०००९ सरल संस्कृत अनुवाद अभ्यास पाठ ८१ से ९०

0
246

ओ३म्

८१. संस्कृत वाक्याभ्यासः

अहम् = मैं

पुरातनानि वस्तूनि निष्कासयामि।
= पुरानी वस्तुओं को निकाल रहा हूँ ।

भग्नानि वस्तूनि निष्कासयामि।
= टूटी हुई चीजें निकाल रहा हूँ

अनावश्यकानि वस्तूनि निष्कासयामि।
= अनावश्यक वस्तुएँ निकाल रहा हूँ

सः /सा = वह

पुरातनानि वस्तूनि निष्कासयति।
= पुरानी वस्तुओं को निकाल रहा / रही है

भग्नानि वस्तूनि निष्कासयति।
= टूटी हुई चीजें निकाल रहा / रही है

अनावश्यकानि वस्तूनि निष्कासयति।
= अनावश्यक वस्तुएँ निकाल रहा / रही है

ओ३म्

८२. संस्कृत वाक्याभ्यासः

अधुना मार्गः अवरुद्धः अस्ति।
= अभी रास्ता अवरुद्ध (बन्द) है

अग्रे एका दुर्घटना संजाता।
= आगे एक दुर्घटना हुई है

दुर्घटना सेतोः उपरि अभवत्।
= दुर्घटना पुल के ऊपर हुई है

यानानि अग्रे गन्तुं न शक्यन्ते।
= वाहन आगे जा नहीं सकते हैं

सर्वाणि यानानि पङि्क्त मध्ये (पंक्त्याम् ) तिष्ठन्ति।
= सभी वाहन लाइन में खड़े हैं

अहमपि याने अस्मि।
= मैं भी वाहन में हूँ

मम यानस्य अग्रे अनेकानि यानानि सन्ति
= मेरे वाहन के आगे अनेक वाहन हैं

मम यानस्य पृष्ठे अपि अनेकानि यानानि सन्ति।
= मेरे वाहन के पीछे भी अनेक वाहन हैं

यातायात-नियंत्रकः बहु यतते।
= ट्रैफिक कंट्रोलर बहुत प्रयास कर रहा है

(नियंत्रकाः यतन्ते)

न जानामि , मार्गः कदा सुगमः भविष्यति।
= नहीं जानता , रास्ता कब जाने योग्य होगा

कदा अहं गृहं प्राप्स्यामि ?
= कब मैं घर पहुँचूँगा ?

ओ३म्

८३. संस्कृत वाक्याभ्यासः

एकस्य विद्यालयस्य प्राङ्गणे अस्मि।
= एक विद्यालय के मैदान में हूँ

छात्राः परस्परं वार्तालापं कुर्वन्ति।
= छात्र आपस में बात कर रहे हैं

एकः वदति।
= एक बोलता है

विज्ञानं तु कठिनम् अस्ति।
= विज्ञान तो कठिन है

द्वितीयः वदति।
= दूसरा बोलता है

गणितं कठिनम् अस्ति।
= गणित कठिन है

तृतीयः छात्रः वदति।
= तीसरा छात्र बोलता है

अहम् इतिहासं न अवगच्छामि।
= मैं इतिहास नहीं समझता हूँ

किञ्चित् काल-अनन्तरं सर्वे वदन्ति।
= कुछ समय बाद सभी बोलते हैं

संस्कृत विषयः अस्मभ्यं रोचते।
= संस्कृत विषय हमको पसन्द है

संस्कृत-विषयः बहु सरलः विषयः।
संस्कृत विषय अत्यन्त सरल विषय है

ओ३म्

८४. संस्कृत वाक्याभ्यासः

सः विवाह-संबंधार्थम् आगतवान् अस्ति।
= वह विवाह संबंध के लिए आया है

तस्य पुत्रार्थं कन्यां द्रष्टुम् आगतः।
= उसके बेटे के लिये कन्या देखने आया है

सायंकाले सः माम् अमिलत्।
= शाम को वह मुझे मिला

माम् कन्यायाः विषये अपृच्छत्।
= मुझे कन्या के बारे में पूछा

तां कन्यां जानाति भवान् ?
= उस कन्या को जानते हैं आप ?

कीदृशी अस्ति सा ?
= कैसी है वह ?

कीदृशः अस्ति तस्याः स्वभावः ?
= कैसा है उसका स्वभाव ?

सा कथं व्यवहरति ?
= वह कैसे व्यवहार करती है ?

अहं तां कन्यां जानामि।
= मैं उस कन्या को जानता हूँ

तस्याः विषये अहं सर्वं भद्रमेव उक्तवान्।
= उसके बारे में मैंने सब अच्छा ही कहा

ओ३म्

८५. संस्कृत वाक्याभ्यासः

सा मम प्रबंधिका अस्ति।
= वह मेरी मैनेजर है

तस्याः नाम सविता अस्ति।
= उसका नाम सविता है

सा केरल-राज्यस्य मूलनिवासिनी अस्ति।
= वह केरल की मूल निवासिनी है

सा मलयालम् भाषायाम् वदति।
= वह मलयालम भाषा में बोलती है

तस्याः सम्वादे संस्कृत-शब्दाः भवन्ति।
= उसके सम्वाद में संस्कृत शब्द होते हैं

सा यदा मलयालम्-भाषां वदति
= वह जब मलयालम बोलती है

तदा संस्कृत-भाषा सदृशं भासते।
= तब संस्कृत भाषा जैसा लगता है

तस्यै मम संस्कृत-सम्वादः रोचते।
= उसे मेरा संस्कृत सम्वाद पसन्द है

मह्यं तस्याः मलयालम् सम्वादः रोचते।
= मुझे उसका मलयालम सम्वाद पसन्द है

ओ३म्

८६. संस्कृत वाक्याभ्यासः

अद्य रविवासरः अस्ति।
= आज रविवार है

तर्हि आगच्छन्तु अभ्यासं कुर्मः।
= तो आईये अभ्यास करते हैं

दीपकः वदति।
= दीपक बोलता है

सुरेन्द्रः खादति।
= सुरेन्द्र खाता है

श्वेता लिखति।
= श्वेता लिखती है

सुलोचना पिबति।
= सुलोचना पीती है

माता कार्यं करोति।
= माँ काम करती है

पिता गच्छति।
= पिता जाता है

वैद्यः चिकित्सां करोति।
= वैद्य चिकित्सा करता है

छात्रः पुस्तकं पठति।
= छात्र पुस्तक पढ़ता है

अश्वः धावति।
= घोड़ा दौड़ता है

जलं प्रवहति।
= पानी बहता है

ओ३म्

८७. संस्कृत वाक्याभ्यासः

आपणे अनेके जनाः सन्ति।
= बाजार में अनेक लोग हैं

सर्वे धनत्रयोदशी अर्थं वस्तूनि क्रीणन्ति।
= सभी धनतेरस के लिये वस्तुएँ खरीद रहे हैं।

दीपावली-पर्वणः कृते अपि वस्तूनि क्रीणन्ति।
= दीपावली के लिये भी वस्तुएँ खरीद रहे हैं

गृहसज्जायाः वस्तूनि सन्ति आपणे।
= घर की सजावट की वस्तुएँ हैं बाजार में

अन्यानि वस्तूनि कानि कानि सन्ति ?
= और कौन कौनसी वस्तुएँ हैं ?

कृपया लिखन्तु।

ओ३म्

८८. संस्कृत वाक्याभ्यासः

अश्विनः प्रथमवारं संस्कृतभाषायां वदति।
= अश्विन पहली बार संस्कृत भाषा में बोल रहा है

अतः सः शनैः शनैः वदति।
= इसलिये वह धीरे धीरे बोलता है

मम ……. नाम …. अश्विनः।

अहम् ….. आणंद नगर में …. निवसामि ष्

एवम् उक्त्वा सः विरमति।
= ऐसा कह कर वह रुकता है

परितः पश्यति।
= चारों ओर देखता है

सर्वेषां मुखं पश्यति।
= सबका मुँह देखता है ।

कोपि न हसति।
= कोई नहीं हँसता है

तर्हि सः प्रसन्नः भवति।
= तब वो प्रसन्न होता है

नीलेशः तस्य प्रशंसां करोति।
= नीलेश उसकी प्रशंसा करता है

अश्विनः अद्य संस्कृत-सम्भाषणम् आरब्धवान्।
= अश्विन ने आज संस्कृत में बातचीत शुरू की

भवता / भवत्या कदा आरप्स्यते ?
= आपके द्वारा कब आरम्भ किया जाएगा ?

ओ३म्

८९. संस्कृत वाक्याभ्यासः

अधुना कः कः ध्यानं करोति ?
= इस समय कौन कौन ध्यान कर रहा है ?

अधुना का का ध्यानं करोति ?
= इस समय कौन कौन ध्यान कर रही है ?

सुदेशः ध्यानं करोति।
सुदेश ध्यान कर रहा है

सुमित्रा ध्यानं करोति।
सुमित्रा ध्यान कर रही है

भवन्तः / भवत्यः अपि लिखन्तु।
= आप भी लिखिये

ओ३म्

९०. संस्कृत वाक्यअभ्यासः

सतीश !!
= ओ सतीश !

जलं प्रवहति ….
= पानी बह रहा है

ओह, सतीशः न श्रृणोति।
= ओह, सतीश नहीं सुन रहा है ।

ओ सतीश ! केवलं गायनं करोषि त्वम्।
= ओ सतीश ! तुम केवल गा रहे हो

मम वार्तां न श्रृणोषि त्वम्।
= तुम मेरी बात नहीं सुन रहे हो

ओ सतीश ! जलं व्यर्थमेव प्रवहति …
= पानी बेकार में बह रहा है

त्वं स्नानम् अल्पं करोषि।
= तुम स्नान कम करते हो

गीतम् अधिकं गायसि …
= गाना अधिक गाते हो

स्नानगृहे एव गायसि।
= स्नानागार में ही गाते हो

अन्यत्र तु तूष्णीम् एव उपविशसि।
= और जगह तो चुप ही बैठते हो

ओ सतीश ! श्रृणु।
= ओ सतीश, सुनो

मम कृते जलं संरक्ष।
= मेरे लिये पानी बचाना

मया अपि स्नानं करणीयम् अस्ति।
= मुझे भी स्नान करना है

अहं स्नानगृहे गीतं न गायामि।
= मैं स्नानागार में गाना नहीं गाता हूँ

LEAVE A REPLY

Please enter your comment!
Please enter your name here