ओ३म्
३१. संस्कृत वाक्याभ्यासः
अलं भोः..!
= बस जी
किमर्थं तस्य परिहासं कुर्वन्ति सर्वे ?
= सब उसका मजाक क्यों उड़ा रहे हैं ?
अलं तस्य परिहासेन।
= उसका मजाक उड़ाना बंद करो
अलं क्रोधेन।
= बस, अब क्रोध मत करो
अलं विवादेन।
= विवाद मत करो
अलं चिन्तया।
= चिन्ता मत करो
अलं कोलाहलेन।
= शोर बस करो, बन्द करो, मत करो।
जब किसी भी क्रिया को होता हुआ बंद कराना है, या ये कहना है कि बस..! बहुत हो गया; तब ‘अलम्’ का प्रयोग करते हैं और क्रियापद की तृतीया बना कर वाक्य बोला करें।
यथा –
अलम् अधिकं शयनेन।
अलं अधिकं भोजनेन।
अलं कुर्दनेन।
अलं हसितेन।
ओ३म्
३२. संस्कृत वाक्याभ्यासः
वयं बालकाः = हम सब बच्चे
यूयं बालकाः = तुम सब बच्चे
एते बालकाः = ये सब बच्चे
ते बालकाः = वे सब बच्चे
सर्वे बालकाः = सारे बच्चे
वयं बालिकाः = हम सब बच्चियाँ
यूयं बालिकाः = तुम सब बच्चियाँ
एते बालिकाः = ये सब बच्चियाँ
ते बालिकाः = वे सब बच्चियाँ
सर्वाः बालिकाः = सारी बच्चियाँ
ओ३म्
३३. संस्कृत वाक्याभ्यासः
रात्रौ तस्य उपनेत्रं भग्नं जातम्।
= रात में उसका चश्मा टूट गया
तस्य पार्श्वदृष्टिः क्षीणा अस्ति।
= उसकी पास की दृष्टि कमजोर है
सः रात्रौ महापुरुषाणां जीवनचरित्रं पठति।
= वह रात में महापुरुषों का जीवनचरित्र पढ़ता है
सः स्वामी श्रद्धानन्दस्य जीवनचरित्रं पठति।
= वह स्वामी श्रद्धानन्द जी का जीवनचरित्र पढ़ता है
उपनेत्रं विना सः कथं जीवनचरित्रं पठेत् ?
= चश्मे के बिना वह जीवनचरित्र कैसे पढ़े ?
यावत् पुस्तकं न पठति….
= जब तक वह पुस्तक नहीं पढ़ता है
तावत् तस्य निद्रा न आगच्छति ।
= तब तक उसे नींद नहीं आती है ।
अतः तस्य पुत्रः जीवनचरित्रं पठति।
= इसलिए उसका बेटा जीवनचरित्र पढ़ता है
पुत्रः उच्चैः पठति।
= बेटा जोर से पढ़ता है
पुत्रः पितरं श्रावयति।
= बेटा पिता को सुनाता है ।
अनन्तरं पिता शयनं करोति।
= बाद में पिता सो जाता है
ओ३म्
३४. संस्कृत वाक्याभ्यासः
विद्यालयस्य प्रांगणे एका गुहा अस्ति।
= विद्यालय के मैदान में एक गुफा है
विद्यालये मध्यावकाश-समये..
= स्कूल में रिसेस के समय
बालकाः गुहां प्रविशन्ति।
= बच्चे गुफा में घुसते हैं
एकस्मात् द्वारात् अन्तः प्रविशन्ति।
= एक दरवाजे से अंदर घुसते हैं
अन्यस्मात् द्वारात् बहिः आगच्छन्ति।
= दूसरे दरवाजे से बाहर आते हैं
शिक्षिका सर्वान् बालकान् पश्यति।
= शिक्षिका सभी बच्चों को देखती है
एकः बालकः अन्तः न गच्छति।
= एक बच्चा अंदर नहीं जाता है
गुहायाः अन्तः अन्धकारः अस्ति।
= गुफा के अंदर अंधेरा है
सः बालकः अन्धकारात् बिभेति।
= वह बच्चा अंधेरे से डरता है
शिक्षिका तेन सह एकं ज्येष्ठं छात्रं प्रेषयति।
= शिक्षिका उसके साथ एक बच्चे को भेजती है
बालकः अधुना निर्भीकः जातः।
= बच्चा अब निर्भीकः हो गया
ओ३म्
३५. संस्कृत वाक्याभ्यासः
सः आयकर-पत्रकं पूरयति।
= वह आयकर रिटर्न भर रहा है
सः मिथ्या न वदति।
= वह झूठ नहीं बोलता है
यावत् धनं तेन अर्जितं।
= जितना धन उसने कमाया
तावदेव सः पत्रके दर्शयति।
= उतना ही वह रिटर्न में दिखा रहा है
कर-प्रदानात् सः न बिभेति।
= टैक्स चुकाने से वह नहीं डरता है
तस्य भार्या अपि कार्यं करोति।
= उसकी पत्नी भी काम करती है
सा अपि आयकर पत्रकं पूरयति।
= वह भी आयकर रिटर्न भरती है
सा अपि करं प्रददाति।
= वह भी कर चुकाती है
ओ३म्
३६. संस्कृत वाक्याभ्यासः
प्रातः आरभ्य प्रयत्नं कुर्वन् अस्मि।
= सुबह से प्रयास कर रहा हूँ
किमपि लिखानि इति मम मनसि नैकवारम् आगतम्।
= कुछ लिखूँ यह मन में कई बार आया
तथापि किमपि न लिखितम्।
= फिर भी कुछ नहीं लिखा
किं कारणम् अस्ति ?
= क्या कारण है ?
आवश्यकानि कार्याणि बाधन्ते।
= आवश्यक काम बाधा पहुँचाते हैं
अधुना सर्वाणि कार्याणि मया समापितानि।
= अभी मैंने सारे काम पूरे किये।
ओ३म्
३७. संस्कृत वाक्याभ्यासः
सारिका शनैः शनैः चलति।
= सारिका धीरे धीरे चलती है
किमर्थम् ?
= क्यों ?
मार्गे सर्वत्र जलम् अस्ति।
= रास्ते में सब जगह पानी है
सर्वम् आर्द्रम् आर्द्रम् अस्ति।
= सब कुछ गीला गीला है
सारिका स्वां शाटिकां रक्षति।
= सारिका अपनी साड़ी बचाती है
मार्गे यानानि वेगेन धावन्ति।
= रास्ते में वाहन तेज दौड़ते हैं
तस्मात् कारणात् जलं डयते।
= उसके कारण से पानी उड़ता है
कतिपय युवकाः ज्ञात्वा वेगेन चालयन्ति।
= कुछ युवक जानबूझ कर तेज चलाते हैं
तेन सर्वेषां वस्त्राणि आर्द्राणि, मलिनानि च भवन्ति।
= उससे सबके कपड़े गीले और मैले हो जाते हैं
वर्षायाः अनन्तरं ध्यानपूर्वकं चलनीयं भवति।
= वर्षा के बाद ध्यान से चलना चाहिये
ओ३म्
३८. संस्कृत वाक्याभ्यासः
नमो मित्रेभ्यः..!!
सुप्रभातं मित्राणि !
अद्य रविवासरः वर्तते ?
आज रविवार है क्या ?
अद्य कः दिवसः ?
आज क्या दिन है ?
रविवासरः।
ह्यः शनिवासरः आसीत्।
कल शनिवार था
ह्यः कः दिवसः आसीत् ?
कल क्या दिन था ?
शनिवासरः।
श्वः सोमवासरः भविष्यति।
कल सोमवार होगा
अद्य अवकाशः वर्तते।
आज अवकाश है
ओ३म्
३९. संस्कृत वाक्याभ्यासः
अद्य अहं गुरुकुले अस्मि।
आज मैं गुरुकुल में हूँ
अत्र कार्यक्रमः वर्तते।
यहाँ पर कार्यक्रम है
वस्त्रवितरणस्य कार्यक्रमः वर्तते।
वस्त्र वितरण का कार्यक्रम है
आचार्य शरच्चन्द्रस्य सत्प्रेरणया..
आचार्य शरच्चन्द्र जी की सत्प्रेरणा से
निर्धनाभ्यः बालिकाभ्यः वस्त्राणि प्रदास्यन्ते।
गरीब बालिकाओं को वस्त्र प्रदान किए जायेंगे
ओ३म्
४०. संस्कृत वाक्याभ्यासः
मम भार्या तस्याः भ्रात्रे रक्षासूत्रं प्रेषयति।
= मेरे पत्नी उसके भाई के लिये राखी भेज रही है
अधुना अहं पत्रालये अस्मि।
= अभी मैं डाकखाने में हूँ
अत्र बहु सम्मर्दः वर्तते।
= यहाँ बहुत भीड़ है
अनेके जनाः रक्षासूत्रं प्रेषयितुम् अत्र आगताः सन्ति।
= बहुत से लोग राखी भेजने के लिये यहाँ आए हैं