०००७ सरल संस्कृत अनुवाद अभ्यास पाठ ५१ से ६०

0
283

ओ३म्

५१. संस्कृत वाक्याभ्यासः

तस्मिन् काले अधर्मः अवर्धत।
= उस समय अधर्म बढ़ गया था (वर्धितम् आसीत्)

तस्मिन् समये अनेके दुराचारिणः आसन्।
= उस समय अनेक दुराचारी थे

धर्मणः रक्षार्थं सः अग्रे आगतः।
= धर्म की रक्षा के लिये वह आगे आया

सः धर्मयुद्धं कर्तुं पार्थं प्रेरितवान्।
= उन्होंने धर्मयुद्ध करने के लिये पार्थ को प्रेरित किया

सर्वे दुराचारिणः युद्धे हताः।
= सभी दुराचारी युद्ध में मारे गए

तस्य नाम श्रीकृष्णः।

अद्य जन्माष्टमी पर्वणः सर्वेभ्यः शुभकामनाः।

ओ३म्

५२. संस्कृत वाक्याभ्यासः

सः वानरः।

सः कः ?

वानरः वृक्षस्य उपरि अस्ति।

वानरः कुत्र अस्ति ?

वानरः कूर्दते।

वानरः किं करोति ?

वृक्षे दश वानराः सन्ति।

वृक्षे कति वानराः सन्ति ?

एकः वानरः लघुः अस्ति।

एकः वानरः कीदृशः अस्ति ?

सः लघुः अस्ति अतः न कूर्दते।

सः किमर्थं न कूर्दति ?

सर्वे वानराः वृक्षात् वृक्षम् उत्प्लवन्ति।
= सभी बन्दर एक पेड़ से दूसरे पेड़ पर कूदते हैं

ओ३म्

५३. संस्कृत वाक्याभ्यासः

अद्य तस्य पुण्यतिथिः अस्ति।
= आज उनकी पुण्यतिथि है

तस्य नाम आलिमचन्द लछवानी आसीत्।
= उनका नाम आलिमचन्द लछवानी था

सः निधनात् पूर्वं नगरे एकां विशालां धर्म शालां निर्मितवान्।
= उन्होंने मृत्यु से पहले नगर में एक बड़ी धर्मशाला बनवाई

धर्मशालायाम् अनेके यात्रिणः निवसन्ति।
= धर्मशाला में अनेक यात्री रहते हैं

अद्य तत्र यज्ञः आसीत्।
= आज वहाँ यज्ञ था

आलिमचंदस्य पुत्राः यज्ञं कृतवन्तः।
= आलिमचन्द के बेटों ने यज्ञ किया

सर्वाः वधूः अपि यज्ञं कृतवत्यः।
= सभी बहुओं ने भी यज्ञ किया

निर्धनेभ्यः बालकेभ्यः पुस्तकानि दत्तवन्तः।
= निर्धन बच्चों को पुस्तकें दीं

सर्वे जनाः मिलित्वा भोजनं कृतवन्तः।
= सबने मिलकर खाना खाया

आलिमचन्दः दानवीरः आसीत्।
= आलिमचन्द दानवीर थे

तथैव तस्य परिवारजनाः अपि दानवीराः सन्ति।
= उसी प्रकार उनके परिवार जन भी दानवीर हैं

ओ३म्

५४. संस्कृत वाक्याभ्यासः

यः शिक्षां यच्छति सः शिक्षकः।
= जो शिक्षा देता है वह शिक्षक है

यः पाठयति सः शिक्षकः।
= जो पढ़ाता है वह शिक्षक है

यः सदाचारी अस्ति सः शिक्षकः।
= जो सदाचारी है वह शिक्षक है

छात्रारू शिक्षकस्य अनुसरणं कुर्वन्ति।
= छात्र शिक्षक का अनुसरण करते हैं

यदा शिक्षकः सम्यक् ज्ञानं ददाति।
= जब शिक्षक सही ज्ञान देता है

तदा छात्राः प्रसन्नाः भवन्ति।
= तब छात्र खुश होते हैं

छात्राः शिक्षकाय आदरं ददति।
= छात्र शिक्षक को आदर देते हैं

विद्वान् सदाचारी शिक्षकः श्रेष्ठः भवति।
= विद्वान् सदाचारी शिक्षक श्रेष्ठ होता है

सर्वेभ्यः शिक्षक-दिनस्य शुभकामनाः।

ओ३म्

५५. संस्कृत वाक्याभ्यासः

पुनः पुनः

आम् , पुनः पुनः।

कुरु अभ्यासं पुनः पुनः।

प्रातः संस्कृत अभ्यासम्।

सायं अपि कुरु वार्तालापम्।

यदा यदा करोषि सम्वादम्।

श्रृणु श्रावय च केवलं संस्कृतम्।

बार बार…..

हाँ , बार बार…..

करिये अभ्यास बार बार

प्रातः संस्कृत का अभ्यास

सायं भी संस्कृत वार्तालाप

जब जब करें सम्वाद

सुनें सुनाएँ केवल संस्कृतम्

ओ२म्

५६. संस्कृत वाक्याभ्यासः

इसरो इत्युक्ते भारतीय अन्तरिक्ष अनुसन्धान संस्थानम्।
= इसरो अर्थात् भारतीय अन्तरिक्ष अनुसन्धान संस्थान

एतस्मिन् संस्थाने अनेके वैज्ञानिकाः कार्यं कुर्वन्ति।
= इस संस्थान में अनेक वैज्ञानिक काम करते हैं

वैज्ञानिकाः सर्वदा नूतनम् अनुसन्धानं कुर्वन्ति।
= वैज्ञानिक हमेशा नया अनुसन्धान करते हैं

गतदिने एकम् उपग्रहं प्रक्षेपितवन्तः।
= कल एक उपग्रह छोड़ा

तद् उपगृहं वातावरणस्य अध्ययनं करिष्यति।
= वह उपग्रह वातावरण का अध्ययन करेगा

झंझावातस्य वा अतिवृष्टेः विषये तद् सूचनाः दास्यति।
= तूफान या अतिवृष्टि के सम्बन्ध में सूचना देगा

सर्वेषां वैज्ञानिकानां प्रयत्नः सफलः भविष्यति।
= सभी वैज्ञानिकों का प्रयत्न सफल होगा

वयं सर्वेषां वैज्ञानिकानां धन्यवादं मन्यामहे।
= हम सभी वैज्ञानिकों का धन्यवाद मानते हैं

ओ३म्

५७. संस्कृत वाक्याभ्यासः

अहं कष्टं सहे।
= मैं कष्ट सहन करता / करती हूँ

त्वं कष्टं सहसे।
= तुम कष्ट सहन करते / करती हो

सः दुःखं सहते।
= वह दुःख सहता है

सा पीड़ां सहते।
= वह पीड़ा सहन करती है

सैनिकाः सर्वदा कष्टं सहन्ते।
= सैनिक हमेशा कष्ट सहन करते हैं

कृषकाः कष्टं सोढ्वा कृषिकार्यं कुर्वन्ति।
= किसान कष्ट सहन करके खेती करते हैं

जीवने कष्टं तु सहनीयं भवति।
= जीवन में कष्ट तो सहन करना पड़ता है

जीवने पीड़ा तु सहनीया भवति।
= जीवन में पीड़ा तो सहन करनी पड़ती है

यः किमपि न सहते।
= जो कुछ नहीं सहन करता है

सः जीवनं न जीवति।
= वह जीवन नहीं जीता है

ओ३म्

५८. संस्कृत वाक्याभ्यासः

ऋषिदेवः रविवासरे मौनव्रतं पालयति।
= ऋषिदेव रविवार को मौनव्रत पालता है

रविवासरे सः एकम् अपि शब्दं न वदति।
= रविवार को वह एक भी शब्द नहीं बोलता है

सः केवलं लिखति।
= वह केवल लिखता है

सः यत्किमपि वक्तुम् इच्छति।
= वह जो कुछ भी बोलना चाहता है

तद् सर्वं लिखित्वा एव सूचयति।
= वह सब लिखकर के ही सूचित करता है

सः सर्वं संस्कृत-भाषायामेव लिखति।
= वह सब कुछ संस्कृत भाषा में ही लिखता है

तस्य पुत्रः विभुः उचैः तस्य लेखं पठति।
= उसका बेटा विभु जोर से उसका लेख पढ़ता है

पठित्वा शीघ्रमेव वस्तूनि आनयति।
= पढ़कर जल्दी से वस्तुएँ लाता है

विभुः अपि संस्कृतं जानाति।
= विभु भी संस्कृत जानता है

विभुः आज्ञाकारी बालकः अस्ति।
= विभु आज्ञाकारी बालक है

ओ३म्

५९. संस्कृत वाक्याभ्यासः

तेन उक्तम्।
= उसने कहा

अवश्यमेव आगच्छतु।
= अवश्य आईयेगा

तया अपि उक्तम्।
= उसने भी कहा

अवश्यमेव आगच्छतु।
= अवश्य आईयेगा

अहम् उभयत्र न गतवान्।
= मैं दोनों जगह नहीं गया

अहम् अन्यत्र गतवान्।
= मैं और कहीं गया

अद्य द्वयोः गृहं गच्छामि।
= आज दोनों के घर जा रहा हूँ

दूरवाण्या सूचितवान् अहम्।
= दूरवाणी से मैंने सूचित कर दिया है

ओ३म्

६०. संस्कृत वाक्याभ्यासः

द्वादश-वर्षाणि पर्यन्तं सः कारावासे आसीत्।
= बारह वर्ष तक वह जेल में था

सः भयकरः अपराधी अस्ति।
= वह खतरनाक अपराधी है

सः आतंकवादी सदृशः अस्ति।
= वह आतंकवादी जैसा है

अधुना सः कारागारात् मुक्तः जातः।
= अब वह जेल से मुक्त हो गया है

यदा सः कारागारात् बहिः आगतवान्।
= जब वह जेल से बहार आया

तदा धूर्ताः राजनेतारः तस्य स्वागतम् अकुर्वन्।
= तब धूर्त राजनेताओं ने उसका स्वागत किया

सीवानस्य सर्वे जनाः भयभीताः सन्ति।
= सीवान के सभी लोग भयभीत हैं

LEAVE A REPLY

Please enter your comment!
Please enter your name here