ओ३म्
२०१ संस्कृत वाक्याभ्यासः
शिक्षा , कल्प , निरुक्त , व्याकरण , छन्द और ज्योतिष ये छः वेदाङ्ग हैं । प्राचीन समय में इनकी विद्या को प्राप्त करना अनिवार्य था।
आज हम सभी को व्याकरण-विमुख बना दिया गया है। परन्तु व्याकरण-विमुख रह कर भी हम संस्कृताभ्यास तो कर ही सकते हैं।
प्रतिदिन के सम्वादों में एक सम्वाद या वाक्य हम सभी अवश्य बोला करते हैं
” मैं क्या करूँगा / क्या करूँगी ? ”
अहं गमिष्यामि
अहम् उद्यानं गमिष्यामि
सायंकाले अहम् उद्यानं गमिष्यामि
अहं पठिष्यामि
अहं वदिष्यामि
अहं खादिष्यामि
अहं चलिष्यामि
अहं पास्यामि = मैं पिऊँगा
अहं दास्यामि = मैं दूँगा
अहं मेलिष्यामि = मैं मिलूँगा
अहं लेखिष्यामि = मैं लिखूँगा
अहं नेष्यामि = मैं ले जाऊँगा
अहम् आनेष्यामि = मैं लाऊँगा
अहं द्रक्ष्यामि = मैं देखूँगा
अहं प्रक्ष्यामि = मैं पूछूँगा
अहं श्रोष्यामि = मैं सुनूँगा
अहं स्थापयिष्यामि = मैं रखूँगा
छोटे छोटे सरल सरल संस्कृत वाक्य बोलते जाइए , संस्कृत में पारंगत बनते जाइए।
ओ३म्
२०२ . संस्कृत वाक्याभ्यासः
माता – उत्थितवान् वत्स !
= जग गए बेटा !
पुत्रः – आम् उत्थितवान् अम्ब !
= हाँ जाग गया माँ
माता – पितुः चरणस्पर्शं कृतवान् वा ?
= पिता के पैर छुए ?
पुत्रः – आम् अम्ब !
= हाँ माँ
– भवत्याः अपि चरणस्पर्शं कृतवान् ।
= आपके भी चरण छू लिये।
माता – आं वत्स ! ज्येष्ठानां चरणस्पर्श: करणीयः ।
= हाँ बेटा , बड़ों के पैर छूने चाहिये
पुत्रः – अहं विद्यालये शिक्षिकायाः चरणस्पर्शं करोमि।
= मैं विद्यालय में शिक्षिका के चरण छूता हूँ
माता – उत्तमं बालक ।
– सुयोग्यः भव ।
माता – वत्स ! शीघ्रं स्नानं कुरु।
= बेटा ! जल्दी से नहा लो
पुत्रः – आम् अम्ब !
माता – एतद् अस्ति तव प्रौञ्छवस्त्रम्
= ये है तुम्हारी तौलिया ।
पुत्रः – आम् अम्ब ! स्थापयतु ।
= हाँ माँ ! रख दीजिये ।
– पूर्वं तैलमर्दनं करोमि।
= पहले तेलमालिश करता हूँ।
माता – सर्सवस्य तैलम् अत्र अस्ति।
= सरसों का तेल यहाँ है।
पुत्रः – आं जानामि।
= हाँ जानता हूँ।
माता – शीघ्रं कुरु , तव विद्यालयस्य समयः भविष्यति।
= जल्दी करो तुम्हारे स्कूल का समय हो जाएगा।
पुत्रः – शीघ्रमेव अम्ब !
= जल्दी से ही माँ
माता – तावद् अहं दुग्धं सिद्धं करोमि।
= तब तक मैं दूध तैयार कर देती हूँ।
पुत्रः – गोदुग्धं खलु ?
= गाय का दूध है न ?
माता – आं वत्स गोदुग्धमेव ।
= हाँ बेटा गाय का ही दूध ।
ओ३म्
२०३. संस्कृत वाक्याभ्यासः
पुत्रः – अम्ब ! अद्य शिक्षिका उत्तमां कथां पाठितवती।
= माँ , आज शिक्षिका ने अच्छी कहानी पढ़ाई।
माता – एवं वा ? का आसीत् कथा ?
= ऐसा क्या ? कौनसी कहानी थी ?
पुत्रः – ईश्वरः सर्वत्र अस्ति ।
= ईश्वर सब जगह है ।
– सः सर्वान् पश्यति।
= वह सबको देखता है ।
कथायां , एकः गुरुः शिष्येभ्यः फलं ददाति।
= कहानी में , एक गुरुजी शिष्यों को फल देते हैं ।
– गुरुः वदति ” यत्र कोsपि नास्ति तत्र गत्वा फलं खादतु।”
= गुरु बोलते हैं – जहाँ कोई नहीं है वहाँ जाकर फल खाओ।
माता – अग्रे किम् अभवत् ?
= आगे क्या हुआ ?
पुत्रः – एकः शिष्यः प्रकोष्ठे उपविष्य खादति।
= एक शिष्य कमरे में बैठकर खाता है।
– द्वितीयः वृक्षस्य उपरि आरोहति।
= दूसरा पेड़ पर चढ़ जाता है।
– तृतीयः नदीतटम् गच्छति ।
= तीसरा नदी किनारे जाता है
माता – चतुर्थः किं करोति ?
= चौथा क्या करता है ?
पुत्रः – चतुर्थः शिष्य: फलं न खादति।
= चौथा शिष्य फल नहीं खाता है ।
सः गुरुम् अवदत्
= उसने गुरु जी से कहा
ईश्वरः सर्वत्र अस्ति।
= ईश्वर सब जगह है ।
अतः अहं फलं कथं खादानि ?
= तो मैं फल कैसे खाऊँ ?
माता – बहु उत्तमा कथा आसीत् ।
= बहुत अच्छी कहानी थी ।
ओ३म्
२०४. संस्कृत वाक्याभ्यासः
पुत्रः – अम्ब ! अद्य विद्यालयः न गन्तव्यः अस्ति।
= माँ ! आज विद्यालय नहीं जाना है
माता – तर्हि गृहे एव अध्ययनं कुरु।
= तो फिर घर में अध्ययन करो।
– व्यर्थमेव समयः न यापनीयः ।
= बेकार में समय नहीं गँवाना चाहिये।
पुत्रः – अम्ब ! अहं श्लोकान् कण्ठस्थान् करोमि।
= माँ मैं श्लोक कंठस्थ कर रहा हूँ ।
माता – बहु शोभनम् ।
= बहुत अच्छा ।
– प्रातवेलायाः सदुपयोगं करोषि त्वम् ।
= प्रात: वेला का तुम सदुपयोग कर रहे हो।
पुत्रः – ददातु , अहं जलं पूरयामि।
= दीजिये मैं पानी भरता हूँ।
गीत्वा गीत्वा जलं पूरयिष्यामि
= गा गा के पानी भरूँगा ।
– श्लोकान् अपि कण्ठस्थान् करिष्यामि।
= श्लोक भी कण्ठस्थ करूँगा।
– भवत्याः अपि कार्यं भविष्यति।
= आपका भी काम हो जाएगा।
माता – उत्तमम् वत्स !
ओ३म्
२०५. संस्कृत वाक्याभ्यासः
माता – त्वं किमर्थं काससे ?
= तुम क्यों खाँस रहे हो ?
पुत्रः – एवमेव ।
= बस यूँ ही ।
माता – रात्रौ अधिकं शीतलेहं खादितवान् त्वम्।
= रात में तुमने अधिक आइसक्रीम खा ली।
– अहं निषेधयामि स्म
= मैं मना कर रही थी ।
त्वं न अमन्यथा:
= तुमने नहीं माना ।
पुत्रः – अम्ब ! एकं शीतलेहं भवत्या सह खादितवान्।
= माँ ! एक आइसक्रीम आपके साथ खाई ।
– द्वितीयं मम मित्रेण सह खादितवान्।
= दूसरी मेरे मित्र के साथ खाई।
– केवलं द्वे एव खादितवान्।
= केवल दो ही खाईं ।
माता – अधुना ऊष्णं जलं ददामि।
= अभी मैं गरम पानी देती हूँ।
– त्वं पिब ।
= तुम पीओ
– तेन कासः दूरं भवति।
= इससे खाँसी दूर होती है
ओ३म्
२०६. संस्कृत वाक्याभ्यासः
दक्षा – मम नाम दक्षा ।
रक्षा – मम नाम रक्षा ।
दक्षा – अहम् अष्टम्यां कक्षायां पठामि।
= मैं आठवीं कक्षा में पढ़ती हूँ।
रक्षा – अहम् नवम्यां कक्षायां पठामि।
= मैं नवीं कक्षा में पढ़ती हूँ।
दक्षा – अहम् अधिकं संस्कृतं न जानामि।
= मैं अधिक संस्कृत नहीं जानती हूँ।
रक्षा – अहम् अपि अधिकं संस्कृतं न जानामि।
= मैं भी अधिक संस्कृत नहीं जानती हूँ।
दक्षा – अहं प्रतिदिनम् अभ्यासं करोमि।
= मैं रोज अभ्यास करती हूँ।
रक्षा – अहमपि प्रतिदिनम् अभ्यासं करोमि।
= मैं भी रोज अभ्यास करती हूँ।
दक्षा – शोभनं , त्वं मम मित्रम् असि।
= बढ़िया , तुम मेरी मित्र हो ।
रक्षा – आम् , अहं तव सखी अस्मि।
= हाँ , मैं तुम्हारी सखी हूँ।
ओ३म्
२०७. संस्कृत वाक्याभ्यासः
दक्षा – नमो नमः ।
रक्षा – नमो नमः भगिनि !
दक्षा – कथम् अस्ति ?
रक्षा – सम्यक् ।
– भवती कथम् अस्ति ?
दक्षा – अहमपि सम्यक् ।
रक्षा – गृहकार्यम् अभवत् वा ?
= होमवर्क हो गया ?
दक्षा – न , गणितस्य अवशिष्टम् ।
= नहीं गणित का रह गया है।
रक्षा – ममापि गणितस्य अवशिष्टम् ।
= मेरा भी गणित का रह गया ।
दक्षा – तर्हि आगच्छ , आवां द्वौ कुर्वः ।
= तो फिर आओ , हम दोनों करते हैं।
रक्षा – अहं तदर्थमेव अत्र आगतवती ।
= मैं इसीलिये यहाँ आई थी।
ओ३म्
२०८. संस्कृत वाक्याभ्यासः
रक्षा – अद्य अहं गृहकार्यं कृतवती।
= आज मैंने होमवर्क कर लिया।
दक्षा – आम् , अहमपि ।
= हाँ , मैंने भी ।
रक्षा – अद्य तु पाठम् अपि स्मृतवती ।
= मैंने तो पाठ भी याद कर लिया।
दक्षा – अहं तु अर्धं स्मृतवती।
= मैंने तो आधा याद किया।
रक्षा – शनैः शनैः कण्ठस्थं करणीयम्।
= धीरे धीरे कण्ठस्थ करना चाहिये।
दक्षा – अहं तु उद्याने भ्रमन् स्मरामि।
= मैं तो बगीचे में घूमते हुए याद करती हूँ।
रक्षा – काव्यं तु वारं वारं गायामि ।
= कविता तो बार गाती हूँ।
– तेन बहु शीघ्रमेव स्मर्यते।
= उससे बहुत जल्दी याद होता है ।
दक्षा – आं श्लोकान् तु तथैव स्मरामि।
= हाँ , श्लोक तो वैसे ही याद करती हूँ।
रक्षा – चल , विद्यालयं चलावः ।
= चलो विद्यालय चलते हैं।
दक्षा – अहं तु पादाभ्यां गमिष्यामि।
= मैं तो पैदल जाऊँगी।
रक्षा – अहमपि पादाभ्यां गन्तुम् इच्छामि।
= मैं भी पैदल जाना चाहती हूँ।
ओ३म्
२०९. संस्कृत वाक्याभ्यासः
रक्षा – शुभजन्मदिनं दक्षा भगिनि !
दक्षा – धन्यवादः
रक्षा – अद्य किं करिष्यति ?
दक्षा – प्रातः अहं यज्ञं कृतवती ।
– अधुना अहं धेनुभ्यः तृणं दास्यामि।
= अभी मैं गायों को घास दूँगी ।
– मम पित्रा सह कारागारं गमिष्यामि।
= मेरे पिताजी के साथ जेल जाऊँगी
रक्षा – किमर्थं कारागारम् ?
= जेल क्यों ?
– तत्र बन्दिनः निवसन्ति ।
= वहाँ कैदी रहते हैं
दक्षा – बन्दिभि: सह देशभक्ति गीतानि गास्यामि।
= कैदियों के साथ देशभक्ति गीत गाऊँगी ।
– मम पिता तत्र सदाचारविषये प्रवचनं दास्यति।
= मेरे पिताजी सदाचार विषय पर प्रवचन देंगे।
रक्षा – बहु शोभनम् , अहमपि चलितुम् इच्छामि।
= बहुत बढ़िया , मैं भी चलना चाहती हूँ।
दक्षा – आम् अवश्यमेव चल ।
= हाँ अवश्य चलो।
ओ३म्
२१०. संस्कृत वाक्याभ्यासः
लक्ष्मण ! ओ …. लक्ष्मण !!
लक्ष्मण: – कः आह्वयति ?
= कौन बुला रहा है ?
भरतः – अहम् अस्मि ।
= मैं हूँ ।
लक्ष्मण: – रवः तु भरतस्य। कुत्र अस्ति सः ?
= आवाज तो भरत की है । कहाँ है वह ?
भरतः – उपरि अस्मि , तृतीये अट्टे।
= यहाँ हूँ तीसरी मंजिल पर ।
– आगच्छतु उपरि।
= आईये ऊपर।
लक्ष्मण: – आम् , आम् आगच्छामि।
= हाँ हाँ आता हूँ।
भरतः – स्वागतं भ्रातः ! एषः मम कार्यालयः ।
= स्वागत है भैया , ये है मेरा कार्यालय।
– अत्र अहं कार्यं करोमि।
= यहाँ मैं काम करता हूँ।
लक्ष्मण: – किं कार्यं करोति भवान्।
= आप क्या काम करते हैं ?
भरतः – कृषकानां बालकेभ्यः वयं कृषिकार्यार्थं प्रेरयामः।
= किसानों के बच्चों को हम कृषि काम के लिये प्रेरित करते हैं
– नूतनां पद्धतिं वयं पाठयामः।
= नई पद्धति हम पढ़ाते हैं
लक्ष्मण: – एतद् तु बहु उत्तमं कार्यम् अस्ति।
= यह तो बहुत ही अच्छा काम है ।
ओ३म्
२११. संस्कृत वाक्याभ्यासः
लक्ष्मणः – नमस्ते भरत !
भरतः – नमस्ते लक्ष्मण !
लक्ष्मणः – कति युवकाः आगच्छन्ति ?
= कितने युवक आते हैं ?
भरतः – सप्तविंशतिः युवकाः आगच्छन्ति।
= सत्ताईस युवक आते हैं ।
– द्वादश युवत्यः अपि आगच्छन्ति।
= बारह युवतियाँ भी आती हैं
लक्ष्मणः – सर्वे कृषिकलां पठितुम् आगच्छन्ति वा ?
= सभी कृषिकला पढ़ने आती हैं
भरतः – आम् ,
लक्ष्मणः – कदा आगच्छन्ति ?
= कब आते हैं ?
भरतः – केचन प्रातः आगच्छन्ति ।
= कुछ सुबह आते हैं ।
– केचन सायंकाले आगच्छन्ति।
= कुछ शाम को आते हैं ।
लक्ष्मणः – कुतः आगच्छन्ति ?
= कहाँ से आते हैं ?
भरतः – ग्रामात् आगच्छन्ति।
= गाँव से आते हैं ।
( ग्रामेभ्यः आगच्छन्ति । – बहुवचन)
ओ३म्
२१२. संस्कृत वाक्याभ्यासः
अद्य सा टंकारां गमिष्यति।
सः अपि अद्य टंकारां गमिष्यति।
श्वः महाशिवरात्रि: अस्ति।
श्वः बोधरात्रि: अस्ति।
टंकारा ऋषि-दयानन्दस्य जन्मभूमिः अस्ति।
टंकारायाम् अद्य अपि यज्ञ: भवति ।
श्व: अपि भविष्यति।
तत्र प्रतिदिनं यज्ञ: भवति।
अनेके विद्वान्सः आगमिष्यन्ति ।
अनेके सन्यासिनः आगमिष्यन्ति ।
भवान् अपि गच्छतु
भवती अपि गच्छतु ।
सः ध्यानं करोति ।
सः ध्यायति ।
सा ध्यानं करोति।
सा ध्यायति ।
अहं ध्यानं करोमि ।
अहं ध्यायामि ।
ओ३म्
२१३. संस्कृत वाक्याभ्यासः
हिमांशु: – प्रत्यागतवान् ?
= लौट आए ?
लोकेशः – आम् प्रत्यागतवान् ।
= हाँ लौट आया ।
हिमांशु: – कदा प्रत्यागतवान् ?
= कब लौटे ?
लोकेशः – ह्य: रात्रौ ।
= कल रात ।
हिमांशु: – ह्यः !! कस्मिन् समये ?
= कल !!! किस समय ?
लोकेशः – रात्रौ सार्ध द्वादशवादने ।
= रात साढ़े बारह बजे।
हिमांशु: – ओह तदा अहं शयनं करोमि स्म।
= ओह तब मैं सो रहा था।
– प्रतीकः अपि आगतवान् वा ?
= प्रतीक भी आ गया क्या ?
लोकेशः – न , प्रतीकः तु पूनां गतवान् ।
= नहीं प्रतीक तो मुम्बई गया।
हिमांशु: – प्रतीकः कदा आगमिष्यति ?
= प्रतीक कब आएगा ?
लोकेशः – प्रतीकः शुक्रवासरे आगमिष्यति।
= प्रतीक शुक्रवार को आएगा।
ओ३म्
२१४. संस्कृत वाक्याभ्यासः
लोकेशः – अद्य सायम् अहं चिकित्सालयं गमिष्यामि।
= आज शाम को मैं अस्पताल जाऊँगा।
हिमांशु: – किमर्थम् ?
= क्यों ?
लोकेशः – प्रतीकस्य माता चिकित्सालये प्रविष्टा अस्ति।
= प्रतीक की माँ अस्पताल में भर्ती हैं
हिमांशु: – अहमपि चलिष्यामि।
= मैं भी चलूँगा।
– तां किम् अभवत् ?
= उनको क्या हो गया ?
लोकेशः – सा गृहे कार्यं कुर्वती आसीत् ।
= वो घर में काम कर रही थी ।
– भूमौ जलम् आसीत् ।
= भूमि पर पानी था ।
– सा पतितवती ।
= वो गिर गई ।
– तस्याः पादस्य अस्थि: भग्ना जाता।
= उसके पैर की हड्डी टूट गई है।
हिमांशु: – ओह , कष्टप्रदम् ।
लोकेशः – सत्यमेव कष्टप्रदम् ।
ओ३म्
२१५. संस्कृत वाक्याभ्यासः
हिमांशु: – कथम् अस्ति भवतः माता ?
= कैसी हैं आपकी माँ ?
प्रतीकः – आम् , अधुना तु विश्रामं करोति।
= हाँ , अभी तो विश्राम कर रही हैं ।
लोकेशः – तस्याः अस्थि: संयुक्ता वा ?
= उनकी हड्डी जुड़ गई ?
प्रतीकः – आम् अद्य प्रातः अस्थिचिकित्सकः संयुक्तं कृतवान् ।
= हाँ आज सुबह हड्डियों के डॉक्टर ने जोड़ दी।
हिमांशु: – चलनार्थम् अनुमतिं कदा दास्यति?
= चलने की अनुमति कब देंगे ?
प्रतीकः – अधुना तु पादे पट्टं बद्धितम् अस्ति।
= अभी तो पैर में पट्टा बँधा है।
– पट्टम् उद्घाटयिष्यति अनन्तरं वदिष्यति।
= पट्टा खोलेगा बाद में कहा जाएगा
लोकेशः – मम किमपि कार्यम् अस्ति चेत् अवश्यमेव वदतु।
= मेरा कुछ भी काम है तो अवश्य बोलना।
प्रतीकः – अवश्यं वदिष्यामि।
= जरूर कहूँगा।
हिमांशु: – चिकित्सालयतः कदा मुक्तिं प्राप्स्यति ?
= अस्पताल से कब छुट्टी पाएँगी ?
प्रतीकः – परश्वः प्राप्स्यति।
= परसों पाएँगी ।
ओ३म्
२१६. संस्कृत वाक्याभ्यासः
सः मया सह अस्ति ।
सः मया सह उपविशति।
सः वदति अहं लिखामि
सः यथा वदति तथैव अहं लिखामि।
सः यदा वदति तदा अहं लिखामि।
सः यावद् वदति तावद् अहं लिखामि।
अद्य आदिनं सः वदिष्यति ।
अद्य आदिनम् अहं लेखिष्यामि।
ओ३म्
२१७. संस्कृत वाक्याभ्यासः
सः मया सह आसीत् ।
सः मया सह उपविष्टः आसीत् ।
सः उक्तवान् अहं लिखितवान्।
सः यथा उक्तवान् तथैव अहं लिखितवान्
सः यदा उक्तवान् तदा अहं लिखितवान्
सः यावद् उक्तवान् तावद् अहं लिखितवान्
ह्यः आदिनं सः उक्तवान्।
ह्यः आदिनम् अहं लिखितवान् ।
ओ३म्
२१८. संस्कृत वाक्याभ्यासः
गतदिने अहम् एकम् उद्यानं गतवान् ।
= कल मैं एक बगीचे में गया था ।
तत्र अनेके बालकाः क्रीडन्ति स्म ।
= वहाँ अनेक बच्चे खेल रहे थे।
उद्यानस्य कोणे एकं कपोतगृहम् आसीत्।
= बगीचे के कोने में एक कबूतर घर था।
अनेके कपोताः कपोतगृहे निवसन्ति।
= अनेक कबूतर कबूतर घर में रहते हैं।
जनाः कपोतेभ्यः अन्नकणान् ददति।
= लोग कबूतरों को दाने देते हैं ।
कपोताः अन्नकणान् खादन्ति।
= कबूतर दाने खाते हैं।
भूमौ जलम् अपि अस्ति।
= भूमि पर पानी भी है।
कपोताः जलं पिबन्ति।
= कबूतर पानी पीते हैं ।
कपोताः स्नानम् अपि कुर्वन्ति।
= कबूतर स्नान भी करते हैं।
सायंकाले कपोताः स्वगृहे निवसन्ति।
= शाम को कबूतर अपने घर रहते हैं।
ओ३म्
२१९. संस्कृत वाक्याभ्यासः
संस्कृतभाषा प्राचीनतमा भाषा अस्ति।
= संस्कृत भाषा प्राचीनतम भाषा है ।
वैदिकं वाङ्गमयं प्राचीनतमम् अस्ति ।
= वैदिक वाङ्गमय प्राचीनतम है।
सर्वासां भाषाणां जननी संस्कृतमेव।
= संस्कृत ही सभी भाषाओं की जननी है
भारतीय-भाषासु अनेके संस्कृत-शब्दाः सन्ति।
= भारतीय भाषाओं में अनेक संस्कृत शब्द हैं।
पूर्वं सामग्रे विश्वे संस्कृतमेव प्रचलति स्म।
= पहले सारे विश्व में संस्कृत ही चलती थी।
संस्कृतभाषा समृद्घा भाषा अस्ति।
= संस्कृत भाषा समृद्ध भाषा है।
पुरातनानि ताड़पत्राणि मिलन्ति।
= पुराने ताड़पत्र मिलते हैं।
ताड़पत्रेषु संस्कृतभाषायां लिखितं भवति।
= ताड़पत्रों पर संस्कृत में ही लिखा होता है।
राज्ञां महाराज्ञां अपि भाषा संस्कृतमेव आसीत्।
= राजाओं महाराजाओं की भी भाषा संस्कृत ही थी।
संस्कृतम् अस्माकं प्रिया भाषा अस्ति।
= संस्कृत हमारी प्रिय भाषा है।
ओ३म्
२२०. संस्कृत वाक्याभ्यासः
वस्त्रं मलिनम् अस्ति ।
= कपड़ा गन्दा है।
स्वच्छं करोतु ।
= साफ करिये।
हस्तं मलिनम् अस्ति।
= हाथ मैला है ।
प्रक्षालयतु।
= धो दीजिये ।
हस्तौ मलिनौ स्तः ।
= दोनों हाथ मैले हैं ।
प्रक्षालयतु।
= धो दीजिये ।
गृहम् अस्वच्छम् अस्ति ।
= घर अस्वच्छ है।
स्वच्छं करोतु ।
= साफ करिये।
जलं क्लिन्दम् अस्ति।
= पानी गन्दा है ।
जलं शोधयतु
= पानी छान दीजिये ( शुद्ध कर दीजिये)
समाजे दूषणम् अस्ति ।
= समाज में दूषण है
ज्ञानं ददातु ।
= ज्ञान दीजिये।
मनः अपवित्रम् अस्ति।
= मन अपवित्र है।
स्वाध्यायं करोतु।
= स्वाध्याय करिये।
सत्सङ्गतिं करोतु।
= सत्संगति करिये।
ओ३म्
२२१. संस्कृत वाक्याभ्यासः
न ..न.. न… द्वारं मा पिधायतु।
= नहीं दरवाजा बंद मत करो
मूषकं बहिः गच्छतु नाम।
= चूहे को बाहर जाने दो।
पश्यतु तत्र अस्ति
= देखो वहाँ है ।
कुत्र ???
कपाटिकायाः अधः …
= अलमारी के नीचे …
ओह … ततः तु अग्रे गतः
= ओह …. वहाँ से तो आगे चला गया
पर्यंकस्य अधः अस्ति।
= पलंग के नीचे है।
दण्डेन नुदतु
= लाठी से धकेलो
ओह … सः तु पाकशालां गतः
= ओह … वह तो रसोई में गया
पाकशालायाः द्वारम् उद्घाटितम् अस्ति
= रसोई का दरवाजा खुला है।
पुनः एकवारं नुदतु।
= फिर से एक बार धकेलो
उत्तमं … मूषकः बहिः गतः ।
= बढ़िया जी …. चूहा बाहर गया ।
ओ३म्
२२२. संस्कृत वाक्याभ्यासः
मार्गे अस्मि।
= रास्ते में हूँ।
यानं चालयामि।
= गाड़ी चला रहा हूँ।
सः अपि यानं चालयति।
= वह भी गाड़ी चला रहा है।
सा अपि यानं चालयति ।
= वह भी गाड़ी चला रही है।
मार्गे निर्माणकार्यं चलति।
= रास्ते में निर्माणकार्य चल रहा है।
सर्वे यानचालने कष्टम् अनुभवन्ति।
= सभी वाहन चलाने में कष्ट अनुभव कर रहे हैं
इतः अपि यानानि गच्छन्ति ।
= यहाँ से भी वाहन जा रहे हैं ।
ततः अपि यानानि आगच्छन्ति ।
= वहाँ से भी वाहन आ रहे हैं ।
मार्गे अनेके अवरोधाः सन्ति।
= रास्ते में अनेक अवरोध हैं
तथापि गन्तव्यं तु अस्ति।
= फिर भी जाना तो है ।
कथञ्चिद्पि मार्गः पारणीयः ।
= कैसे भी करके रास्ता पार करना है
कोsपि न विरमति।
= कोई नहीं रुक रहा है।
ओ३म्
२२३. संस्कृत वाक्याभ्यासः
उत्पीठिका = टेबल
स्वागतकक्षे उत्पीठिका अस्ति।
= स्वागतकक्ष में टेबल है।
उत्पीठिकायां पुष्पाधानी अस्ति।
= टेबल पर फूलदान है
पुष्पाधान्यां पुष्पाणि सन्ति।
= फूलदान में फूल हैं ।
विविधानि पुष्पाणि सन्ति।
= विविध फूल हैं ।
एका बालिका सर्वेषां स्वागतं करोति।
= एक बच्ची सबका स्वागत कर रही है
तस्याः हस्ते एका स्थालिका अस्ति।
= उसके हाथ में एक थाली है।
स्थालिकायां पुष्पाणि , अक्षतं , तिलकं च अस्ति।
= थाली में फूल , अक्षत और तिलक हैं ।
सा बालिका सर्वान् तिलकं करोति।
= वह बच्ची सबको तिलक करती है।
सर्वेषाम् उपरि पुष्पवर्षां करोति
= वह सबके ऊपर पुष्पवर्षा करती है।
सा बालिका स्वस्तिवाचनं गायति
= वह बालिका स्वस्तिवाचन गाती है।
ओं स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्तिः नस्तार्क्ष्यो अरिष्टनेमि: स्वस्ति नो बृहस्पतिः ददातु।
ओ३म्
२२४. संस्कृत वाक्याभ्यासः
सः व्यजनं न इच्छति ।
= वह पंखा नहीं चाहता है।
अहं व्यजनं इच्छामि।
= मैं पंखा चाहता हूँ।
सः वातानुकूलम् इच्छति।
= वह ए. सी. चाहता है।
अहं वातानुकूलं न इच्छामि।
= मैं ए. सी. नहीं चाहता हूँ।
वातानुकूलिते वातावरणे मां निद्रा न आगच्छति।
= ए. सी. के वातावरण में मुझे नींद नहीं आती।
व्यजनं चलति तर्हि तं निद्रा न आगच्छति।
= पंखा चलता है तो उसको नींद नहीं आती है ।
अस्तु अहं बहिः शयनं करोमि।
= ठीक है मैं बाहर सोता हूँ ।
प्रकोष्ठात् बहिः तु मषकाः सन्ति।
= कमरे से बाहर तो मच्छर हैं
अन्तः एव शयनं करोमि।
= अंदर ही सोता हूँ।
ओ३म्
२२५. संस्कृत वाक्याभ्यासः
अत्र मा पठतु ।
= यहाँ मत पढ़िये ।
अत्र पर्णानि पतन्ति।
= यहाँ पत्ते गिरते हैं।
अधुना पर्णाझर-ऋतुः अस्ति।
= अभी पतझड़ ऋतु है
शुष्कानि पर्णानि वृक्षात् पतन्ति।
= सूखे पत्ते पेड़ से गिरते हैं ।
अत्र छाया अपि न मिलति।
= यहाँ छाया भी नहीं मिलती है
पर्णानि अपि पतन्ति।
= पत्ते भी गिरते हैं
अतः अध्य्यनं कर्तुं न शक्ष्यति।
= अतः अध्ययन नहीं कर पाओगे।
विद्यालयस्य दीर्घां चलावः
= विद्यालय की लॉबी में चलते हैं
तत्र छाया अस्ति।
= वहाँ छाया है ।
शान्तिः अपि अस्ति।
= शान्ति भी है ।
ओ३म्
२२६. संस्कृत वाक्याभ्यासः
गतदिने तु सा रुष्टा आसीत् ।
= कल तो वह रूठी हुई थी।
अद्य प्रसन्ना अस्ति।
= आज खुश है ।
गतसायं दुग्धं छिन्नं जातम् ।
= कल शाम दूध फट गया था।
मम हस्तात् किञ्चित् दधिः पतितम्।
= मेरे हाथ से थोड़ी दही गिर गई।
न जानामि कथं पतितम्।
= नहीं पता कैसे गिर गई ।
रात्रौ दुग्धछिन्नके गुडं मेलयित्वा अहं खादितवान् ।
= रात में फटे दूध में गुड मिलाकर मैंने खा लिया।
अद्य प्रातः नवं दुग्धम् आनीतवान्।
= आज सुबह ताजा दूध लाया।
क्वथनं कृत्वा स्थापितवान्।
= उबालकर रख दिया।
तां सूचितवान्।
= उसको बता दिया।
सा दृष्टवती ।
= उसने देख लिया।
सा प्रसन्ना जाता।
= वह खुश हो गई।
ओ३म्
२२७. संस्कृत वाक्याभ्यासः
भवतः मुखं तत्र अस्ति
= आपका मुख वहाँ है
अग्रे दृष्ट्वा यानं चालयतु ।
= आगे देखकर वाहन चलाईये
ध्यानं यानचालने एव भवेत्
= ध्यान वाहन चलाने पर ही रहे
यदा यानं चालयति तदा अन्यं कार्यं मा करोतु
= जब वाहन चलाते हैं तब अन्य काम न करें
चलभाषेण वार्तालापः न करणीयः।
= मोबाइल से बातचीत नहीं करनी चाहिये ।
याने चलचित्रं न द्रष्टव्यम्।
= वाहन में फ़िल्म नहीं देखनी चाहिये।
अत्र तत्र न द्रष्टव्यम्।
= यहाँ वहाँ नहीं देखना चाहिये
धूम्रपानं मा कुर्वन्तु।
= धूम्रपान न करें ।
मद्यपानं मा कुर्वन्तु।
= मद्यपान न करें ।
कारयाने पट्टम् अवश्यमेव बध्नातु ।
= कार में बेल्ट अवश्य बाँधिये।
यात्रा सर्वदा सुखेन करणीया ।
= यात्रा हमेशा सुख से करें ।
ओ3म्
२२८. संस्कृताभ्यासः
अद्य रविवासरः अस्ति।
= आज रविवार है।
रविवासरे किं करणीयम् ?
= रविवार को क्या करना चाहिए ?
रविवासरे यज्ञरू करणीयः।
= रविवार को यज्ञ करना चाहिये।
रविवासरे स्वाध्यायः करणीयः।
= रविवार को स्वाध्याय करना चाहिये।
रविवासरे संस्कृतं पठनीयम्।
= रविवार को संस्कृत पढ़नी चाहिये।
रविवासरे संस्कृत-सम्भाषणं करणीयम्।
= रविवार को संस्कृत में बातचीत करनी चाहिये।
ओ3म्
२२९. संस्कृत वाक्याभ्यासः
मह्यं भोजनं देहि।
= मुझे भोजन दो।
मह्यं भोजनं ददातु।
= मुझे भोजन दीजिये।
भोजनं बहु स्वादिष्टम् अस्ति।
= भोजन बहुत स्वादिष्ट है।
भवान् / भवती अपि खादतु।
= आप भी खाईये।
त्वम् अपि खाद।
= तुम भी खाओ।
अलाबोरू शाकम् इच्छामि।
= लौकी का शाक चाहिये।
न न अद्य पिष्टकम् न इच्छामि।
= नहीं आज पकौड़ा नहीं चाहता हूँ।
पिष्टकम् = पकौड़ा।
पिष्टकानि = पकौड़े।
ओ३म्
२३०. संस्कृत वाक्याभ्यासः
अत्र = यहाँ
तत्र = वहाँ
यत्र = जहाँ
कुत्र = कहाँ
सर्वत्र = सब जगह
अन्यत्र = और कहीं
अत्र आम्रफलम् अस्ति।
तत्र कदलीफलम् अस्ति।
यत्र बदरीफलम् अस्ति तत्रैव नारंगफलम् अस्ति।
स्वादुफलं कुत्र अस्ति ?
कर्मफलं सर्वत्र अस्ति।
आनन्दः सर्वत्र अस्ति।