093 अष्टाध्यायी सूत्राभ्यास 3_2_141 se 150

शमित्यष्टाभ्यो घिनुण् (तच्छीलतद्धर्मतत्साधुकारिषु, वर्तमाने, धातोः, प्रत्ययः, परश्च) (3/2/141)

संपृचानुरुधाङ्यमाङ्यसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुहदुषद्विषद्रुहदुहयुजाक्रीड– विविचत्यजरजभजातिचरापचरामुषाभ्याहनश्च (घिनुण्, तच्छीलतद्धर्मतत्साधुकारिषु, वर्तमाने, धातोः, प्रत्ययः, परश्च) (3/2/142)

वौ कषलसकत्थस्रम्भः (घिनुण्, तच्छीलतद्धर्मतत्साधुकारिषु, वर्तमाने, धातोः, प्रत्ययः, परश्च) (3/2/143)

अपे च लषः (वा, घिनुण्, तच्छीलतद्धर्मतत्साधुकारिषु, वर्तमाने, धातोः, प्रत्ययः, परश्च) (3/2/144)

प्रे लपसृद्रुमथवदवसः घिनुण्, तच्छीलतद्धर्मतत्साधुकारिषु, वर्तमाने, धातोः, प्रत्ययः, परश्च) 3/2/145)

निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादिव्याभाषासूयो वुञ् (तच्छीलतद्धर्मतत्साधुकारिषु, वर्तमाने, धातोः, प्रत्ययः, परश्च) (3/2/146)

देविक्रुशोश्चोपसर्गे (वुञ्, तच्छीलतद्धर्मतत्साधुकारिषु, वर्तमाने, धातोः, प्रत्ययः, परश्च) (3/2/147)

चलनशब्दार्थादकर्मकाद्युच् (तच्छीलतद्धर्मतत्साधुकारिषु, वर्तमाने, धातोः, प्रत्ययः, परश्च) (3/2/148)

अनुदात्तेतश्च हलादेः (अकर्मकात् युच्, तच्छीलतद्धर्मतत्साधुकारिषु, वर्तमाने, धातोः, प्रत्ययः, परश्च) (3/2/149)

जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः (युच्, तच्छीलतद्धर्मतत्साधुकारिषु, वर्तमाने, धातोः, प्रत्ययः, परश्च) (3/2/150)