००१६ सरल संस्कृत अनुवाद अभ्यास पाठ १६१ से २००

0
265

ओ३म्

161. संस्कृत वाक्याभ्यासः

सज्जता अभवत् ।
= तैयारी हो गई ।

मन्दिरस्य प्राङ्गणे स्वच्छता अभवत्।
= मन्दिर के मैदान में स्वच्छता हो गई ।

गोमयस्य अपूपानि आनीतानि।
= गोबर के उपले ले आए ।

गोमयअपूपैः होलिकां निर्मितवन्तः।
= गोबर के उपलों से होली बनाई है।

सायंकाले रङ्गावलीं करिष्यामः।
= शाम को रंगोली करेंगे।

सायम् अनेके जनाः आगमिष्यन्ति।
= शाम को अनेक लोग आएँगे।

वयं वेदपाठं करिष्यामः।
= हम वेदपाठ करेंगे।

होलिकां प्रज्ज्वालयिष्यामः।
= होली प्रज्ज्वलित करेंगे।

प्रह्लादः ईश्वरभक्तः आसीत् ।
= प्रह्लाद ईश्वर भक्त थे।

होलिका तं मारयितुम् इच्छति स्म।
= होलिका प्रह्लाद को मारना चाहती थी।

प्रह्लादस्य रक्षणं जातम्।
= प्रह्लाद की रक्षा हो गई।

होलिका ज्वलिता जाता
= होली जल गई।

होलिकायां नवान्नम् अपि आहूयते।
= होली में नया अन्न भी डाला जाता है।

सर्वेभ्यः होलिकोत्सवस्य मङ्गलकामनाः

ओ३म्

162. संस्कृत वाक्याभ्यासः

सः अनन्तः

द्वौ हस्तौ पृष्ठे कृत्वा तिष्ठति।

सः आशीषः

द्वौ हस्तौ पृष्ठे कृत्वा तिष्ठति।

सा अनामिका

द्वौ हस्तौ पृष्ठे कृत्वा तिष्ठति।

अहमपि द्वौ हस्तौ पृष्ठे कृत्वा तिष्ठामि।

अनन्तस्य हस्ते तुषारिणी अस्ति।
= अनन्त के हाथ में पिचकारी है ।

अनामिकायाः हस्ते अपि तुषारिणी अस्ति।

आशीषस्य हस्ते गुलालम् अस्ति।

मम हस्ते अपि गुलालम् अस्ति।

सर्वे न जानन्ति कस्य हस्ते किम् अस्ति !!!

सर्वे एकसाकं सर्वेषाम् उपरि वर्णवर्षां कुर्वन्ति।

होलिका अस्ति , अप्रसन्नः मा भवतु।

ओ३म्

163. संस्कृत वाक्याभ्यासः

यजमानः – आनय ।
= लाओ ।

अतिथिः – किम् ?
= क्या ?

यजमानः – अहं मम पुत्रीं वदामि।
= मैं मेरी बेटी को कह रहा हूँ।

अतिथिः – एवं वा ?
= ऐसा क्या ?

( पुत्री आधारे अल्पाहारं , फलरसं च आनयति
= बेटी ट्रे पर अल्पाहार और फल का रस लाती है )

अतिथिः – ओह एषा लघु बालिका …. आनयति ।
= ओह , ये छोटी बच्ची …. ला रही है।

यजमानः – आम् , एषा तृतीयायां कक्षायां पठति।
= हाँ , ये तीसरी कक्षा में पढ़ती है।

– मम गृहे अतिथीनां सत्कारम् एषा एव करोति।
= मेरे घर में अतिथियों का सत्कार ये ही करती है ।

अतीथिः – किं नाम तव ?
= तुम्हारा नाम क्या है ?

पुत्री – मम नाम माला ।
= मेरा नाम माला ।

– भवतः नाम किम् ?
= आपका नाम क्या है ?

अतीथिः – मम नाम वेदप्रकाशः ।
= मेरा नाम वेदप्रकाश है।

– त्वं सुन्दरं सम्वादं करोषि।
= तुम सुन्दर सम्वाद करती हो ।

पुत्री – धन्यवादः ।

ओ३म्

164. संस्कृत वाक्याभ्यासः

भवनम् = बिल्डिंग

भवनानि = बिल्डिंग्स

अहं भवनं पश्यामि।
= मैं बिल्डिंग देख रहा हूँ।

अत्र अनेकानि उन्नतानि भवनानि सन्ति।
= यहाँ अनेक ऊँची बिल्डिंग्स हैं।

भवने कति अट्टाः (तलाः ) सन्ति।
= बिल्डिंग में कितने तल हैं ।

अहं गणयामि।
= मैं गिन रहा हूँ।

एकम्

द्वे

त्रीणि

चत्वारि

पञ्च

षड्

सप्त

अष्ट

नव

दश

भवने दश अट्टाः (तलाः ) सन्ति।
= भवन में दस तल हैं।

कुत्रचित् विंशतिः तलाः अपि सन्ति।
= कहीं पर बीस तल भी हैं ।

एकादश

द्वादश

त्रयोदश

चतुर्दश

पञ्चदश

षोडश

सप्तदश

अष्टादश

नवदश

विंशतिः

ओ३म्

165. संस्कृत वाक्याभ्यासः

क्षम्यताम् = क्षमा करियेगा ।

क्षमां याचे = क्षमा चाहता हूँ।

अद्य मध्याह्ने लिखामि।
= आज दोपहर में लिख रहा हूँ।

प्रातः न लिखितवान् अहम्।
= सुबह मैंने नहीं लिखा।

यदाकदा विलम्बः भवति।
= कभीकभी देर हो जाती है।

अद्य प्रातः बहु श्रमं कृतवान् ।
= आज सुबह बहुत श्रम किया।

गृहात् बहिः अस्वच्छता आसीत्।
= घर से बाहर अस्वच्छता थी।

सर्वं स्वच्छं कृतवान्।
= सब साफ किया।

नालिकायां जलम् अवरुद्धम् आसीत्।
= नाली में पानी रुका हुआ था।

जलं बहिः न गच्छति स्म।
= पानी बाहर नहीं जा रहा था।

नालिकां स्वच्छां कृतवान्।
= नाली साफ की।

नालिकायाः अन्तः पर्णानि आसन्।
= नाली के अन्दर पत्ते थे।

पर्णानि बहिः निष्कासितानि। ( निष्कासितवान् )
= पत्ते बाहर निकाल दिये ।

ओ३म्

166. संस्कृत वाक्याभ्यासः

तस्य अपि गृहात् बहिः अस्वच्छता अस्ति।
= उसके भी घर के बाहर अस्वच्छता है ।

अद्य सः स्वच्छतां करोति।
= आज वह स्वच्छता कर रहा है

हस्ते मार्जनीं स्वीकृत्य स्वच्छतां करोति।
= हाथ में झाड़ू लेकर सफाई कर रहा है।

वस्त्रेण भित्तिं स्वच्छां करोति।
= कपड़े से दीवाल साफ कर रहा है

अङ्गणे बहूनि पर्णानि सन्ति।
= आँगन में बहुत से पत्ते हैं

सः पर्णानि एकस्मिन् भाण्डे पूरयति।
= वह पत्तों के एक डिब्बे में भरता है।

दूरं गत्वा सः क्षिप्स्यति।
= दूर जाकर फेंक देगा।

वातायनानि अपि मालिनानि सन्ति।
= खिड़कियाँ भी मैली हैं।

सः वातायनानि स्वच्छानि करोति।
= वह खिड़कियाँ साफ कर रहा है।

कार्यं समाप्य सः स्नानं करिष्यति।
= काम समाप्त करके वह नहाएगा।

अनन्तरं कार्यालयं गमिष्यति।
= बाद में ऑफिस जाएगा।

ओ३म्

167. संस्कृत वाक्याभ्यासः

प्रातः चतुर्वादने कन्यायाः आप्रच्छनं भवति
= सुबह चार बजे कन्या की बिदाई होती है।

कन्या बहु रोदिति।
= कन्या बहुत रोती है ।

कन्यायाः माता अपि रोदिति।
= कन्या की माँ भी रोती है

कन्यायाः पिता अपि रोदिति।
= कन्या का पिता भी रोता है।

कन्या मातरम् आलिङ्गति ।
= कन्या माँ को गले लगती है।

कन्या पितरम् आलिङ्गति ।
= कन्या पिता को गले लगती है।

कन्यायाः मातृस्वसा अश्रूणि प्रवाहयति।
= कन्या की मौसी आँसू बहाती है।

मतुलः एकस्मिन् कोणे स्थित्वा रोदिति।
= मामा एक कोने में खड़ा होकर रोता है

भ्राता भगिन्याः अश्रूणि प्रौञ्छति।
= भाई बहन के आँसू पोंछता है।

भ्राता अपि रोदिति।
= भाई भी रोता है।

कन्यायाः आप्रच्छन समये सर्वे रुदन्ति ।
= कन्या की बिदाई के समय सब रोते हैं।

ओ३म्

168. संस्कृत वाक्याभ्यासः

सा महिला अस्ति ।

सा विदेशमन्त्रिणी अस्ति ।

सा महिला अस्ति ।

सा वित्तकोषस्य प्रबन्धनिदेशिका अस्ति।
( मैनेजिंग डायरेक्टर )

सा महिला अस्ति ।

सा चिकित्सिका अस्ति ।

सा शिक्षिका अस्ति।

सा उद्योगस्वामिनी अस्ति।
( इंडस्ट्रियलिस्ट )

सा विमानचालिका अस्ति ।

सा अभियन्त्रिणी अस्ति।
( इंजीनियर )

सा लेखापरीक्षिका अस्ति।
( सी. ए. )

सा गृहिणी अस्ति ।

अद्य महिलादिनम् अस्ति।

महिलादिनस्य सर्वेभ्यः/ सर्वाभ्यः शुभकामनाः ।

ओ३म्

169. संस्कृत वाक्याभ्यासः

वर्धते = बढ़ता है

वर्धन्ते = बढ़ते हैं

ध्यानेन स्मृतिः वर्धते।
= ध्यान से स्मृति बढ़ती है।

अध्ययनेन ज्ञानं वर्धते।
= अध्ययन से ज्ञान बढ़ता है।

वार्तालापेन स्नेहः वर्धते।
= वार्तालाप से स्नेह बढ़ता है।

स्नेहेन मैत्री वर्धते।
= स्नेह से मैत्री बढ़ती है ।

मम पुत्री सेवां कर्तुम् अग्रे वर्धते
= मेरी बेटी सेवा के लिये आगे बढ़ती है

जनाः शीघ्रं शीघ्रम् अग्रे वर्धन्ते।
= लोग जल्दी जल्दी आगे बढ़ते हैं

भोजनं दृष्ट्वा बुभुक्षा वर्धते।
= भोजन देखकर भूख बढ़ती है।

संस्कृतछात्राणां संख्या वर्धते
= संस्कृत छात्रों की संख्या बढ़ रही है

मार्गे यानानि अग्रे वर्धन्ते।
= रास्ते में वाहन आगे बढ़ते हैं

अधुना तस्य चञ्चलता वर्धते।
= अब उसकी चंचलता बढ़ रही है।

श्रमं विना कोsपि अग्रे न वर्धते।
= श्रम के बिना कोई आगे नहीं बढ़ता है

ओ३म्

170. संस्कृत वाक्याभ्यासः

रविवासरीयः अभ्यासः

यानपेटिका – बैग , सूटकेस

सः यानपेटिकां स्वीकृत्य गच्छति।
= वह बैग लेकर जाता है ।

सः कुत्र गच्छति ?
= वह कहाँ जाता है ?

सः पलवलं गच्छति।
= वह पलवल जाता है।

(सः कुत्र गच्छति ? तस्य उत्तरं भवन्तः/भवत्यः अपि लिखन्तु )

यानपेटिकायां किं किम् अस्ति ?
= बैग में क्या क्या है ?

यानपेटिकायां युतकम् अस्ति।
= बैग में शर्ट है ।

( यानपेटिकायां किं किम् अस्ति ? तस्य उत्तरं भवन्तः/भवत्यः अपि लिखन्तु )

सः कदा गच्छति ?
= वह कब जाता है ?

सः सप्तवादने गच्छति।
= वह सात बजे जाता है।

( सः कदा गच्छति ? तस्य उत्तरं भवन्तः/भवत्यः अपि लिखन्तु )

ओ३म्

अल्पाहारे सः क्वथितान् चणकान् खादति।
= अल्पाहार में वह उबले चने खाता है।

अल्पाहारे सा अंकुरितं मुद्गं खादति।
= अल्पाहार में वह अंकुरित मूँग खाता है।

सा माता पायसं निर्माति।
= वह माताजी खीर बना रही हैं

सा माता अग्निचुल्ल्यां पायसं पचति।
= वह माता अँगीठी पर खीर बना रही है।

वायुचुल्ली तस्यै न रोचते।
= गैस चूल्हा उसे पसन्द नहीं है।

तस्याः पार्श्वे पात्राणि अपि मृत्तिकायाः सन्ति।
= उसके पास पात्र भी मिट्टी के हैं।

सा माता अधः उपविश्य भोजनं निर्माति।
= वह माता नीचे बैठकर खाना बनाती है।

सा उत्थाय भोजनं न पचति।
= वह खड़े होकर भोजन नहीं पकाती है।

ओ३म्

171. संस्कृत वाक्याभ्यासः

शिशुः – मम .. मम ..

माता – न … तव नास्ति।

शिशुः – मम ….

माता – पतिष्यति … घटी पतिष्यति।

शिशुः – मम …

माता – तव नास्ति। पितामहस्य अस्ति।

शिशुः – मम ..

माता – आं सर्वं तव एव ।

शिशुः – मम … मम

माता – ओ वत्स ! तव नास्ति।

– एषा घटी पितामहस्य अस्ति।

शिशुः – मम ….

माता – आं गृहाण …

( माता क्रीडनकं ददाति)

ओ३म्

172. संस्कृत वाक्याभ्यासः

मम गृहे बिल्ववृक्षः अस्ति।
= मेरे घर बेल का पेड़ है ।

बिल्ववृक्षात् सर्वाणि पर्णानि पतितानि।
= बेल के पेड़ से सारे पत्ते गिर गए हैं ।

वृक्षः शुष्कः दृश्यते।
= पेड़ सूखा दिखता है।

केवलं शाखाः एव दृश्यन्ते ।
= केवल डालियाँ दिखती हैं।

अधुना नूतनानि पर्णानि स्फुटन्ति।
= अब नए पत्ते उग रहे हैं।

बिल्वफलं न रोहति
= बेल फल नहीं उगता है।

बिल्वफलानि न रोहन्ति।
= बेल फल नहीं उगते हैं।

अधुना वृक्षः लघु: अस्ति।
= अभी पेड़ छोटा है।

बहु उन्नतः नास्ति।
= बहुत ऊँचा नहीं है।

बिल्वफलं मह्यं रोचते।
= बेल फल मुझे पसंद है।

ओ३म्

173. संस्कृत वाक्याभ्यासः

जयेष्ठ भ्राता – न भ्रातः न

अहं तरणं न जानामि।

अहं तरितुं न शक्नोमि।

ओह , जलं बहु गहनम् अस्ति।

त्वमेव तर ।

अनुजः – व्यर्थमेव बिभेति ।

तरणं तु बहु सरलं अस्ति।

जलम् अधिकं गहनं नास्ति।

भवतः ग्रीवा पर्यन्तमेव स्यात्।
= आपकी गर्दन तक ही होगा।

यावद् भवान् तुङ्गः तावदेव जलम्
= जितने तुम ऊँचे हो उतना ही जल है।

यावद् भवतः तुङ्गता तावदेव जलम्
जितनी आपकी ऊँचाई है उतना ही पानी है

आगच्छतु।

तरावः

ओ३म्

174. संस्कृत वाक्याभ्यासः

ह्यः रात्रौ लोकयाने आसम् ।
= कल रात बस में था।

राज्यपरिवहन-निगमस्य लोकयानम् आसीत्।
= राज्य परिवहन निगम की बस थी।

लोकयाने सप्तविंशतिः जनाः आसन्।
= बस में सत्ताईस लोग थे।

मम पुरतः षोडश जनाः आसन्।
= मेरे आगे सोलह लोग थे।

मम पृष्ठतः अष्ट जनाः आसन्।
= मेरे पीछे नौ लोग थे।

मया सह द्वौ जनौ आस्ताम् ।
= मेरे साथ दो जन थे ।

मां सम्मेल्य सप्तविंशतिः जनाः आसन्।
= मुझे मिलाकर सत्ताईस लोग थे।

चालकः यानं चालयति स्म।
= ड्राइवर वाहन चला रहा था।

परिचालकः यात्रापत्रं ( चिटिकां) ददाति स्म।
= कंडक्टर टिकट दे रहा था।

यात्रिभ्यः शुल्कं स्वीकरोति स्म।
= यात्रियों से शुल्क ले रहा था।

मार्गे कोsपि अवतरितुम् इच्छति तदा यानं स्थगयति स्म।
= रास्ते में कोई उतरना चाहे तो वाहन रोकता था।

मार्गे नूतनाः यात्रिणः आरोहन्ति स्म।
= रास्ते में नए यात्री चढ़ रहे थे।

ओ३म्

175. संस्कृत वाक्याभ्यासः

सः प्रज्ञाचक्षु: अस्ति।
= वह सूरदास है

सः द्रष्टुं न शक्नोति।
= वह देख नहीं सकता है।

तथापि सः रवं श्रुत्वा परिचिनोति।
= फिर भी आवाज़ सुनकर पहचान लेता है।

प्रज्ञाचक्षु: – एषः अखिलेशः।

– एषः हरिसिंहः

– ऋषिदेवः , कथम् अस्ति ऋषिदेव !

– एषः बालकः , एतस्य नाम कोविदः

– एषा पार्वती भगिनी ।

– नमस्ते गोमती माता

– ओह जागृति भगिनि! बहूनि दिनानि अनन्तरम् आगतवती।

सः प्रज्ञाचक्षु: सर्वेषां नामानि जानाति

ओ३म्

176. संस्कृत वाक्याभ्यासः

अद्य सृष्टिसम्वत्सरः अस्ति।
= आज सृष्टि सम्वत्सर है।

नूतनस्य सृष्टिसम्वत्सरस्य प्रथमं दिनम्।
= नए सम्वत्सर का पहला दिन।

1,96,08,53,119 वर्षेभ्यः पूर्वम् एतद् जगत् सृष्टम्।
= 1,96,08,53,119 वर्ष पहले यह जगत बना था।

सम्पूर्णे ब्रह्माण्डे या सृष्टि: दृश्यते …
= सारे ब्रह्माण्ड में जो सृष्टि दिख रही है ….

सा परमेश्वरेण एव सृष्टा ।
= वह परमेश्वर द्वारा रची गई है।

ब्रह्माण्डे न केवलं पृथ्वी अस्ति …
= ब्रह्माण्ड में न केवल पृथ्वी है …..

अपितु अनेकानि नक्षत्राणि , अनेके सूर्याः , ग्रहाः अपि सन्ति।

बहु विशालम् अस्ति ब्रह्माण्ड।
= ब्रह्माण्ड बहुत विशाल है

सर्वत्र नवसम्वत्सरस्य हर्षं दृश्यते।
= सब जगह नए सम्वत्सर की खुशी दिख रही है।

नवसम्वत्सरे सर्वेषां जीवने शुभं भवतु।
= नए सम्वत्सर में सबके जीवन में शुभ हो

ओ३म्

177. संस्कृत वाक्याभ्यासः

क्षम्यताम् = क्षमा करिये , क्षमा करियेगा

क्षम्यताम् अधुना समयः नास्ति।
= क्षमा करियेगा अभी समय नहीं है

क्षम्यताम् अहं न आगमिष्यामि।
= क्षमा करियेगा मैं नहीं आऊँगा/ आऊँगी।

क्षम्यताम् , अहं तद् कार्यं विस्मृतवान् / विस्मृतवती।
= क्षमा करियेगा , मैं वो काम भूल गया / भूल गई।

क्षम्यताम् अद्य लेखनीं न आनीतवान्।
= क्षमा करियेगा , आज पेन नहीं लाया / लाई हूँ।

क्षमस्व, तव गानं न अरोचत्।
= क्षमा करना तुम्हारा गाना पसंद नहीं आया।

क्षम्यताम् , अहं शर्करां न इच्छामि।
= क्षमा करियेगा, मैं चीनी नहीं चाहता हूँ।

क्षम्यतां , मम कारणात् भवतः युतकं मलिनं जातम्।
= क्षमा करियेगा, मेरे कारण आपकी शर्ट गंदी हो गई

क्षमस्व माम् , त्वं पुरस्कारं न प्राप्तवान्।
= क्षमा करो , तुमने पुरस्कार नहीं पाया।

ओ३म्

177. संस्कृत वाक्याभ्यासः

अहं पनसम् आनीतवान्।
= मैं कटहल लाया।

तस्य शाकं निर्मेयम् अस्ति।
= उसकी सब्जी बनानी है।

पनसः तु कठोरः भवति।
= कटहल तो कठोर होता है।

सा कर्तितुं न शक्नोति।
= वह काट नहीं सकती है।

अहं कृन्तामि ।
= मैं काटता हूँ।

हस्ते सर्षपस्य तैलं योजयामि।
= हाथ में सरसों का तेल लगाता हूँ।

अनन्तरं छुरिकया पनसं कृन्तामि।
= बाद में छुरी से कटहल काटता हूँ।

पनसं कर्तयित्वा तस्यै ददामि।
= कटहल काटकर उसे देता हूँ।

मम हस्तं प्रक्षालयामि।
= मेरा हाथ साफ करता हूँ।

छुरिकाम् अपि प्रक्षालयामि।
= छुरी भी साफ करता हूँ।

ओ३म्

178. संस्कृत वाक्याभ्यासः

सः छात्रः

दशमकक्षायां पठति

परीक्षां दत्वा गृहं गच्छति।

मार्गे तस्य प्रवेशपत्रं पतति।

सः रोदिति।

सः प्रवेशपत्रम् अन्वेषयति।

सः अत्र गच्छति।

सः तत्र गच्छति।

सः विद्यालयं गच्छति

परीक्षा खण्डे सः पश्यति।

तत्र अपि न मिलति।

सः पुनः गृहं प्रति गच्छति।

बहु रोदिति।

मार्गे एका बालिका मिलति

सा पृच्छति …

किमर्थं रोदिति भ्रातः ?

सः उत्तरं ददाति

मम प्रवेशपत्रं पतितम्

ओ , प्रवेशपत्रं !!!

अहं मार्गे प्राप्तवती …

स्वीकरोतु भ्रातः !

सः छात्रः प्रसन्नः भवति।

धन्यवादः भगिनि !

सा बालिका “स्वागतम्” वदति।

ओ३म्

179. संस्कृत वाक्याभ्यासः

भूमौ शर्करायाः कणः पतितः।
= भूमि पर चीनी का दाना गिर गया।

एका पिपीलिका आगच्छति।
= एक चींटी आती है ।

कणं पश्यति , जिघ्रति च।
= दाना देखती है और सूँघती है।

सा स्वं बिलं प्रति गच्छति।
= वह अपने बिल को जाती है।

पुनः आगच्छति।
= फिर से आती है।

तया सह दश पिपीलिकाः अपि आगच्छन्ति।
= उसके साथ दस चींटियाँ भी आती हैं

सर्वाः पिपीलिकाः तत्रैव शर्कराकणं खादन्ति।
= सभी चींटियाँ वहीं पर चीनी के दाने को खा लेती हैं

सर्वाः पिपीलिकाः एकसाकं गच्छन्ति।
= सभी चींटियाँ एक साथ जाती हैं

इतोsपि अधिकं भारं वोढुं शक्नुवन्ति।
= इससे भी अधिक भार वहन कर सकती हैं

( नेतुं शक्नुवन्ति = ले जा सकती हैं)

बिले सहस्राधिकपिपीलिकाः वसन्ति।
= बिल में हजार से अधिक चींटियाँ रहती हैं

ओ३म्

180. संस्कृत वाक्याभ्यासः

एकस्य नाम राजगुरुः आसीत् ।
= एक का नाम राजगुरु था

द्वितीयस्य नाम सुखदेवः आसीत्।
= दूसरे का नाम सुखदेव था।

तृतीयस्य नाम भगतसिंहः आसीत्।
= तीसरे का नाम भगतसिंह था।

एते सर्वे भारतस्य स्वाधीनतार्थं प्राणाहुतिं दत्तवन्तः।
= इन सबने भारत की स्वाधीनता के लिये प्राणों की आहुति दी।

लाला लाजपतरायस्य हन्तारं भगतसिंहः हतवान्।
= लाला लाजपतराय को मारने वाले को भगतसिंह ने मारा।

ब्रिटेनदेशे केन्द्रीय विधानसभागारे विस्फोटं कृतवन्तः।
= ब्रिटेन के सेन्ट्रल असेम्बली में विस्फोट किया।

तदर्थम् एते गृहीताः।
= इसलिये ये पकड़े गए।

कारागारे बहु प्रताड़नां प्राप्तवन्तः।
= जेल में बहुत प्रताड़ना पाई।

एते त्रयः मृत्युदण्डं प्राप्तवन्तः।
= इन तीनों को फाँसी की सजा हुई।

अद्य प्राणोत्सर्गदिनम् अस्ति।
= आज शहीद दिन है।

अद्य बलिदानदिनम् अस्ति
= आज शहीद दिन है।

अमरहुतात्मेभ्यः वयं सादरं वन्दामहे।
= अमर हुतात्माओं को हम सादर वन्दन करते हैं।

ओ३म्

181. संस्कृत वाक्याभ्यासः

वाच् इत्युक्ते वाणी , ज्ञानम्

निधिः इत्युक्ते कोषः

वाचोनिधिः इत्युक्ते ज्ञानस्य कोषः

वाचोनिधिः मम ज्येष्ठतमः भ्राता अस्ति।
= वाचोनिधि मेरे सबसे बड़े भाई हैं

पूर्वं सः वित्तकोषे कार्यं करोति स्म।
= पहले वे बैंक में काम करते थे।

अधुना स्वेच्छया निवृत्तिं स्वीकृत्य सः सेवाकार्यं करोति।
= अब वे स्वेच्छा से निवृत्ति लेकर सेवाकाम करते हैं।

डीएवी विद्यालयस्य संचालनं करोति।
= डीएवी विद्यालय का संचालन करते हैं।

जीवनप्रभात संस्थानम् अपि संचालयति।
= जीवनप्रभात संस्थान का संचालन भी करते हैं।

जीवनप्रभाते निराश्रिताः बालकाः बालिकाः निवसन्ति।
= जीवनप्रभात में निराश्रित बालक बालिकाएँ रहते हैं

अद्य तस्य जन्मदिनम् अस्ति।
= आज उनका जन्मदिन है।

प्रातः डीएवी विद्यालये यज्ञ: भविष्यति।
= सुबह डीएवी विद्यालय में यज्ञ होगा।

जीवनप्रभाते सायंकाले यज्ञ: भविष्यति।
= जीवनप्रभात में शाम को यज्ञ होगा।

वाचोनिध्यै जन्मदिनस्य कोटिशः मङ्गलकामनाः।
= वाचोनिधि जी को जन्मदिन की कोटि कोटि मंगलकामनाएँ।

ओ३म्

182. संस्कृत वाक्याभ्यासः

अयोध्यायाम् अजायत सः कः ?

दशरथस्य पुत्रः सः कः ?

यस्य मातुः नाम कौशल्या सः कः ?

यस्य भ्रातुः नाम लक्ष्मणः सः कः ?

यस्य जाया सीता सः कः ?

यस्य गुरोः नाम वसिष्ठः सः कः ?

विश्वामित्रः अपि यस्य गुरुः आसीत् सः कः ?

लवः कुशः च यस्य पुत्रौ आस्तां सः कः ?

यः धनुर्धारी आसीत् सः कः ?

यः रावणं हतवान् सः कः ?

रामनवमी पर्वणः सर्वेभ्यः मङ्गलकामनाः ।

ओ३म्

183. संस्कृत वाक्याभ्यासः

सा दुग्धं क्वथति ।
= वह दूध उबालती है।

दुग्धं बालकाय ददाति।
= दूध बच्चे को देती है।

अवशिष्टं दुग्धं स्वयं पिबति।
= बचा हुआ दूध अपने आप पीती है

पात्रे सारः संलिप्तः अस्ति।
= बर्तन में मलाई चिपकी है।

बालकाय सारः रोचते।
= बच्चे को मलाई पसंद है।

सा चमसेन सारं क्षुरति।
= वह चम्मच से मलाई खुरचती है।

सारं बालकाय ददाति।
= मलाई बच्चे को देती है।

बालकः सारं खादति।
= बच्चा मलाई खाता है।

सा माता अपि सारं खादति।
= वह माँ भी मलाई खाती है।

ओ३म्

184. संस्कृत वाक्याभ्यासः

पतिपत्नी द्वौ मिलित्वा कार्यं कुरुतः
= पति पत्नी दोनों मिलकर काम करते हैं

पतिः इक्षुदण्डान् शकटात् अवतारयति।
= पति गन्ने गाड़ी से उतारता है।

भार्या रसनिष्पीडनयन्त्रं स्वच्छं करोति।
= पत्नी रस पीलने का यंत्र साफ करती है

वृक्षस्य अधः बालकम् उपावेशयति।
= पेड़ के नीचे बच्चे को बिठा देती है।

शाययति = सुला देती है।

ग्राहकाः आगच्छन्ति।
= ग्राहक आते हैं

भार्या निष्पीडनयन्त्रं चालयति।
= पत्नी रसपीलन यंत्र चलाती है।

सा हस्तेन यन्त्रं चालयति।
= वह हाथ से यंत्र चलाती है।

पतिः इक्षुदण्डान् यन्त्रे निष्पीडयति।
= पति गन्नों को यंत्र में पीलता है

रसः बहिः आगच्छति।
= रस बाहर आता है।

रसम् एकस्मिन् पात्रे एकत्रितं भवति।
= रस एक पात्र में इकट्ठा होता है।

भार्या यन्त्रचालनं स्थगयति।
= पत्नी यंत्र चलाना रोक देती है।

पतिः रसं चषके पूरयति।
= पति रस को गिलास में भरता है।

( चषकेषु पूरयति = गिलासों में भरता है )

पतिः ग्राहकेभ्यः रसं ददाति ।
= पति ग्राहकों को रस देता है।

ग्राहकाः रसं पीत्वा धनं ददति ।
= ग्राहक रस पीकर धन देते हैं

भार्या धनं स्वीकारोति।
= पत्नी धन लेती है।

सा स्वकीये स्यूते स्थापयति।
= वह अपने पर्स में रख देती है।

ओ३म्

185. संस्कृत वाक्याभ्यासः

औरंगाबादतः निशान्तः लिखति।
= औरंगाबाद से निशान्त जी लिखते हैं

भूतकाले वाक्यानि लिखतु।
= भूतकाल में वाक्य लिखिये

अहं पाठं लिखितवान् / लिखितवती।
= मैंने पाठ लिखा ( लिख लिया )

अहं दुग्धं पीतवान् / पीतवती ।
= मैंने दूध पिया ( पी लिया )

अहं कार्यं कृतवान् / कृतवती ।
= मैंने काम किया ( कर लिया )

अहं गच्छामि – वर्तमानकाल
गतवान् / गतवती – भूतकाल

अहं पिबामि – वर्तमानकाल
पीतवान् / पीतवती – भूतकाल

अहं ददामि – वर्तमानकाल
दत्तवान् / दत्तवती

भूतकाल के रूप यदि न याद हों तो संस्कृत की किसी भी धातु के साथ वान् लगाने पर वह भूतकाल पुंलिङ्ग बन जाता है। वती लगाने पर भूतकाल स्त्रीलिंग बन जाता है।

इसका प्रयोग किसी भी कर्ता के साथ कर सकते हैं

जैसे – अहं श्रुतवान् / श्रुतवती

सः श्रुतवान्
सा श्रुतवती

राजेशः श्रुतवान्
शालिनी श्रुतवती

दीपकः श्रुतवान्
राजेश्वरी श्रुतवती

बालकः श्रुतवान्
बालिका श्रुतवती

पिता श्रुतवान्
माता श्रुतवती

ओ३म्

186. संस्कृत वाक्याभ्यासः

कोsपि दशति
= कोई डस रहा है

उत्तिष्ठामि।
= उठता हूँ।

पश्यामि
= देखता हूँ।

कः दशति ?
= कौन डस रहा है ?

ओह , उपधाने पिपीलिका आसीत्।
= ओह , तकिया पर चींटी थी।

एका एव पिपीलिका अस्ति।
= एक ही चींटी है।

लघु पिपीलिका अपि दंष्टुं शक्नोति।
= छोटी चींटी भी डस सकती है

पिपीलिकां हस्ते गृह्णामि।
= चींटी को हाथ में लेता हूँ।

गृहात् बहिः नयामि।
= घर से बाहर ले जाता हूँ।

अधुना कोsपि न दशति
= अब कोई नहीं डस रहा है।

ओ३म्

187. संस्कृत वाक्याभ्यासः

आर्याणां मूलदेशः कः ?
= आर्यों का मूल देश कौनसा है ?

आर्याः बहिष्टात् आगतवन्तः वा ?
= आर्य बाहर से आए थे क्या ?

किं वयम् आर्याः न ?
= क्या हम आर्य नहीं हैं ?

आर्याणां मूलदेशः भारतदेशः ।
= आर्यों का मूल देश भारत देश है ।

आर्याः बहिष्टात् न आगतवन्तः।
= आर्य बाहर से नहीं आए थे।

अस्माकं पूर्वजाः एव आर्याः आसन् ।
= हमारे पूर्वज ही आर्य थे ।

वयं सर्वे आर्याः एव स्मः ।
= हम सब आर्य ही हैं

तर्हि आर्यः कीदृशः भवति ?
= तो फिर आर्य कैसा ( किस तरह का) होता है ?

यः सदाचारी अस्ति सः आर्यः।
= जो सदाचारी है वह आर्य है ।

यः परपीड़ां द्रष्टुं न शक्नोति सः आर्यः।
= जो परपीड़ा नहीं देख सकता है वह आर्य है

यः सर्वदा सत्कार्यं करोति सः आर्यः ।
= जो हमेशा सत्कार्य करता है वह आर्य

कदापि अनुचितं कार्यं न करोति सः आर्यः
= कभी भी अनुचित कार्य नहीं करता है वह आर्य है

वदतु … अहम् आर्यः ।

अहम् आर्या ।

ओ३म्

188. संस्कृत वाक्याभ्यासः

हनुमान वीरः आसीत् ।
= हनुमान वीर थे ।

हनुमान ब्रह्मचारी आसीत्
= हनुमान ब्रह्मचारी थे।

हनुमान श्रीरामभक्तः आसीत्।
= हनुमान रामभक्त थे।

सीतामातुः अन्वेषणार्थं सः लङ्कां गतवान्।
= सीतामाता की खोज के लिये वो लंका गए थे।

अशोकवाटिकायां सीतामातरं मिलितवान्
= अशोकवाटिका में सीता माता को मिले थे

श्रीरामस्य मुद्रिकां दर्शयित्वा आत्मपरिचयं दत्तवान्।
= श्रीराम की मुद्रिका दिखाकर अपना परिचय दिया।

“सीतामातरं मुञ्चतु” इति रावणस्य सभायाम् उक्तवान्।
= “सीता माता को छोड़ दीजिये ” ऐसा रावण की सभा में कहा।

रावणः न अमन्यत अतः लङ्कां दग्धवान्
= रावण नहीं माना तो लंका में आग लगा दी।

प्रत्यागत्य श्रीरामाय सन्देशं दत्तवान्
= वापस आकर श्रीराम को संदेश दिया

हनुमानजयन्तेः सर्वेभ्यः मङ्गलकामनाः ।
= हनुमान जयंती की सबको मंगलकामनाएँ।

ओ३म्

189. संस्कृत वाक्याभ्यासः

अद्य रविवासरः अस्ति खलु !
= आज रविवार है न !

तर्हि भोजन समये संस्कृते एव वदामः
= तो भोजन के समय संस्कृत में ही बोलें

आगच्छन्तु सर्वे भोजनं कुर्मः
= सभी आ जाएँ भोजन करते हैं

पुत्र ! पूर्वं हस्तं प्रक्षालय
पुत्रि ! पूर्वं हस्तं प्रक्षालय
= बेटा ! पहले हाथ धो लो

सर्वे अधः मण्डलाकारे उपविशन्तु ।
= सभी नीचे गोलाकार में बैठ जाएँ

स्वां स्थालिकां स्वीकुर्वन्तु।
= अपनी थाली ले लें

चषके जलं पूरयन्तु
= गिलास में पानी भर लें

सर्वाणि व्यंजनानि मध्ये स्थापयन्तु।
= सभी व्यंजन बीच में रख लें

सैंयावं स्वीकुरु पुत्र / पुत्रि !
= हलुआ लो बेटा

जालिकायाः शाकम् ।
= तुरई की सब्जी

मुद्गस्य दालम् ( सूपम्)
= मूँग की दाल

ओदनम् अपि अस्ति।
= चावल भी है

कति रोटिकाः ददानि ?
= कितनी रोटी दूँ ?

भोजनात् पूर्वं भोजनमन्त्रं वदामः ।
= भोजन से पहले भोजन मन्त्र बोलते हैं

अधुना खादन्तु ।
= अब खाएँ ।

शुभ रविवासरः ।

ओ३म्

190. संस्कृत वाक्याभ्यासः

सः मरीचिकां लाजति ।
= वह मिर्ची तलता है ।

लाजिता मरीचिका तस्मै रोचते।
= तली हुई मिर्च उसे पसंद है।

माता किं किं लाजति ?
= माँ क्या क्या तलती है ?

माता पूरिकां लाजति।
= माँ पूड़ी तलती है।

( पूरिकाः लाजति = पूड़ियाँ तलती है )

माता आलुलवं लाजति।
= माँ आलू की चिप्स तलती है

माता पर्पटं लाजति।
= माँ पापड़ तलती है

भगिनी पिष्टकं लाजति।
= बहन पकौड़ा तलती है ।

( पिष्टकानि लाजति = पकौड़े तलती है )

भगिनी भूचणकं लाजति।
= बहन मूँगफली तलती है ।

सा पलांडु लाजति।
= वह प्याज तलती है

सा अपूपं लाजति।
= वह मालपुआ तलती है ।

ओ३म्

191. संस्कृत वाक्याभ्यासः

सा भृज्जति ।
= वह भूनती है ।

सा पर्पटं भृज्जति।
=वह पापड़ भूनती ( सेंकती ) है।

सा रोटिकाः भृज्जति।
= वह रोटियाँ सेंकती है।

भाजने सा वृन्ताकं भृज्जति।
= तवे पर वह बैंगन सेंकती है।

कटाहे सः चणकं भृज्जति।
= कढ़ाई में वह चना भूनता है।

यदाकदा अहमपि रोटिकाः भृज्जामि।
= कभी कभी मैं भी रोटियाँ सेंकता हूँ।

भर्जितं पर्पटं बहु रोचते।
= भूना ( सेंका ) हुआ पापड़ बहुत अच्छा लगता है।

मम माता मन्दाग्नौ मकोयं भृज्जति।
= मेरी माँ धीमी आँच पर भुट्टा भूनती हैं

तर्हि प्रतीक्षां मा करोतु।
= तो फिर प्रतीक्षा न करें

भवान् /भवती अपि किमपि भृज्जतु ।
= आप भी कुछ भूनिये ।

ओ३म्

192. संस्कृत वाक्याभ्यासः

छात्रः १ – तव अल्पाहारः कुत्र अस्ति ?
= तुम्हारा नाश्ता कहाँ है ?

छात्रः २ अद्य न आनीतवान् ।
= आज नहीं लाया ।

छात्रः १ – तर्हि मया सह कुरु ।
= तो मेरे साथ करो ।

छात्रः २ – मम माता आनेष्यति ।
= मेरी माँ लाएगी।

छात्रः १ – कदा आनेष्यति ?
= कब लाएगी ।

छात्रः २ – अधुनैव ।
= अभी ही ।

छात्रः १ – त्वं न खादिष्यसि चेत् अहमपि न खादिष्यामि।
= तुम नहीं खाओगे तो मैं भी नहीं खाऊँगा।

छात्रः २ – त्वं खाद ,
= तुम खाओ ।

छात्रः १ – त्वं रोदिषि मित्र !
= तुम रो रहे हो मित्र !

छात्रः २ – सत्यं वदामि , मम माता रुग्णा अस्ति
= सच कहूँ , मेरी माँ बीमार है ।

छात्रः १ – तव मातरं किम् अभवत् ?
= तुम्हारी माँ को क्या हो गया ?

छात्रः १ – वद , किम् अभवत् तव मातरम् ।
= बोलो , क्या हो गया तुम्हारी माँ को ?

छात्रः २ – मम मातरं सामान्यः एव रोगः आसीत्।
= मेरी माँ को सामान्य ही रोग था।

छात्रः १ – तर्हि का चिन्ता ?
= तो फिर चिंता कैसी ?

छात्रः २ – चिकित्सालयतः माता पादाभ्याम् आगतवती।
= अस्पताल से माँ पैदल आई ।

छात्रः १ – तर्हि किम् अभवत् ?
= तो क्या हो गया ?

छात्रः २ – मार्गे बहु आतपः आसीत् ।
= रास्ते में बहुत धूप थी।

– मम माता आतपं सोढुं न शक्तवती।
= मेरी माँ धूप सहन न कर सकी

– अतः ज्वरः अवर्धत।
= इसलिये ज्वर बढ़ गया।

छात्रः १ – अधुना कथम् अस्ति?
= अब कैसी हैं ?

छात्रः २ – अधुना विश्रामं करोति।
= अभी विश्राम कर रही हैं ।

छात्रः १ – तर्हि अल्पाहारं कुरु ।
= तो नाश्ता करो।

छात्रः २ – यावत् माता न खादति तावद् अहमपि न खादिष्यामि।
= जब तक माँ नहीं खाती तब तक मैं नहीं खाऊँगा ।

अहो , मातृस्नेहः ।

ओ३म्

193. संस्कृत वाक्याभ्यासः

पिता – मुख्यद्वारे कोsपि अस्ति।
= मुख्य दरवाजे पर कोई है।

पुत्री – अहं पश्यामि।
= मैं देखती हूँ।

पिता – पादरक्षां धारय ।
= चप्पल पहन लो ।

– उत्तरीयम् अपि धारय।
= दुपट्टा भी पहनो ।

पुत्री – तात ! द्वारं बहु दूरे नास्ति।
= पिताजी ! द्वार बहुत दूर नहीं है।

पिता – वत्से ! भूमिः बहु तपति।
= बिटिया ! भूमि बहुत तप रही है।

तव पादौ ऊष्णौ भविष्यतः।
– तुम्हारे पैर गरम हो जाएंगे।

( किञ्चित् काल अनन्तरम्
= थोड़ी देर बाद )

पुत्री – तात ! द्वारे एका महिला अस्ति।
= पिताजी ! द्वार पर एक महिला है

– सा जलं याचते।
= वह पानी माँग रही है।

पिता – तां छायायाम् उपावेशय ।
= उसको छाया में बिठाओ।

– अहं जलम् आनयामि।
= मैं पानी लाता हूँ।

त्वमपि आतपे बहु न तिष्ठे:
= तुम भी धूप में अधिक मत खड़ी रहो।

– अन्यथा सूर्यचपेटः लगति।
= नहीं तो लू लग जाती है।

– आतपज्वरः भवति।
= लू का बुखार हो जाता है।

सः पिता तां महिलां जलं पाययति।
= वह पिता उस महिला को जल पिलाता है।

ओ३म्

194. संस्कृत वाक्याभ्यासः

जगदीशः – नमो नमः अखिलेश !

अखिलेशः – नमो नमः ।

जगदीशः – कथम् अस्ति ?
= कैसे हैं ?

अखिलेशः – अहं कुशली।
= मैं कुशल हूँ।

– भवान् कथम् अस्ति ?
= आप कैसे हैं ?

जगदीशः – अहमपि कुशली ।
= मैं भी कुशल हूँ।

– मम मित्रम् अस्वस्थः अस्ति।
= मेरा मित्र अस्वस्थ है ।

अखिलेशः – किम् अभवत् तव मित्रम् ?
= क्या हो गया तुम्हारे मित्र को ?

जगदीशः – सः अनिद्रा रोगेण पीडितः अस्ति।
= वह अनिद्रा रोग से पीड़ित है

अखिलेशः – ओह , अधुना जनाः स्वास्थ्यं न रक्षन्ति।
= ओह , अब लोग स्वास्थ्य की रक्षा नहीं करते हैं

जगदीशः – आं , सः चिन्ताम् अधिकां करोति।
= हाँ वह चिन्ता बहुत करता है।

अखिलेशः – चिन्ता तु मानसिक रोगः एव।
= चिन्ता तो मानसिक रोग ही है

जगदीशः – अद्य विश्वस्वास्थ्य दिनम् अस्ति।
= आज विश्व स्वास्थ्य दिन है।

अखिलेशः – सर्वे मनसा शरीरेण च सर्वदा स्वस्थाः भवेयुः ।
= सभी मन से और तन से स्वस्थ रहें।

ओ३म्

195. संस्कृत वाक्याभ्यासः

पिता – अद्य शान्तिम् एव इच्छामि।
= आज शान्ति ही चाहता हूँ।

– मा बाधन्ताम्
= परेशान नहीं करेंगे।

पुत्री – नैव तात ! अद्य तु रविवासरः ।
= नहीं पिताजी ! आज तो रविवार है।

पुत्रः – रविवासरे एव भवान् गृहे तिष्ठति।
= रविवार को ही आप घर पर रहते हैं

पुत्री – अहम् एकं काव्यं कंठस्थं कृतवती
= मैंने एक कविता याद की है

– तद् श्रावयामि।
= वो सुनाती हूँ।

पुत्रः – अहम् एकं चित्रं रचितवान्।
= मैंने एक चित्र बनाया है।

– तद् दर्शयामि।
= वो दिखाता हूँ।

पुत्री – पुत्री गायति
अवनितलं पुनरवतीर्णा स्यात्
संस्कृत गङ्गाधारा
धीर भगीरथ वंशोsस्माकं
वयं तु कृतनिर्धारा

पिता – बहु सुन्दरं गीतवती … शोभनम् ।

पुत्रः – मम चित्रं पश्यतु

पिता – तव चित्रं तु सुन्दरम् अस्ति

ग्रामस्य चित्रम्

चित्रे तड़ागः अस्ति।

चित्रे पर्वतमाला अस्ति।

चित्रे नदी अस्ति

कुटीरः अस्ति

जनाः सन्ति।

बालकाः सन्ति।

पुत्रः -पुत्री ( उभौ वदतः )
बेटा बेटी दोनों बोलते हैं

अम्बा अपि आगतवती।
= माँ भी आ गई।

अद्य आनन्दं करिष्यामः ।
= आज आनंद करेंगे।

हो ….हो….हो…हो….

ओ३म्

196. संस्कृत वाक्याभ्यासः

पौत्रः दोलायां दोलायते।
= पोता झूले में झूलता है।

पितामहः पौत्रं पश्यति।
= दादाजी पोते को देखते हैं।

पौत्रः वेगेन दोलायते ।
= पोता तेज झूलता है।

पितामहः भीतः भवति।
= दादाजी डर जाते हैं

पितामहः – वत्स ! दोलां मन्दं कुरु।
= बेटा ! झूला धीमा करो।

पौत्रः न मन्यते ।
= पोता नहीं मानता है।

पितामहः पुनः आदिशति।
= दादाजी फिर से आदेश देते हैं।

पौत्रः न मन्यते ।
= पोता नहीं मानता है।

पितामहः – त्वं न मन्यसे चेत् अहं गृहं गच्छामि।
= तुम नहीं मानते हो तो मैं घर जाता हूँ।

पौत्रः शीघ्रमेव दोलां मन्दं करोति।
= पोता जल्दी से झूला धीमा करता है।

अवतीर्य पितामहं निवेदयति।
= उतरकर दादाजी को निवेदन करता है

न पितामह ! अधुना वेगेन न चालयिष्यामि।
= नहीं दादाजी ! अब तेज नहीं चलाऊँगा।

भवान् गृहं मा गच्छतु।
= आप घर मत जाईये।

एक होरा अनन्तरं गृहं चलिष्यावः।
= एक घंटे के बाद घर चलेंगे।

ओ३म्

197. संस्कृत वाक्याभ्यासः

युवकः – तव नखाः दीर्घाः अभवन्।
= तुम्हारे नाखून बड़े हो गए हैं।

युवती – तव अपि नखाः दीर्घाः अभवन्।
= तुम्हारे भी नाखून बड़े हो गए हैं।

युवकः – अहम् अधुना कृन्तामि।
= मैं अभी काटता हूँ।

– त्वमपि कृन्ततु ।
= तुम भी काट लो ।

युवती – न … न … नैव ।

– अहं तु इतोsपि दीर्घान् नखान् इच्छामि।
= मैं और लम्बे नाखून चाहती हूँ।

युवकः – तेन कः लाभः भविष्यति ?
= उससे क्या लाभ होगा ?

भारतस्य उन्नतिः भविष्यति वा ?
= भारत की उन्नति होगी क्या ?

आतंकवादिनः भयभीताः भविष्यन्ति वा ?
= आतंकवादी डर जाएँगे क्या ?

युवती – न तथा किमपि नास्ति।
= नहीं ऐसा कुछ नहीं है।

– मम सख्यः दीर्घान् नखान् स्थापयन्ति।
= मेरी सहेलियाँ लंबे नाखून रखती हैं।

युवकः – अधुनैव कृन्ततु ।
= अभी ही काट लो ।

– न शोभन्ते ।
= नहीं अच्छे लगते हैं

ओ३म्

198. संस्कृत वाक्याभ्यासः

अद्य गणतंत्रदिनम् अस्ति।
= आज गणतंत्र दिन है।

सर्वे बहु प्रसन्नाः सन्ति।
= सब बहुत खुश हैं।

अद्य सप्तषष्ठितमं गणतंत्रदिनम् अस्ति।
= आज सड़सठवाँ गणतंत्र दिन है।

वयं सर्वे अद्य संकल्पं कर्वाम।
= हम सभी संकल्प करें।

आगामिनी गणतंत्रदिवसे वयं संस्कृतभाषायां वदिष्यामः।
= आगामी गणतंत्र दिन पर हम संस्कृत भाषा में बोलेंगे।

वयं संस्कृते समर्थाः भविष्यामः।
= हम संस्कृत में समर्थ हो जाएँगे।

राष्ट्रोन्नत्यर्थम् कृतसंकल्पारू वयम्।
= राष्ट्र की उन्नति के लिये हम संकल्पबद्ध हैं।

सर्वेभ्यः गणतंत्रदिनस्य मंगलकामनाः।
= सबको गणतंत्र दिन की मंगलकामनाएँ

ओ३म्

199. संस्कृत वाक्याभ्यासः

अहं पिबामि = मैं पीता हूँ / पीती हूँ।
अहं दुग्धं पिबामि।

अहं तक्रं पिबामि।

अहं फलरसं पिबामि।

अहं जलं पिबामि।

अहं पानकं पिबामि।
= मैं शरबत पीता हूँ

ओ३म्

200. संस्कृत वाक्याभ्यासः

मम = मेरा
तव = तेरा
भवतः = आपका ( पुलिँग )
भवत्याः = आपका ( स्त्रीलिँग)
तस्य = उसका ( पुलिँग )
तस्याः = उसका ( स्त्रीलिँग)
एतस्य = इसका ( पुलिँग )
एतस्याः = इसका ( स्त्रीलिँग )

एतद् गृहं कस्य / कस्याः अस्ति ?
= यह घर किसका है ?

एतद् गृहं मम अस्ति ।
एतद् गृहं तव अस्ति ।
एतद् गृहं भवतः अस्ति ।
एतद् गृहं भवत्याः अस्ति ।
एतद् गृहं तस्य अस्ति ।
एतद् गृहं तस्याः अस्ति ।
एतद् गृहम् एतस्य अस्ति ।
एतद् गृहम् एतस्याः अस्ति ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here