नमस्ते सतेते जगत्कारणाय …

0
506

ब्रह्मणे नमः

नमस्ते सतेते जगत्कारणाय, नमस्ते चिते सर्वलोकाश्रयाय।
नमोऽद्वैततत्त्वाय मुक्तिप्रदाय, नमो ब्रह्मणे व्यापिने शाश्वताय।।

त्वमेकं शरण्यं त्वमेकं वरेण्यम्, त्वमेकं जगत्पालकं स्वप्रकाशम्।
त्वमेकं जगत्कर्तृ-पातृ-प्रहर्तृ, त्वमेकं परं निश्चलं निर्विकल्पं।।

भयानां भयं भीषणं भीषणानाम्, गतिः प्राणिनां पावनं पावनानाम्।
महोच्चैः पदानां नियन्तृ त्वमेकं, परेषां परं रक्षणं रक्षणानाम्।।

वयं त्वां स्मरामो वयं त्वां भजामो, वयं त्वां जगत्साक्षीरूपं नमामः।
सदेकं निधानं निरालम्बमीशं, भवाम्बोधिपोतं शरण्यं व्रजामः।।

LEAVE A REPLY

Please enter your comment!
Please enter your name here