हे विभो आनन्दसिन्धो

समर्पण प्रार्थना

हे विभो आनन्दसिन्धो मे च मेधा दीयताम्।
यच्च दुरितं दीनबन्धो तच्च दूरं नीयताम्।। टेक।।

चंचलानि चेन्द्रियाणि मानसं मे पूयताम्।
शरणं याचे तावकोऽहं सेवकोऽनुगृह्यताम्।। 1।।

त्वयि च वीर्यं विद्यते यत् तच्च मयि निधीयताम्।
या च दुर्गुण दीनता मयि सा तु शीघ्रं क्षीयताम्।। 2।।

शौर्यं धैर्यं तैजसं च भारते चेक्रियताम्।
हे दयामय अयि अनादे प्रार्थना मम श्रूयताम्।। 3।।