००२० सरल संस्कृत अनुवाद अभ्यास पाठ २९१ से ३२०

ओ३म्
२९१ संस्कृत वाक्याभ्यासः

सः संकल्पं करोति।

अद्य आरभ्य अहं संस्कृत-भाषायां वदिष्यामि।

त्रुटि: भवति चेत् चिन्तां न करिष्यामि।

अहं सरलं वदिष्यामि।

गृहे वदिष्यामि

आपणे वदिष्यामि ।

मन्दिरे वदिष्यामि।

उद्याने वदिष्यामि।

प्रातः वदिष्यामि ।

सायं वदिष्यामि ।

कोsपि हसति तथापि वदिष्यामि।

संस्कृते एव वदिष्यामि।

ओ३म्
२९२ संस्कृत वाक्याभ्यासः

सा पूजा अस्ति ।
= वह पूजा है

पूजा संस्कृत छात्रा अस्ति ।
= पूजा संस्कृत छात्रा है

सा संस्कृतवर्गम् आगच्छति।
= वह संस्कृत वर्ग में आती है।

सा हरीन्द्रः अस्ति
= वह हरीन्द्र है

सः अपि संस्कृतवर्गम् आगच्छति।
= वह भी संस्कृत वर्ग में आता है

सः पुस्तकम् आनयति
= वह पुस्तक लाता है

सः मननः अस्ति।
= वह मनन है

मननः पूर्वं श्रृणोति।
= मनन पहले सुनता है

अनन्तरं मननः वदति।
= बाद में मनन बोलता है।

मननः सम्यक् अभ्यासं करोति।
= मनन अच्छे से अभ्यास करता है।

ओ३म्
२९३ संस्कृत वाक्याभ्यासः
सः जलं पिबति।

सः ऊष्णं जलं पिबति।

सः प्रातःकाले ऊष्णं जलं पिबति।

मध्याह्ने सः शीतलं जलं पिबति।

सः घटस्य जलं पिबति।

सा फलं खादति।

सा आम्रफलं खादति।

आम्रफलं मधुरम् अस्ति ।

सा स्वादुफलम् अपि खादति।

सा कदलीफलं न खादति।

सा केवलं फलं खादति।

ओ३म्
२९४ संस्कृत वाक्याभ्यासः
पिता पुत्राय आशीर्वादं ददाति।

तेजस्वी भव

यशस्वी भव

पिता किमर्थम् आशीर्वादं ददाति ?

यतोहि पुत्रः उच्चशिक्षार्थं गच्छति।

पुत्रः उच्चशिक्षार्थं कुत्र गच्छति ?

पुत्रः उच्चशिक्षार्थं मणिपालं गच्छति।

पिता पुत्राय शिक्षां ददाति।

कदापि व्यसनं मा कुरु ।

समयस्य सदुपयोगं कुरु ।

धनस्य अपव्ययं कदापि मा कुरु।

प्रातः शीघ्रमेव उत्तिष्ठ ( उत्थातव्यम् )

रात्रौ अधिकं जागरणं न करणीयम् ।

ओ३म्
२९५ संस्कृत वाक्याभ्यासः
श्वः केतनः भोपालं गमिष्यति।

केतनः तत्र किं करिष्यति ?

केतनः भोपाले व्याख्यानं दास्यति।

केतनः कस्मिन् विषये व्याख्यानं दास्यति ?

केतनः स्वच्छतायाः विषये व्याख्यानं दास्यति।

सः किं वदिष्यति ?

सः स्वच्छतायाः महत्वं वदिष्यति ।

सर्वे किं करिष्यन्ति ?

सर्वे जनाः तस्य व्याख्यानं श्रोष्यन्ति।

न केवलं श्रोष्यन्ति अपितु पालनम् अपि करिष्यन्ति।

सर्वे जनाः स्वच्छताम् इच्छन्ति।

ओ३म्
२९६ संस्कृत वाक्याभ्यासः
कदा – कब ?

कदा पर्यन्तम् – कब तक ?

सः कदा गृहं गमिष्यति ?

विपुलः कदा धनं दास्यति ?

नीति: कदा गीतं गास्यति ?

विवेकः कदा वृक्षारोपणं करिष्यति ?

चिकित्सकः कदा आगमिष्यति ?

वर्षा कदा भविष्यति ?

वर्गः कदा पर्यन्तं चलिष्यति ?

भवान् कदा पर्यन्तं हसिष्यति ?

भवती कदा पर्यन्तं कार्यं करिष्यति ?

सः बालकः कदा पर्यन्तं रोदिष्यति ?

ओ३म्
२९७ संस्कृत वाक्याभ्यासः

संजयः – समाचारपत्रं पठामि ।

विजयः – किमर्थं समाचारपत्रं पठति।

संजयः – अहं तु प्रतिदिनं पठामि।

विजयः – नैव अहं न पठामि।

संजयः – किमर्थं न पठति भवान् ?

विजयः – समाचारपत्रं पठित्वा मम मनः खिन्नं भवति ।

संजयः – मम तु ज्ञानं वर्धते ।

विजयः – भवतः ज्ञानं वर्धते , मम तु अवसादः वर्धते।

– केवलं हिंसायाः , दुराचारस्य च वार्ताः भवन्ति।

संजयः – अहं तु लेखान् एव पठामि अतः ज्ञानं वर्धते।

ओ३म्
२९८ संस्कृत वाक्याभ्यासः

मम पुत्रः श्वः देहलीतः चलिष्यति।

सः रेलयानेन यात्रां करिष्यति।

तेन सः मम आवुत्तः अपि प्रस्थानं करिष्यति।

मम आवुत्तः मम पुत्रस्य कृते पाथेयम् आनेष्यति।

मार्गे मम पुत्रः भोजनं करिष्यति।

मम आवुत्तः अपि भोजनं करिष्यति।

अधुनैव सूचना प्राप्ता ।

रेलयानं विलम्बेन चलति ।

अतः तौ द्वौ विलम्बेन आगमिष्यतः ।

पुत्रः विलम्बेन आगमिष्यति।

आवुत्तः अपि विलम्बेन आगमिष्यति।
( अवुत्तः = जीजाजी )

ओ३म्
२९९ संस्कृत वाक्याभ्यासः

भवतः चिन्तनं सम्यक् अस्ति ।

भवत्या निर्मितं भोजनं सम्यक् अस्ति ।

तस्य स्वास्थ्यं सम्यक् नास्ति।

तस्मिन् नगरे वातावरणं सम्यक् नास्ति।

गतवर्षे सम्यक् वर्षा न अभवत् ।

कुमारस्वामी सम्यक् कार्यं न करोति।

तद् जलं सम्यक् नास्ति , मा पिबतु।

तस्य मनोवृत्तिः सम्यक् नास्ति।

सः शीघ्रं शीघ्रं स्नानं कृतवान् , सम्यक् स्नानं न कृतवान्।

सः औषधं खादति चेत् सम्यक् भविष्यति।

ओ३म्
३०० संस्कृत वाक्याभ्यासः

सः बालीद्वीपं गतवान् ।

सः परिवारजनैः सह बालीद्वीपं गतवान् ।

बालीद्वीपस्य संस्कृतिं दृष्टवान् ।

बालीद्वीपे अनेकानि मन्दिराणि सन्ति।

तत्र जनाः यज्ञं कुर्वन्ति।

यदा मार्गे कोsपि मिलति तदा ते “ओं स्वस्तिः” इति वदन्ति।

बालीद्वीपे बहु हरीतिमा अस्ति।

औषधीनां वृक्षाः सन्ति ।

तत्रत्या संस्कृतिः भारतसदृशी अस्ति।

केवलं तत्र भाषाभेदः एव अस्ति।

भारतात् अनेके जनाः बालीद्वीपं गच्छन्ति।

ओ३म्
३०१ संस्कृत वाक्याभ्यासः

मार्गम् उभयतः वृक्षाः सन्ति।

वृक्षेषु खगाः निवसन्ति।

वृक्षेषु चिक्रोडाः अपि निवसन्ति।

चिक्रोडाः इतः धावन्ति।

चिक्रोडाः ततः धावन्ति।

चिक्रोडाः अत्र धावन्ति।

क्रोडाः तत्र धावन्ति।

चिक्रोडाः उपरि गच्छन्ति।

चिक्रोडाः अधः आगच्छन्ति।

चिक्रोडाः वेगेन धावन्ति।

चिक्रोडाः मन्दं न धावन्ति।

यदा अन्नं मिलति तदा तिष्ठन्ति।

पुच्छम् उपरि कृत्वा धावन्ति।

चिक्रोडाः फलानि खादन्ति।

चिक्रोडाः तृणं खादन्ति।
( चिक्रोडाः = गिलहरियाँ )

ओ३म्
३०२ संस्कृत वाक्याभ्यासः

सः माम् आह्वयति ।
= वह मुझे बुलाता है ।

सः उच्चै: आह्वयति
= वह जोर से बुलाता है।

अहं स्थितवान् ( अतिष्ठम् )
= मैं रुक गया ।

तस्य पार्श्वम् अहं गतवान्।
= उसके पास मैं गया।

सः मह्यम् एकं स्यूतं दत्तवान्।
= उसने मुझे एक थैला दिया।

सः अवदत्।
= वह बोला

गतदिने भवान् मम आपणे विस्मृतवान्।
= कल आप मेरी दूकान पर भूल गए थे।

स्यूते भवतः कार्यालयस्य लेख्यपत्राणि सन्ति।
= थैले में आपके कार्यालय के डॉक्यूमेंट हैं।

ओह , अहं तदेव अन्वेषयामि स्म।
= ओह , मैं वही खोज रहा था।

अहं तं ” धन्यवादः ” इति उक्तवान्।
= मैंने उसे ” धन्यवाद ” कहा ।

ओ३म्
३०३ संस्कृत वाक्याभ्यासः

तेजसः वस्त्रापणं गच्छति।
= तेजस कपड़े की दूकान जाता है।

आपणिकं वदति।
= दूकानदार को बोलता है ।

मम पुत्र्याः कृते सुन्दरं चोलां ददातु।
= मेरी बेटी के लिये अच्छी फ्रॉक दीजिये।

आपणिकः पृच्छति।
= दुकानदार पूछता है।

भवतः पुत्री कति वर्षीया अस्ति ?
= आपकी बेटी कितने साल की है ?

तेजसः उत्तरं ददाति।
= तेजस उत्तर देता है ।

मम पुत्री द्विवर्षीया अस्ति।
= मेरी बेटी दो वर्ष की है।

तेजसः तस्याः सेविकाम् आह्वयति।
= तेजस उसकी नौकरानी को बुलाता है।

सेविके ! पुत्रीम् अन्तः आनयतु।
= सेविका ! बेटी को अंदर लाओ।

पश्यतु , एषा अस्ति मम पुत्री।
= देखिये , ये है मेरी बेटी।

आपणिकः वदति।
= दुकानदार बोलता है।

एषा तु भवतः सेविकायाः पुत्री अस्ति।
= यह तो आपकी नौकरानी की बेटी है।

तेजसः – आम् , अद्य एतस्याः जन्मदिनम् अस्ति।
= हाँ , आज इसका जन्मदिन है।

एतस्याः कृते चोलां ददातु ।
= इसके लिये फ्रॉक दीजिये।

ओ३म्
३०४ संस्कृत वाक्याभ्यासः

सः न निद्राति।
= वह नहीं सोता है

तारकान् पश्यति।
= तारों को देखता है।

तारकान् गणयति।
= तारों को गिनता है।

कुक्कुराणां रवं श्रृणोति।
= कुत्तों की आवाज सुनता है

अत्र तत्र भ्रमति।
= यहाँ वहाँ घूमता है।

निद्रा न आगच्छति।
= नींद नहीं आती है।

सः उत्तिष्ठति।
= वह उठता है।

विद्युतं ज्वालयति।
= बिजली जलाता है।

सः पुस्तकं पठति।
= वह पुस्तक पढ़ता है।

तथापि निद्रा न आगच्छति।
= फिर भी नींद नहीं आती है।

सः रात्रौ द्विवादने स्नानं करोति।
= वह रात में दो बजे स्नान करता है।

आगत्य भूमौ उपविशति।
= आकर भूमि पर बैठ जाता है।

अनन्तरं सः शवासनं करोति।
= बाद में वह शवासन करता है।

रात्रौ सार्ध त्रिवादने तं निद्रा आगच्छति।
= रात साढ़े तीन बजे उसे नींद आती है।

ओ३म्
३०५ संस्कृत वाक्याभ्यासः

बालकाय आम्रफलं रोचते
= बच्चे को आम पसंद है।

बालिकायै आम्रफलं रोचते
= बच्ची को आम पसंद है।

बालकाः स्वादेन अधिकं खादन्ति।
= बच्चे स्वाद से अधिक खा लेते हैं

आम्रफलं अधिकं खादन्ति तर्हि पित्तं वर्धते ।
= आम अधिक खाते हैं तो पित्त बढ़ता है।

बालकस्य मुखे पिटकानि जातानि।
= बच्चे के मुँह पर फुंसियाँ हो गई हैं।

सः बालकः रोदिति।
= वह बच्चा रो रहा है।

अधुना माता बालकाय आम्रफलं न ददाति।
= अब माँ बच्चे को आम नहीं देती है।

माता स्वयमपि आम्रफलं न खादति।
= माँ स्वयं भी आम नहीं खाती है।

अधुना सा तरंबूजम् आनयति।
= अब वो तरबूज लाती है।

बालकः तरंबूजं खादति।
= बालक तरबूज खाता है।

माता अपि खादति।
= माँ भी खाती है।

ओ३म्
३०६ संस्कृत वाक्याभ्यासः

छात्रः – पुनः पुनः तदेव पाठयति भवान् ।
= फिर फिर वही पढ़ाते हैं आप ।

भवतः नाम किम् ?
भवत्याः नाम किम् ?
= आपका नाम क्या है ?

सः युवकः ।

सा युवती

तद् फलम्

एषः युवकः

एषा युवती

एतद् फलम्

शिक्षकः – भवान् प्रतिदिनं भोजनं करोति ?
छात्रः – आम् ।

शिक्षकः – रोटिकां प्रतिदिनं खादति।
छात्रः – आम् ।

शिक्षकः – यथा रोटिकां प्रतिदिनं खादति
तथैव प्रतिदिनम् अभ्यासं करोतु।

– तेन बहु लाभः भविष्यति।

– भवान् अभ्यासं न करोति अतः तदेव पाठयामि।

ओ३म्
३०७ संस्कृत वाक्याभ्यासः

  • अद्य अभ्यासं करोतु ।

** कस्य अभ्यासं करोमि ?

  • करोतु ।

** किं करवाणि ?

  • करोतु ।

** आम् , अवगतम् । वदामि ।

कृपया जलं पिबतु ।

कृपया भोजनं खादतु ।

कृपया आपणं चलतु।

कृपया अत्र उपविशतु।

कृपया चलचित्रं पश्यतु।

कृपया शास्त्रीयं सङ्गीतं श्रृणोतु ।

कृपया तत्र मा गच्छतु।

कृपया मा हसतु।

कृपया उच्चै: वदतु।

  • आम् तथैव ।
  • तथैव सर्वे अभ्यासं कुर्वन्तु।

सर्वे वदन्तु।

सर्वे पठन्तु।

ओ३म्
३०८ संस्कृत वाक्याभ्यासः

बालकः – त्वं किं खादसि ?
= तुम क्या खा रहे हो ?

ज्येष्ठ: – न बालक ! त्वम् इति न वक्तव्यम्
= नहीं बालक ! “तुम” नहीं कहना चाहिये।

– अहं भवता ज्येष्ठ: ।
= मैं तुमसे बड़ा हूँ।

– अतः भवान् इति वद।
= इसलिये “आप” बोलो ।

बालकः – अस्तु , भवान् किं खादसि ?
= ठीक है , आप क्या खा रहे हो ?

ज्येष्ठ: – पुनः दोषः
= फिर से गलती।

भवान् किं खादति ?

भवान् किं पठति ?

भवान् किं लिखति ?

वान् किं करोति ?

भवान् कुत्र गच्छति ?

तथा वक्तव्यम् ?

स्त्रीलिङ्गे भवती इति वक्तव्यम् ।

भवती किं खादति ?

भवती किं पठति ?

भवती किं लिखति ?

भवती किं करोति ?

भवती कुत्र गच्छति ?

बालकः – एवं वा ?

एतद् तु बहु सरलम् अस्ति ।

भवान् मोदकं खादति।

भवती चित्रं पश्यति।

भवान् ध्यानं करोति।

भवती पत्रं लिखति।

भवान् दुग्धं पिबति।

भवती गीतं श्रृणोति।

बालकः – अधुना अहं कमपि ” त्वं ” न वदिष्यामि।
= अब मैं किसी को तुम नहीं बोलूँगा।

भवान् ….. भवती …..

ओ३म्
३०९ संस्कृत वाक्याभ्यासः

पश्यन्तु , सः आगतवान् ।
= देखिये , वह आ गया ।

सः समये एव आगतवान् ।
= वह समय पर ही आया

सः सर्वान् उत्थापितवान् ।
= उसने सबको उठाया।

सः सर्वेषां कृते ऊर्जाम् आनीतवान्।
= वह सबके लिये ऊर्जा लाया।

सः सर्वेभ्यः एकसमानं ददाति ।
= वह सबको एकसमान देता है।

तं दृष्ट्वा छात्राः विद्यालयं गच्छन्ति।
= उसको देखकर छात्र विद्यालय जाते हैं

तं दृष्ट्वा कृषकाः क्षेत्रं प्रति चलन्ति।
= उसे देखकर किसान खेत की ओर चलते हैं।

तं दृष्ट्वा सर्वे मन्त्रान् पठन्ति।
= उसे देखकर सभी मन्त्र पढ़ते हैं।

सर्वे नमस्कारं कुर्वन्ति ।
= सभी नमस्कार करते हैं ।

तं दृष्ट्वा सर्वे प्रसन्नाः भवन्ति।
= उसे देखकर सभी प्रसन्न होते हैं।

सः कः अस्ति ?
= वह कौन है ?

सः सूर्यः अस्ति ।
सः भास्करः
सः दिवाकरः
सः मार्तण्डः
सः आदित्यः
सः दिनकरः

ओ३म्
३१० संस्कृत वाक्याभ्यासः

चलभाषेण वार्तालापः ….
= मोबाइल से बातचीत ….

तदपि संस्कृतभाषायाम् !!!!
= वह भी संस्कृत भाषा में !!!

गतदिने अहं कस्यापि आसम्
= कल मैं किसी की ऑफिस में था।

एकस्य दूरवाणी आगता
= किसी का फोन आया।

  • नमस्ते , अहं हंसदत्त शास्त्री वदामि।
    = नमस्ते , मैं हंसदत्त शास्त्री बोल रहा हूँ।

अहम् – नमस्ते , वदतु … कथम् अस्ति ?
= नमस्ते , बोलिये … कैसे हैं ?

…. अहम् उत्थाय बहिः गन्तुं प्रवृत्तः अभवम्।
= …. मैं उठकर बाहर जाने लगा ।

कार्यालय-संचालकः निवेदितवान् ( न्यवेदयत् )
= कार्यालय के संचालक ने निवेदन किया

*** अत्रैव वार्तालापं करोतु।
= यहीं बात करिये।

– अहं श्रोतुम् इच्छामि।
= मैं सुनना चाहता हूँ।

आवयोः संस्कृत-सम्भाषणं सः प्रेम्णा श्रुतवान्।
= हम दोनों का संस्कृत सम्भाषण उसने प्रेम से सुना।

हंसदत्तः कुमायूँतः वदति स्म।
= हंसदत्त जी कुमायूँ से बोल रहे थे।

ओ३म्
३११ संस्कृत वाक्याभ्यासः

  • चलतु …
    ** कुत्र ?
  • योगं कर्तुम्

** अहं तु प्रतिदिनं योगं करोमि।

  • अद्य सर्वे एकसाकं करिष्यामः ।

** अहम् अत्रैव एकाकी एव ध्यानं करिष्यामि।

  • तर्हि अहं गच्छामि।

** योगश्चित्त वृत्ति: निरोधः।

  • भवता सह उपविशामि।

** शान्तभावेन योग-ध्यानं करोतु।

विश्वयोगदिनस्य शुभकामनाः ।

ओ३म्
३१२ संस्कृत वाक्याभ्यासः

माता शिशोः कृते पुत्तलिकाम् आनयति।
= माँ शिशु के लिये गुड़िया लाती है।

शिशुः पुत्तलिकां हस्ते गृह्णाति।
= बालक गुड़िया को हाथ में लेता है।

शिशुः पुत्तलिकां पश्यति।
= बालक गुड़िया को देखता है।

बालकः पुत्तलिकायाः नेत्रे पश्यति।
= बालक गुड़िया की दोनों आँखें देखता है।

बालकः पुत्तलिकायाः केशान् पश्यति।
= बालक गुड़िया की आँखें देखता है।

बालकः पुत्तलिकायाः एकं हस्तम् उपरि करोति।
= बालक गुड़िया का एक हाथ ऊपर करता है।

बालकः पुत्तलिकायाः द्वितीयं हस्तम् उपरि करोति।
= बालक गुड़िया का दूसरा हाथ ऊपर करता है।

बालकः पुत्तलिकया सह क्रीडति।
= बालक गुड़िया के साथ खेलता है।

बालकः पुत्तलिकां दृष्ट्वा हसति।
= बालक गुड़िया को देखकर हँसता है।

बालकः पुत्तलिकां हस्ते गृहीत्वा शयनं करोति।
= बालक गुड़िया को हाथ में लेकर सोता है।

ओ३म्
३१३ संस्कृत वाक्याभ्यासः

सः सर्वान् नृत्यतः जनान् पश्यति।
= वह सभी नाचते हुए लोगों को देख रहा है।

सर्वे तं परितः नृत्यन्ति।
= सब उसके चारों नाचते हैं।

तस्य भ्रातृजाया नृत्यति।
= उसकी भाभी नाच रही है।

तस्य भ्राता नृत्यति।
= उसका भाई नाचता है।

तस्य मतुलः नृत्यति।
= उसका मामा नाचता है।

तस्य भगिनी अपि नृत्यति।
= उसकी बहन भी नाच रही है।

तस्य मित्राणि अपि नृत्यन्ति।
= उसके मित्र भी नाच रहे हैं।

किमर्थं सर्वे नृत्यन्ति ?
= क्यों सब नाच रहे हैं ?

अद्य तस्य विवाहः अस्ति।
= आज उसका विवाह है।

सः दिव्यांगः अस्ति ।
= वह दिव्यांग है।

अद्य तस्य विवाहः अस्ति ।
= आज उसका विवाह है।

तस्य वधू अपि दिव्याङ्गिनी अस्ति ।
= उसकी दुल्हन भी दिव्यांग है।

सः लेखापरीक्षकः अस्ति।
= वह चार्टर्ड अकाउंटेंट है।

तस्य वधू शिक्षिका अस्ति।
= उसकी दुल्हन शिक्षिका है।

ओ३म्
३१४ संस्कृत वाक्याभ्यासः

मम प्रतिवेशी अस्वस्थः अस्ति ।
= मेरा पड़ोसी बीमार है।

सः चिकित्सालये प्रविष्टः अस्ति।
= वह अस्पताल में भर्ती है।

प्रातः अहं तं द्रष्टुं गतवान्।
= सुबह मैं उसको देखने गया।

चिकित्सिकालयस्य स्वागतकेन्द्रे अहं पृष्टवान् ।
= अस्पताल के स्वागतकेंद्र पर मैंने पूछा।

सः रुग्णः कुत्र अस्ति ?
= वह रुग्ण कहाँ है ?

कस्मिन् प्रकोष्ठे अस्ति ?
= कौनसे कमरे में है ?

सा परिचारिका उक्तवती
= वह सेविका बोली

उपरि गच्छतु।
= ऊपर जाईये ।

वामभागे द्वितीयः प्रकोष्ठ: अस्ति।
= बाईं तरफ कमरा है।

एकशतम् अष्टतमे प्रकोष्ठे सः अस्ति।
= एक सौ आठवें कमरे में वह है

तेन सः अधिकां वार्तां मा करोतु।
= उसके साथ अधिक बात नहीं करेंगे।

सः विश्राममेव कुर्यात् ।
= वह विश्राम ही करे ।

ओ३म्
३१५ संस्कृत वाक्याभ्यासः

सः आवासं परिवर्तयति ।

वह निवास बदलता है।

पूर्वं सः लघुगृहे निवसति स्म।
= पहले वह छोटे घर में रहता था।

अधुना सः विशाले गृहे निवसिष्यति।
= अब वह विशाल घर में रहेगा।

नूतने गृहे पाकशाला विशाला अस्ति।
= नए घर में रसोई बड़ी है।

बालकानां एकः प्रकोष्ठः अस्ति।
= बच्चों का एक कमरा है।

अतिथीनां कृते अपि एकः प्रकोष्ठः अस्ति।
= अतिथियों के लिये भी एक कमरा है।

आवास-परिसरे अनेके वृक्षाः सन्ति।
= आवास परिसर में अनेक वृक्ष भी हैं।

नूतने गृहे सः पुरातनानि वस्तूनि नेष्यति।
= नए घर में वह पुरानी वस्तुएँ ले जाएगा।

सर्वाणि पुस्तकानि अपि नेष्यति।
= सभी पुस्तकें ले जाएगा।

गृहप्रवेश समये सः धौतवस्त्रं धारयिष्यति।
= गृहप्रवेश के समय वह धोती पहनेगा।

तस्य भार्या शाटिकां धारयिष्यति।
= उसकी पत्नी साड़ी पहनेगी।

गृहप्रवेशसमये अनेकानि संस्कृतमित्राणि आगमिष्यन्ति।
= गृहप्रवेश के समय अनेक संस्कृत मित्र आएँगे।

ते संस्कृत-गीतानि गास्यन्ति।
= वे संस्कृत गीत गाएँगे।

ओ३म्
३१६ संस्कृत वाक्याभ्यासः

कति जनाः आसन् ?
= कितने लोग थे ?

ते त्रयः आसन् ।
= वो तीन थे।

ताः तिस्रः आसन् । ( स्त्रीलिंग )
= वो तीन थीं ।

न .. न .. तौ द्वौ आस्ताम् ।
= नहीं … नहीं .. वो दो थे ।

ते द्वे आस्ताम् । (स्त्रीलिंग )
= वो दो थीं ।

अनन्तरं द्वौ आगतवन्तौ
= बाद में दो आ गए।

तदा ते चत्वारः अभवन् ।
= तब वो चार हो गए।

अनन्तरं द्वे आगतवत्यौ (स्त्रीलिंग )
= बाद में दो आ गईं।

तदा ताः चतस्रः अभवन् ।
= तब वो चार हो गईं ।

ते / ताः किं कुर्वन्ति ?
= वो क्या कर रहे / रही हैं ?

ते/ताः संस्कृते सम्भाषणं कुर्वन्ति।
= वे संस्कृत में सम्भाषण कर रहे / रही हैं ।

ओ३म्
३१७ संस्कृत वाक्याभ्यासः

नगरपालिकायाः जनः उद्घोषणां करोति।

अद्य जलं न आगमिष्यति।

द्वितीये दिने पुनः उद्घोषणां करोति।

अद्य जलं न आगमिष्यति।

तृतीये दिने पुनः उद्घोषणां करोति।

अद्य जलं न आगमिष्यति।

जनाः चिन्तयन्ति।

ह्यः जलं न आगतम् ।

परह्यः अपि न आगतम् ।

अद्य अपि न आगमिष्यति।

श्वः आगमिष्यति न वा ?

नगरपालिकया न प्रेष्यते

तर्हि वयं जलं संरक्षामः ।

वयं सर्वे जलं रक्षिष्यामः ।

ओ३म्
३१८ संस्कृत वाक्याभ्यासः

अहं यस्मिन् कार्यालये कार्यं करोमि …
= मैं जिस कार्यालय में काम करता हूँ …

तत्र अनेके सैनिकाः आगच्छन्ति।
= वहाँ अनेक सैनिक आते हैं।

तेषां कार्यम् अहं शीघ्रमेव करोमि।
= उनका काम मैं जल्दी करता हूँ।

ते बहु प्रसन्नाः भवन्ति।
= वे बहुत खुश होते हैं ।

अहम् उत्थाय तेषां स्वागतं करोमि।
= मैं खड़े होकर उनका स्वागत करता हूँ।

पाकिस्तानस्य सीमा मम कार्यालयतः द्विशतं क्रोश दूरे अस्ति।
= पाकिस्तान की सीमा मेरे कार्यालय से एक सौ मील दूर है।

सैन्यशिबिरम् अस्माकं नगरे अस्ति।
= सेना की छावनी हमारे नगर में है।

ते यदाकदा मम कार्यालयम् आगच्छन्ति।
= वे कभी कभी मेरे कार्यालय आते हैं।

तान् दृष्ट्वा मम मनसि वीरभावः जायते।
= उनको देखकर मेरे मन में वीरभाव जगता है।

जयतु वीरसैनिकाः

ओ३म्
३१९ संस्कृत वाक्याभ्यासः

सः मूढः जनः अस्ति।
= वह पागल व्यक्ति है।

सः सर्वदा हसति।
= वह हमेशा हँसता है।

अकारणमेव हसति।
= कारण बिना के हँसता है।

तस्य वस्त्राणि मलिनानि सन्ति।
= उसके वस्त्र मैले हैं।

तस्य केशाः बहु दीर्घाः सन्ति।
= उसके बाल बहुत लम्बे हैं।

आदिनम् अटति।
= सारा दिन घूमता है।

सः यत्र इच्छति तत्र उपविशति।
= वो जहाँ चाहता है वहाँ बैठ जाता है।

यत्र इच्छति तत्र शयनं करोति।
= जहाँ चाहता है वहाँ सो जाता है।

कदापि स्नानं न करोति।
= कभी नहाता नहीं है।

जनाः तस्मै भोजनं ददति।
= लोग उसे भोजन देते हैं।

तदा सः खादति।
= तब वह खाता है।

सः कम् अपि न पीड़यति।
= वह किसी को परेशान नहीं करता है।

ओ३म्
३२० संस्कृत वाक्याभ्यासः

सुजाता वित्तकोषे वृत्तिं प्राप्तवती।
= सुजाता ने बैंक में नौकरी पाई।

सा अद्य वित्तकोषं गच्छति।
= वह आज बैंक जा रही है।

सुजाता तस्याः स्यूतं पश्यति।
= सुजाता अपना थैला देखती है।

स्यूते लेखनी अस्ति

स्यूते करवस्त्रम् अस्ति।

स्यूते धनम् अस्ति।

स्यूते यानचालन-अनुज्ञप्ति अस्ति।
= थैले में ड्राइविंग लाइसेंस है।

स्यूते मम नियुक्तिपत्रम् अस्ति।
= थैले में मेरा नियुक्ति पत्र है।

जलस्य कूपीं स्थापितवती।
= पानी की बोतल रख दी।

चलभाषम् अपि स्थापितवती।
=मोबाइल भी रख दिया।

सा यदा गृहात् प्रस्थानं करोति तदा गायत्रीमन्त्रं जपति।
= वह जब घर से निकलती है तब गायत्री मन्त्र का जाप करती है।

सा स्कूटरयानेन वित्तकोषं गच्छति।
= वह स्कूटर से बैंक जाती है।

Leave a Reply

Your email address will not be published. Required fields are marked *