुनस्य अपि संधानं भवति।
= लहसुन का भी अचार होता है।
एकदा हिंगोः संधानं खादितवान् अहम्
= एक बार मैंने हींग का अचार खाया।
अपक्वे आम्रे हिंगू स्थाप्यते।
= कच्ची केरी में हींग डाली जाती है।
सिंधी जनाः पलाण्डोः संधानं निर्मान्ति।
= सिंधी लोग प्याज का अचार बनाते हैं
मह्यं संधानं रोचते।
= मुझे अचार पसंद है।